51120: आ च त्वात्

Padacheda: आ | S | 0 | 0 |

च | S | 0 | 0 |

त्वात् | S | 5 | 1 |

Sutrartha

‘तस्य भावस्त्वतलौ’ (5.1.119) इत्यनेन विहितौ त्व-तल्-प्रत्ययौ ‘ब्रह्मणस्त्वः’ (5.1.136) इति सूत्रपर्यन्तमपवादानां विधाने अपि विकल्पेन विधीयन्ते ।

तस्य भावस्त्वतलौ (5.1.119) इत्यनेन सूत्रेण ‘भावः’ अस्मिन् अर्थे ‘त्व’ तथा ‘तल्’ प्रत्ययौ उच्येते । एतयोः प्रत्यययोः व्याप्तेः विषये अस्मिन् सूत्रे द्वौ बिन्दू पाठ्येते - 1) ब्रह्मणस्त्वः (5.1.136) इति सूत्रपर्यन्तम् एतयोः प्रत्यययोः व्याप्तिः अस्ति । इत्युक्ते, ब्रह्मणस्त्वः (5.1.136) इति सूत्रपर्यन्तम् ये केऽपि अर्थाः / प्रातिपदिकशब्दाः उक्ताः सन्ति, तेषाम् विषये ‘त्व’ तथा ‘तल्’-प्रत्ययौ भवतः । 2) ब्रह्मणस्त्वः (5.1.136) इति सूत्रपर्यन्तम् यद्यपि विशिष्टेभ्यः प्रातिपदिकेभ्यः विशिष्ट-अपवादाः उच्यन्ते, तथाऽपि ते अपवादाः त्व-तल्-प्रत्ययौ विकल्पेन एव बाधेते । इत्युक्ते, येषाम् विषये अपवादाः विहिताः सन्ति, तेषाम् विषये अपि विकल्पेन त्व-तल्-प्रत्ययौ भवतः । संक्षेपेण, त्व-तल्-प्रत्ययौ, तथा च तयोः अपवादाः - एतयोर्मध्ये बाध्य-बाधकभावः न विद्यते - इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि पश्यामः - अ) गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यनेन सूत्रेण ‘जडस्य कर्म’ अस्मिन् अर्थे जड-शब्दात् ष्यञ्-प्रत्ययः विधीयते, येन ‘जाड्य’ इति रूपम् सिद्ध्यति । एतत् सूत्रम् ब्रह्मणस्त्वः (5.1.136) इत्यस्मात् पूर्वमुक्तमस्ति, अतः ‘जडस्य कर्म’ अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । जडस्य कर्म जडत्वम् जडता वा । आ) पृथ्वादिभ्य इमनिज्वा (5.1.122) इत्यनेन सूत्रेण ‘पृथु’शब्दात् इमनिच् तथा अण् प्रत्ययौ भवतः । यथा - पृथोः भावः प्रथिमा पार्थवम् वा । एतत् सूत्रम् ब्रह्मणस्त्वः (5.1.136) इत्यस्मात् पूर्वमुक्तमस्ति, अतः ‘पृथोः भावः’ अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । पृथोः भावः पृथुत्वम् पृथुता वा । इ) सख्युर्यः (5.1.126) अनेन सूत्रेण ‘सख्युः भावः कर्म वा’ अस्मिन् अर्थे सखि-शब्दात् य-प्रत्ययः भवति, येन ‘सख्य’ इति शब्दः सिद्ध्यति । एतत् सूत्रम् ब्रह्मणस्त्वः (5.1.136) इत्यस्मात् पूर्वमुक्तमस्ति, अतः ‘सख्युः भावः कर्म वा’ अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । सख्युः भावः सखित्वम् सखिता वा । ई) <!दूतवणिग्भ्यां चेति वक्तव्यम्!> एतत् वार्त्तिकम् सख्युर्यः (5.1.126) इत्यत्र पाठितमस्ति । अनेन वार्त्तिकेन ‘दूतस्य भावः कर्म वा’ अस्मिन् अर्थे ‘दूत्य’ अयम् शब्दः सिद्ध्यति । एतत् सूत्रम् ब्रह्मणस्त्वः (5.1.136) इत्यस्मात् पूर्वमुक्तमस्ति, अतः अत्रापि त्व-तल्-प्रत्ययौ भवतः, याभ्याम् ‘दूतत्वम्’ तथा ‘दूतता’ एतौ शब्दौ अपि सिद्ध्यतः । विशेषः - ‘स्त्री’ तथा ‘पुम्स्’ शब्दयोः विषये वस्तुतः स्त्रीपुंसाभ्याम् नञ्स्नञौ भवनात् (4.1.87) इत्यनेन अस्मिन् अधिकारे नञ् तथा स्नञ् प्रत्ययौ उक्तौ स्तः । परन्तु वर्तमानसूत्रे ‘च’ इत्यस्य ग्रहणेन एतयोः शब्दयोः विषये ‘त्व’ तथा ‘तल्’ प्रत्ययौ अपि विकल्पेन विधीयेते । यथा - स्त्रीणाम् भावः स्त्रैणम् स्त्रीत्वम् स्त्रीता वा । पुंसाम् भावः पौंस्नम् पुंस्त्वम् पुंस्ता वा । ‘पुंस्त्व’ शब्दस्य प्रक्रिया इयम् - पुम्स् + त्व → पुम् + त्व [‘त्व’ प्रत्यये परे स्वादिष्वसर्वनामस्थाने (1.4.17) इति अङ्गस्य पदसंज्ञा ।संयोगान्तस्य लोपः (8.2.7) इति पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः] → पुँरुँ + त्व / पुंरुँ + त्व [पुमः खय्यम्परे (8.3.6) इति मकारस्य रुँत्वम् । अत्रानुनासिकः पूर्वस्य तु वा (8.3.2) इति विकल्पेन अनुनासिकः ; पक्षे अनुनासिकात्परोऽनुस्वारः (8.3.4) इति अनुस्वारः] → पुँः / पुंः + त्व [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → पुँस्त्व / पुंस्त्व [विसर्जनीयस्य सः (8.3.34) इति विसर्गस्य सकारः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः ‘त्वात्’ शब्दः ब्रह्मणस्त्वः (5.1.136) इत्यत्र निर्दिष्टस्य ‘त्व’ शब्दस्य निर्देशं करोति । ‘आ त्वात्’ इत्युक्ते ‘त्व’ शब्दपर्यन्तम् । अतः अनेन सूत्रेण त्व/तल्-प्रत्यययोः व्याप्तिः ब्रह्मणस्त्वः (5.1.136) इति पर्यन्तमस्ति एतत् स्पष्टीभवति । 2. अनेन सूत्रेण त्व-तल्-प्रत्यययोः व्याप्तिः निर्दिश्यते, अतः एतत् सूत्रम् ‘अधिकारसूत्रम्’ अस्तीति स्वीक्रियते ।

