51102: योगाद्यच्च

Padacheda: योगात् | S | 5 | 1 |

यत् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘प्रभवति’ अस्मिन् अर्थे चतुर्थीसमर्थात् ‘योग’शब्दात् ‘यत्’ तथा ‘ठञ्’ प्रत्ययः भवति ।

‘प्रभवति’ इत्युक्ते ‘अलम्’ (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् ‘योग’शब्दात् ‘यत्’ तथा ‘ठञ्’ प्रत्ययौ भवतः । योगाय प्रभवतिः तत् योग्यम् यौगिकम् वा कार्यम् । स्त्रीत्वे यत्-प्रत्ययान्तशब्दात् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् टिड्ढाणञ्.. (4.1.15) इति ङीप्-प्रत्ययः भवति । योगाय प्रभवतिः सा योग्या यौगिकी वा क्रिया ।

Vasu English Summary

The affix यत् (यं) is also added in the sense of ‘able to effect that’ after the word योग।

Vasu English Translation

The affix यत् (यं) is also added in the sense of ‘able to effect that’ after the word योग। Thus योगाय प्रभवति = योग्यः or यौगिकः ॥

Kashika

योगशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ्, तस्मै प्रभवतीत्यस्मिन् विषये। योगाय प्रभवति योग्यः, यौगिकः॥

Siddhanta Kaumudi

चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥

Balamanorama

योगाद्यच्च - योगाद्यच्च ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः ।

Prakriyasarvasvam

योगाय शक्तो योग्यो मुनिः । यौगिकः ॥

Sutra Prayogas

  • योग्यता (शिशुपालवधम्): योगाद्यच्च इति यत्प्रत्ययः।

  • योग्ये (भट्टिकाव्यम्): योगाद्यत्