51114: आकालिकडाद्यन्तवचने¶
Padacheda: आकालिकट् | S | 1 | 1 |
आद्यन्तवचने | S | 7 | 1 |
Sutrartha¶
‘समानकालौ आद्यन्तौ अस्य’ अस्मिन् अर्थे ‘आकालिक’ शब्दः निपात्यते ।
अनेन सूत्रेण ‘आकालिक’ इति शब्दः पाठ्यते । किम् नाम आकालिकः? यदि कस्यचन पदार्थस्य आदिः तथा अन्तः समानकाले एव भवतः (इत्युक्ते सः पदार्थः लघुसमयम् यावत् एव जीवति, अधिकम् न), तर्हि तस्य पदार्थस्य निर्देशः ‘आकालिक’ इत्यनेन क्रियते । यथा - 1. मनसि उत्पन्नः विचारः क्षणम् यावत् एव तिष्ठति; अधिकम् न । अतः एतादृशः विचारः ‘आकालिकः’ नाम्ना ज्ञायते । 2. आकाशेे निर्मितः मेघः यदि लघुसमयम् एव जीवति, तर्हि सः ‘आकालिकः मेघः’ इति उच्यते । 3. आकाशे जायमाना विद्युत् क्षणम् यावत् एव तिष्ठति; अधिकम् न । अतः इयम् विद्युत् ‘आकालिकी’ विद्यत् नाम्ना ज्ञायते । अस्मिन् सूत्रे ‘आद्यन्तवचने’ इति शब्दः उक्तः अस्ति । ‘आदिः’ तथा ‘अन्तः’ द्वयोः एकत्ररूपेण निर्देशार्थम् ‘आद्यन्तवचन’ शब्दः अत्र प्रयुज्यते । ‘आकालिक’ शब्दस्य सिद्धौ व्याख्यानेषु प्रक्रियायाः प्रारम्भे ‘समानकाल’ इति प्रातिपदिकम् स्वीक्रियते । प्रक्रिया इयम् - समानकालौ आद्यन्तौ अस्य [‘समानकाल’ इति प्रातिपदिकम् । अस्य ज्ञापनम् व्याख्यानेभ्यः एव भवति , सूत्रे न कृतमस्ति । तथैव, ‘आद्यन्तवचने’ इत्यस्य निर्देशार्थम् ‘आद्यन्तौ’ इति शब्दः विग्रहवाक्ये स्वीक्रियते । ‘आद्यन्तवचने’ इति अत्र प्रत्ययस्य अर्थः, तथा ‘समानकाल’ इति प्रातिपदिकम् ।] → समानकाल + इकट् [वर्तमानसूत्रेण ‘इकट्’ प्रत्ययः निपात्यते] → आकाल + इकट् [‘समानकाल’ इत्यस्य ‘आकाल’ इति आदेशः निपात्यते] → आकाल् + इकट् [यस्येति च (6.4.148) इति अकारलोपः] → आकालिक । प्रत्यये प्रयुक्तः इत्संज्ञकः टकारः स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्ययं जनयति । यथा - समानकालौ आद्यन्तौ अस्याः सा आकालिकी विद्युत् । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!आकालात् ठन् च!> । इत्युक्ते, ‘समानकाल’ इत्यस्य ‘आकाल’ इति परिवर्तनं कृत्वा ततः ठन्-प्रत्ययः अपि भवितुमर्हति । ठन्-प्रत्यये कृते अपि ‘आकालिक’ इत्येव रूपम् जायते, परन्तु इत्संज्ञकः नकारः तत्र ञ्नित्यादिर्नित्यम् (6.1.197) इति आद्युदात्तत्वं कारयति । तथा च, स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (6.1.77) इत्यनेन टाप्-प्रत्ययः विधीयते । यथा - समानकालौ आद्यन्तौ अस्याः सा आकालिका विद्युत् । विशेषः - अस्य वार्त्तिकस्य विषये पदमञ्जरीकारः वदति - ‘वार्त्तिककारो मन्यते - न समानकालशब्दस्याकालशब्द आदेशो निपात्यः, नापीकट् प्रत्ययः, किं तर्हि ? आकालात् ठन् चेति सूत्रम् कर्तव्यम्’ । इत्युक्ते, पदमञ्जरीकारस्य मतेन अस्य वार्त्तिकस्य अर्थः किञ्चन भिन्नः अस्ति । कोऽयम् भिन्नः अर्थः ? पदमञ्जरीकारः चिन्तयति - <!आकालात् ठन् च!> अनेन वार्त्तिकेन ‘आकाल’ शब्दात् ठन्, तथा चकारात् ठञ्-प्रत्ययः पाठ्यते । अतः वस्तुतः अत्र इकट्-प्रत्ययस्य न कापि आवश्यकता, अपितु <!आकालात् ठन् च!> एतत् वार्त्तिकम् एव वर्तमानसूत्रस्य स्थाने सूत्ररूपेण स्थापितव्यम् । तेन ‘निपातनस्य’ अपि आवश्यकता न वर्तते - यतः ‘आकाल’शब्दात् स्वार्थे ठन्-ठञ् प्रत्ययौ कृत्वा ‘आकालिका’ / ‘आकालिकी’ शब्दौ भवितुमर्हतः - इति । अस्मिन् विषये अधिकम् जिज्ञासवः पदमञ्जरीं पश्यन्तु । ज्ञातव्यम् - प्राग्वतेष्ठञ् (5.1.18) इत्यत्र आरब्धः प्राग्वतीयः ठञधिकारः (= तद्धिताधिकारे पाणिनिना पाठितः पञ्चमः महोत्सर्गः) अत्र समाप्यते ।
Vasu English Summary¶
The word आकालिकट् is irregularly formed in the sense of ‘what coincides with the beginning and the end i.e. what lasts only an instant’.