Vasu English Summary

From this forward as far as the sūtra ब्रह्मणस्त्वः (5.1.136), the affixes त्व and तल् bear the rule.

Vasu English Translation

From this forward as far as the sūtra ब्रह्मणस्त्वः (5.1.136), the affixes त्व and तल् bear the rule. Thus in (5.1.122), त्व and तल् are read, giving the forms पृथुत्वम् and पृथुता &c. This rule is intended to secure admission for these two affixes notwithstanding the bars in the shape of subsequent aphorisms directing the employment of other affixes. These affixes signify, in addition to भाव (nature), कर्म (action) also, in (5.1.124). The word च in the aphorism is intended to secure their admission notwithstanding the affixes नञ् and स्रञ् (6.1.87). Thus स्त्रियाः भावः = स्त्रैणम्, स्त्रीत्वम्, स्त्रीता ‘the nature of a female’. पुंस्तम्, पुंस्ता, पौंस्तम् ॥

Bhashya

आ च त्वात् (2002) (चकाराक्षेपप्रयोजनभाष्यम्) किमर्थश्चकारः? अनुकर्षणार्थः, त्वतलावनुकृष्येते। नैतदस्ति प्रयोजनम्, प्रकृतौ त्वतालवनुवर्तिष्येते॥ अत उत्तरं पठति - (5693 चकारप्रयोजनवार्तिकम्॥ 1 ॥) - आ च त्वादिति चकारकरणमपवादसमावेशार्थम् - (भाष्यम्) आ च त्वादिति चकारकारणं क्रियते, अपवादसमावेशार्थम्। इमनिच्प्रभृतिभिरपवादैः समावेशो यथा स्यात्॥ (वार्तिकोक्तप्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। आ त्वात् इत्येवेमनिच्प्रभृतिभिरपबादैः समावेशो भविष्यति॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - आ त्वाद्याः प्रकृतयः - ताभ्यश्च त्वतलौ यथा स्यातां यतश्चोच्येते॥ (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम्। आ त्वात् इत्येव आत्वाद्याः प्रकृतयः ताभ्यस्त्वतलौ भविष्यतः, यतश्चोच्येते॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - आ त्वाद्येऽर्थास्तत्र त्वतलौ यथा स्यातां, यत्र चोच्येते॥ (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम्। आ त्वात् इत्येव आ त्वाद्येऽर्थास्तत्र त्वतलौ भविष्यतः, यत्र चोच्येते॥ (सिद्धान्तप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - आ त्वाद्याः प्रकृतयस्ताभ्यश्च त्वतलौ यथा स्याताम्, यस्याश्च प्रकृतेरेतस्मिन् विशेषेऽन्यः प्रत्यय उत्पद्यते। किं कृतं भवति? स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानं चोदितं तन्न वक्तव्यं भवति॥

