51100: कर्मवेषाद्यत्

Padacheda: कर्म-वेषात् | S | 5 | 1 |

यत् | S | 5 | 1 |

Sutrartha

तृतीयासमर्थात् ‘कर्म’शब्दात् ‘वेष’शब्दात् च ‘सम्पादिनि’ अस्मिन् अर्थे यत्-प्रत्ययः भवति ।

‘सम्पादिनि’ इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते ‘यः शोभते सः’ (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् सम्पादिनि (5.1.100) इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्यये प्राप्ते तं बाधित्वा ‘कर्म’शब्दात् तथा ‘वेष’शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययः भवति । यथा - 1. कर्मेण सम्पादि कर्म्यम् शरीरम् । कर्म कृत्वैव यत् शोभते, न हि आलस्येन, तत् कर्म्यम् शरीरम् । 2. वेषेण सम्पादी वेष्यः नटः । उचितं वेषं धारयित्वा यः शोभते सः वेष्यः नटः (actor) । ज्ञातव्यम् - ‘सम्पत्ति’ शब्दात् आवश्यकाधमर्णयोर्णिनिः (3.3.170) अनेन सूत्रेण ‘णिनि’ प्रत्ययं कृत्वा ‘सम्पादिन्’ इति इन्नन्तः शब्दः सिद्ध्यति ।

Vasu English Summary

The affix यत् (यं) comes in the sense of ‘being fitted with that’, after the words 1. कर्म and 2. वेष being in the Instrumental -3rd case in construction.

Vasu English Translation

The affix यत् (यं) comes in the sense of ‘being fitted with that’, after the words 1. कर्म and 2. वेष being in the Instrumental -3rd case in construction. This debars than. कर्मणा संपद्यते = कर्मण्यं शरीरम्, वेषेण संपद्यते = वेष्यो नटः ॥ For accent see (6.1.213).

Kashika

कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति संपादिनीत्येतस्मिन् विषये। ठञोऽपवादः। कर्मणा संपद्यते कर्मण्यं शरीरम्। वेषेण संपद्यते वेष्यो नटः॥

Siddhanta Kaumudi

कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥

Balamanorama

कर्मवेषाद्यत् - कर्मवेषाद्यत् । तृतीयान्तात्कर्मन्शब्दात्, वेषशब्दाच्च संपादिन्यर्थे यत्स्यादित्यर्थः ।

Padamanjari

कर्मृउव्यायामः, वेषःउकृत्रिम आकारः ॥

Nyaas

कण्र्यम् इति। ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावः॥

Prakriyasarvasvam

कर्म व्यायामः । तेन सम्पादी कर्मण्यः वेष्यः ॥