Vasu English Translation¶
The word आकालिकट् is irregularly formed in the sense of ‘what coincides with the beginning and the end i.e. what lasts only an instant’. The word आकाल is substituted for समानकाल. Thus आकालिकः स्तनयित्नुः ‘a thunder lasting for an instant’. आकालिकी विद्युत् “a lightening lasting a twinkle”. i. e. whose death is equal to its time of birth or dying as soon as born.
Vart:- The affixes ठन् and ठञ् also come after आकाल; as आकालिका विद्युत् ॥
So far is the governing power of the affix ठञ् (5.1.18).
Bhashya¶
आकालिकडाद्यन्तवचने (1996) (निपातनाधिकरणम्) (5680 निपातनानर्थक्यबोधकवार्तिकम्॥ 1 ॥) - आकालान्निपातनानर्थक्यं ठञ्ञ् प्रकरणात् - (भाष्यम्) आकालान्निपातनमनर्थकम्। किं कारणम्? ठञ्ञ्प्रकरणात्। ठञ्ञ् प्रकृतः सोऽनुवर्तिष्यते॥ (निपातनस्य फलान्तरबोधकं भाष्यम्) इदं तर्हि प्रयोजनम् - एतस्मिन् विशेषे निपातनं करिष्यामि समानकालस्याद्यन्तविवक्षायामिति॥ (5689 विधिवार्तिकम्॥ 2 ॥) - आकालाट्ठंश्च - (भाष्यम्) आकालाट्ठंश्च वक्तव्यः। आकालिकी। आकालिका॥
Kashika¶
आकालिकड् इति निपात्यत आद्यन्तवचने। समानकालशब्दस्य आकालशब्द आदेशः। आद्यन्तयोश्चैतद् विशेषणम्। इकट् प्रत्ययश्च निपात्यते। समानकालावाद्यन्तावस्य आकालिकः स्तनयित्नुः। आकालिकी विद्युत्। जन्मना तुल्यकालविनाशा। उत्पादानन्तरं विनाशिनीत्यर्थः॥ आकालाट् ठंश्च॥ चात् ठञ् च। आकालिका विद्युत्। ठञः पूर्णोऽवधिः॥
Siddhanta Kaumudi¶
समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याऽऽकाल आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा ।<!आकालाट्ठंश्च !> (वार्तिकम्) ॥ आकालिका विद्युत् ॥ ठञः पूर्णोऽवधिः ॥
Balamanorama¶
आकालिकडाद्यन्तवचने - आकालिकट् । समानकालाविति बहुव्रीहिः । आद्यन्ताविति । उत्तपत्तिवनाशादित्यर्थः । समानकालस्येति । समानकालशब्दस्य इकप्रत्यये परे आकालादेशो निपात्यत इत्यर्थः ननूत्पत्तिविनाशयोकेककालिकत्वमसंभवपराहतमित्यत आह — आशु विनाशीति । लक्षणां विनैवाह — पूर्वदिने इति । आकालाट्ठंश्चेति । आकालशब्दादाद्यन्तवचनाट्ठन्प्रत्ययश्च वक्तव्य इत्यर्थः । चाट्ठञ् । आकालिका विद्युदिति । ठनि टाप् । ठञि तु ङीप् । आकालिकी । अर्थः प्राग्वत् । * इति बालमनोरमायाम् प्राग्वतीयस्य ठञः पूर्णोऽवधिः । *****तिङन्ते तुदादयः ।अथ शविकरणा धातवो निरूप्यन्ते । इतः षडिति । ‘ऋषी गतौ’ इत्यतः प्रागित्यर्थः ।
Tattvabodhini¶
आकालिकडाद्यन्तवचने - आकाल आदेश इति ।निपात्यते॑इति शेषः । आद्यन्तौ यस्येत्यादि । अस्येत्यधिकारात्षष्ठर्थे इकट् प्रत्ययो निपात्यत इति भावः ।आकालाट्ठंश्च । आकालाट्ठंश्चेति । वार्तिकमिदम् । ठञः पूर्णोऽवधिः ।इति तत्त्वबोधिन्यां ठञधिकारः । तिङन्ते तुदादयः ।