Kashika

ब्रह्मणस्त्वः**(५.१.१३६) इति वक्ष्यति। आ एतस्मात् त्वसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ। वक्ष्यति — **पृथ्वादिभ्य इमनिज् वा (५.१.१२२) इति। प्रथिमा। पार्थवम्। पृथुत्वम्। पृथुता। म्रदिमा। मार्दवम्। मृदुत्वम्। मृदुता। अपवादैः सह समावेशार्थं वचनम्। कर्मणि च विधानार्थं गुणवचनब्राह्मणादिभ्यः कर्मणि च (५.१.१२४) इति। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पुंसो भावः। पुंस्त्वम्। पुंस्ता। पौंस्नम्॥

Siddhanta Kaumudi

ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रियो भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥

Laghu Siddhanta Kaumudi

ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते। अपवादैः सह समावेशार्थमिदम्। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः - स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पौंस्नम्। पुंस्त्वम्। पुंस्ता॥

Balamanorama

आ च त्वात् - आच त्वात् । त्वलावित्यनुवर्तते । आड्भर्यादायाम् । तदाह — ब्राहृणस्त्व इत्तः प्रागिति । ननु ‘तस्य भावस्त्वतलौ’ इत्यतस्त्वतलोरुत्तरसूत्रेष्वनुवृत्त्यैव सिद्धेरधिकारोऽयं व्यर्थ इत्यत-आह — अपवादैरिति ।पृथ्वादिभ्यः इमनिज्वा॑ इत्यादिविहितैरिमनिजादिभिरपवादैः समुच्चायार्थमित्यर्थः । असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्षनिर्दिष्टैरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथाप्राग्दीव्यतोऽ॑णित्यधिकृतस्य अणः ‘अत इ’ ञित्यादावपि प्रवृत्तिः स्यादिति भावः । प्रयोजनान्तरमाह — गुणवचनादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यञा बाधप्रसङ्ग इति भावः । नन्वेवमपिआ त्वा॑दित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थ इत्यत आह — चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम्, अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति । संयोगान्तलोपे पुमः खय्यम्परे॑ इति रुत्वम् । पाक्षिकावनुनासिकानुस्वारौ । विसर्गे कृतं सत्वम् । एवं पुंस्त्वम् । तत्र ‘ह्रस्वात्तादौ’ इति षत्वं न भवति, सवनादिषु पाठात् ।

Tattvabodhini

आ च त्वात् - अपवादैः सहेति ।पृथ्वादिभ्य इमनिज्वे॑त्यादिभिः । चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम्, अन्यत्क तयोः सावकाशत्वादिति भावः । पौस्नं पुंस्त्वमिति । संयोगान्तलोपेपुमः खयी॑ति रुत्वम् । पाक्षिकावनुनासिकानुस्वारौ । विसर्गे कृते सत्वम् ।

