Sutras 101 - 120¶
- 51101: तस्मै प्रभवति संतापादिभ्यः
- 51102: योगाद्यच्च
- 51103: कर्मण उकञ्
- 51104: समयस्तदस्य प्राप्तम्
- 51105: ऋतोरण्
- 51106: छन्दसि घस्
- 51107: कालाद्यत्
- 51108: प्रकृष्टे ठञ्
- 51109: प्रयोजनम्
- 51110: विशाखाषाढादण् मन्थदण्डयोः
- 51111: अनुप्रवचनादिभ्यश्छः
- 51112: समापनात् सपूर्वपदात्
- 51113: ऐकागारिकट् चौरे
- 51114: आकालिकडाद्यन्तवचने
- 51115: तेन तुल्यं क्रिया चेद्वतिः
- 51116: तत्र तस्येव
- 51117: तदर्हम्
- 51118: उपसर्गाच्छन्दसि धात्वर्थे
- 51119: तस्य भावस्त्वतलौ
- 51120: आ च त्वात्