Padamanjari¶
आकालिककडिति निपात्ये इति। समुदायविषयमुक्तवा तत्रैव विभज्य निपातनं दर्शयति - समानकालशब्दस्येत्यादि। सर्वेषामेव वाक्यानां निपात्यत इति वक्ष्यमाणेनैव सम्बन्धः। आद्यन्तयोश्चैतद्विशेषणमिति। एतत्समानकालत्वमाद्यन्तयोर्विशेषणं निपात्यते ठाद्यन्तवचनेऽ इति सूत्रे श्रुतत्वादित्यर्थः। इकट् च प्रत्यय इति। क्वार्थे? अस्येत्यधिकारात्षष्ठ।ल्र्थे। तदाह - समानकालावाद्यन्तावस्येति। समानकालौ एककालावित्यर्थः। आदिःउजन्म, अन्तःउविनाशः, न चोत्पादविनाशयोरेककालत्वसम्भव इत्यव्यवहितकालत्वेमेककालत्वम्। निरन्तरे हि काले भेदाग्रहणात्स एव काल इति भवति प्रतिपतिः। तदाह - उत्पन्नानन्तरं विनाशीत्यर्थ इति । आकालाट्ठÄश्चेति। वाक्तिककारो मन्यते। न समानकालशब्दस्याकालशब्द आदेशो निपात्यः, नापीकट् प्रत्ययः, किं तर्हि ? आकालाट्ठ्ंअश्चेति सूत्रं कर्तव्यम्। चकारः प्रकृतस्यैव ठञः समुच्यायार्थः। किमिदमाकालादिति ? आवृतः कालोऽस्येत्याकालः। न च कालस्यावृत्तिः सम्भवतीत्ययमर्थो भवति-उत्पत्तिकालेन समानो निरन्तरो यस्य विनाशकाल इति। एवं ह्युत्पत्तिकाल एव विनाशोऽस्यावृत इति भवति प्रत्ययः। ततः स्वार्थे ठन्विधेय आद्यन्तवचने विषय इति। तत्र ठञ्पक्षे ङीबाद्यौदातत्वं च भवति, प्रत्ययान्तरनिपातने तु नाद्यौदातत्वं सिद्धयति, तदाह - ठाकालनिपातनानर्थक्यं ठञ्प्रकरणा दिति। वृत्तिकारस्तु ठकारोच्चारणात्प्रत्ययान्तरस्यैव निपातनं मन्यमानो ञित्स्वरं नेच्छति, तन्मते निपातनापेक्षयां समुच्चयार्थश्चशब्दः, निपातनं च कर्तव्यम्। आकालशब्दाच्च ठनपि विधेय इति। आकालशब्दस्य चोक्त एवार्थः स्वार्थिकश्च ठन्। आद्यन्तविषया चावृतकालता। अपर आह - आवृतः काल इति तत्पुरुषोऽयम्, ततोऽस्येत्यधिकारात् षष्ठ।ल्र्थे प्रत्यय इति। सर्वथा तिपातनस्य ठनश्चैक एवार्थः - समानकालावाद्यन्तावस्येति। अन्ये वर्णयन्ति - येषां वर्षादीनां यस्मिन्नेव काले मध्यह्नादावुत्पत्तिः, तस्मिन्नेव द्वितीयदिवससम्भन्धिनि विनाशश्च तान्याकालिकानि, तस्मात्कालादनुवर्तन्त इति कृत्वा। तेषां ह्यद्यन्तयोरेक एव कालो भवति मध्याङ्नादिरिति ॥
Nyaas¶
आदिः=जन्म, अन्तः=विनाशः, तयोर्वचनमाद्यन्तवचनम्। तस्मिन्? सत्येतन्निपातनम्। समानकालावाद्यन्तावस्य इति। ननु चोत्पदनविनाशयोरयौगपद्यात्? समनकालत्वं न सम्भवति, न ह्रनेन जन्मनाशयोरेककालता प्रतिपद्यते, किं तर्हि? विद्युदादेरनवस्थायित्वप्रदर्शनपरत्वादस्येत्यत आह - उत्पादानन्तरं विनाशिनीत्यर्थः इति। आकालाट्ठंश्च इति। यदा ठन्? तदा - आकालिका। यदा ठञ्? तदा - आकालिकी। आकालशब्दश्चायं आङ् मर्यादाभिविध्योः (2.1.13) इत्यव्ययीभावः। आ कालादाकालम् - कुगतिप्रादयः (2.2.18) इति, तत्पुरुषो वा - आवृत्तः काल आकाल इति॥
Vartika¶
आकालांट्ठश्च ।