Padamanjari

प्रथिमेति।’तुरिष्ठेमेयस्सु’ ‘टेः’ इति टिलोपः, रऋतो हलादेर्लघोःऽ इति ऋकारस्य रादेशः। पार्थवमिति। ठिगन्ताच्च लघुपूर्वात्ऽ इत्यण्। अपवादैरित्यादि। इमनिजादआआस्त्वतलोरपवादान्वक्ष्यति, तैः सह समावेशो यथा स्यादित्येवमर्थमिदम्। ननु स्वरितत्वादेव त्वतलावनुवर्तिष्येते तेनापवादविषये भविष्यतः ? तन्न; इत उतरवाक्यानां प्रत्ययनिर्द्देशेन निराकांक्षत्वात्वतलोरपि पूर्वसूत्रे विधानादाकांक्षाया अभावान्नैतच्छक्यं विज्ञातुम्-अनुवर्तेते त्वतलाविति। कर्मणि च विधानाराथमिति। येभ्य एव कर्मणि ष्यञादिविधिस्तेभ्य एव त्वतलावपि कर्मणि भवतः, न तु ङ्याप्प्रातिपदिकमात्रात्। चकारो नञस्नञ्ब्यामपि समावेशार्थ इति। अन्यथा’स्त्रीपुंसाभ्याम्’ इत्यस्य विधित्वपक्षे प्राग्भवनाद्येऽर्थास्तानपेक्ष्य तत्रैव प्रदेशे नञ्स्नञोर्विधानादत्र प्रकरणे सन्निधानाभावान्नेमनिजादिवत्समावेशसिद्धिः। परिभाषात्वेऽपि यथोद्देशपक्षे’स्त्रीपुंसाभ्याम्’ इत्यत्रैव प्रकरणे नञ्स्नञोः सन्निधिः। न पुनरिमनिजादिमध्ये कार्यकालपक्षेऽपि प्राग्भवनाद्येऽर्थाः, तत्र नञ्स्नञ्भ्यामुपस्थातव्यम्। तत्र यदि तावद्भावे इत्यर्थविज्ञानमात्र एव नञ्स्नञोरुपस्थानम् -‘तस्य भावस्त्वतलौ’ ‘स्त्रीपुंसाभ्यां भावे नञ्स्नञौ’ इति, तदस्मिन्प्रदेशे सन्निधानेऽपि ठा च त्वात्ऽ इत्यस्मात्पूर्वै भवतः। अथ तूत्सर्गापादविधानोपयोगविज्ञानानन्तरं नञ्स्नव्योरुपस्थानम्, तदा ब्रह्मणस्त्व इत्यस्मात्परौ नञस्नञौ भवतः। सर्वथा ठा च त्वात्ऽ इत्यस्मिन्प्रदेशे नाभ्यन्तरौ।’गुणपचनब्राह्मणादिभ्यः कमणि च’ इत्यत्र कर्मणि नञ्स्नञोरुपस्थानं नाशङ्नीयम्; प्रकृतिविसेषसम्बद्धस्य कर्मार्थस्योपादानात् प्रकृत्यन्तरेण तस्यासम्बन्धात्। अधिकारपक्षे तु प्रतिसूत्रमुपस्थानान्नञ्स्नञोरिमनिजादिष्वन्तर्भावाद् ठा च त्वात्ऽ इत्येव नञ्स्नञ्भ्यामपि समावेशः सिध्यति। अथ तत्राप्यर्थस्यैवावधित्वादर्थेष्वेवोपस्थानम्, ततोऽधिकारपक्षेऽपि नाभ्यन्तरत्वमिति सर्वथा चकारेणैव नञ्स्नञ्भ्यां समावेशो वाच्यः ॥

Nyaas

प्रथिमा इति। तुरिष्टेमेयस्सु (6.4.154) इति, टेः (6.4.155) इति टिलोपः। र ऋतोहलादेर्लघोः (6.4.161) इति ऋकारस्य रेफः, सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति दीर्घः। पार्थवम् इति। इगन्ताच्च लघुपूर्वात् (5.1.131) इत्यण्। अपवादैः इत्यादि। इमनिच्प्रभृतीनपवादस्त्वितलोर्वक्ष्यति, तैः सह तयोः समावेशः। एकविषयता यथा स्यादित्येवमर्थमिदम्। ननु च स्वरितत्वादनुवर्तमानावनुवृत्तिसामर्थ्यादेवापवादविषयेऽपि भविष्यतः? नैतदस्ति; अस्ति ह्रनुवृत्तेः प्रयोजनम्, किंम्? गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इति कर्मण्यपि यथा स्याताम्; इतरथा हि भावे विधीयमानौ कर्मणि न स्याताम्। कर्मणि च इत्यादि। ननु चानुवृत्तिसामर्थ्यादेव कर्मण्यपि भविष्यतः? नैतदस्ति; अस्ति ह्रन्यदनुवृत्तेः प्रयोजनम्, किम्? अपवादविषयेऽपि यथा स्याताम्। तस्मसत्वसति न स्याताम्, अस्मस्तु सत्येतदुभयमपि लभ्यते। चकारः इत्यादि। यदि चकारो न क्रियेत ततोऽत्रैव प्रकरणे येऽपवादास्तैरेव समावेशः स्यात्, न नञ्स्नञ्भ्याम्; तयोरन्यतर विहितत्वात्। चकारे त्वपवादसमुच्चयार्थे सति सर्वापवादविषये त्वतलौ लभ्येते। तेन स्त्रीपुंसाभ्यामपि सिद्धौ भवतः। यद्येवम्, अन्येष्वर्थेषु सावकाशौ नञ्स्नञौ भावे न सिध्यतः, त्वल्लभ्यां बाध्यमानत्वात्? नैषः दोषः; भवनात् इत्यवध्युपादानसामर्थ्याद्भावेऽपि भविष्यतः; इतरथा हि भावमेव विधित्वेनोपाददीत॥

Prakriyasarvasvam

‘ब्रह्मणस्त्वः’ (५-१-१३६) इत्यतः प्राग् बाधकस्थलेऽपि त्वतलौ स्तः । पृथुत्वं पृथुतेत्यादि । नञ्स्नञ्भ्यामप्यनयोर्योगात् स्त्रैणं स्त्रीत्वं स्त्रीता, पौंस्नं पुंस्त्वं पुंस्ता ॥