51117: तदर्हम्¶
Padacheda: तत् | S | 2 | 1 |
अर्हम् | S | 1 | 1 |
Sutrartha¶
‘अर्हति’ अस्मिन् अर्थे क्रियायाः निर्देशे कर्त्तव्ये द्वितीयासमर्थात् वति-प्रत्ययः भवति ।
अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् केचन बिन्दवः ज्ञातव्याः - 1. अस्मिन् सूत्रे ‘अर्हम्’ इति विद्यमानः शब्दः ‘अर्ह’ इत्यस्य प्रथमैकवचनम् । ‘अर्ह’ अयम् शब्दः अर्ह्-धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) इत्यनेन अच्-प्रत्ययं कृत्वा सिद्ध्यति । अर्हति सः अर्हः । अस्मिन्नेव अर्थे द्वितीयासमर्थात् वति-प्रत्ययः विधीयते । 2. नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) इत्यनेन अच्-प्रत्यये कृते कर्ता वस्तुतः कर्तृकर्मणोः कृति (2.3.65) इत्यनेन षष्ठीविभक्तौ भवेत् । यथा - ‘आसनमर्हति सः आसनस्य अर्हः’ इति । परन्तु अस्मिन् सूत्रे द्वितीया प्रयुज्यते । अतः अस्य सूत्रस्य सम्यक् अर्थम् कारयितुम् ‘अर्हः’ इत्यस्य स्थाने विग्रहवाक्ये ‘अर्हति’ इत्यस्यैव प्रयोगः क्रियते । यथा - ‘आसनमर्हति’ इति । 3. तेन तुल्यम् क्रिया चेद्वतिः (5.1.115) इत्यस्मात् ‘क्रिया’ इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे भवति । अपि च, एतम् शब्दं सप्तम्या विपरिणम्यते । इत्युक्ते, ‘अर्हति’ अस्मिन् अर्थे क्रियायाः विषये एव अस्य सूत्रस्य प्रयोगः भवति, न हि ‘गुणस्य / वस्तुनः / पदार्थस्य विषये । एकमुदाहरणम् पश्यामश्चेत् स्पष्टतरं स्यात् । कश्चन देवदत्तः यः स्वयम् ब्राह्मणः अस्ति, सः ब्राह्मणम् यावत् एव (समीचीनम्) वर्तनम् करोति - इति चिन्तयामः ।अस्यां स्थितौ ‘देवदत्तस्य वर्तनम् ब्राह्मणमर्हति’ इति प्रयोगः भाषायां भवति । ‘ब्राह्मणमर्हति’ इत्यत्र ‘वर्तन’क्रियायाः योग्यता उक्ता अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रयोगं कृत्वा ‘देवदत्तः ब्राह्मणवत् वर्तते’ इति उच्यते । अन्यानि अपि उदाहरणानि अग्रे वक्ष्यन्ते; परन्तु तस्मात् पूर्वमत्र कश्चन बिन्दुः ज्ञातव्यः । वस्तुतः उपरिनिर्दिष्टे उदाहरणे ‘देवदत्तः ब्राह्मणेन तुल्यम् वर्तते’ इति वाक्यं क्रियते चेत् तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यनेनापि ‘वति’प्रत्ययविधानम् भवति । इत्युक्ते, सामान्यरूपेण ‘ताम् क्रियामर्हति’ इत्यस्य स्थाने ‘तेन तुल्यम् क्रियां करोति’ इति वाक्यपरिवर्तनं कृत्वा नित्यमेव तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यनेन वति-प्रत्ययं कर्तुम् शक्यते । एवमस्ति चेत् वर्तमानसूत्रम् निरर्थकमेव स्यात् - इति भासते । परन्तु भाष्यकारः तु अस्य सूत्रस्य समर्थनमेव करोति । अस्य स्पष्टीकरणम् भाष्यकारेण एतादृशम् दीयते - *तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यत्र ‘यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते’; अपितु वर्तमानसूत्रे ‘आत्म-अर्हायाम् क्रियायाम् प्रत्ययः उत्पाद्यते’* । कः अस्य अर्थः ? भाष्यकारस्य मतेन तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यस्य प्रसक्तिः तदा वर्तते यदा ‘अन्येन कर्तव्या क्रिया अन्यः करोति’ । यथा, ‘देवदत्तः स्वयम् राजा नास्ति, परन्तु राजा यथा शासनम् करोति तथैव सोऽपि शासनम् करोति’ - अस्यामवस्थायाम् देवदत्तः ‘अन्येन कर्तव्या क्रिया स्वयं करोति’, अतः अत्र तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यनेन वति-प्रत्ययं कृत्वा ‘देवदत्तः राजवत् शास्ते’ इति प्रयोगः भवति । परन्तु वर्तमानसूत्रे ‘आत्म-अर्हायाम् क्रियायाम्’ प्रत्ययः उत्पाद्यते । इत्युक्ते, ‘देवदत्तः, यः स्वयम् एकः राजा अस्ति, सः तादृशम् शासनम् करोति यादृशम् राज्ञा कर्तव्यम्’ - इत्यत्र देवदत्तः ‘स्वेन कर्तव्या क्रिया एव करोति’ । अस्यां स्थितौ अत्र काऽपि तुलना एव न वर्तते; अतः च अत्र तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यस्य प्रसक्तिः अपि नास्ति । अस्यामवस्थायाम् ‘वति’ प्रत्ययं कारयितुम् ‘राजानमर्हति देवदत्तः’ इति उक्त्वा वर्तमानसूत्रम् प्रयुज्यते, अतश्च ‘देवदत्तः राजवत् अर्हति ‘ इति प्रयोगः सिद्ध्यति । अतः भाष्यकारस्य मतेन वर्तमानसूत्रमावश्यकमेव । अस्मिन् विषये अधिकः विस्तारः तु जिज्ञासुभिः प्रदीपोद्योते द्रष्टव्यः । इदानीमन्यानि उदाहरणानि स्पष्टरूपेण दातुम् शक्यन्ते - 1. देवदत्तेन प्रजायाः कृतम् पालनम् राजानमर्हति (इत्युक्ते, यथा राजा पालयति तथैव देवदत्तः अपि पालयति)। अतः देवदत्तः ‘राजवत्’ प्रजाम् पालयति । 2. रामेण कृता इयम् पूजा विधिमर्हति (इत्युक्ते, विधिमनुसृत्य एव पूजा कृता अस्ति) । अतः रामः ‘विधिवत्’ पूजयति । 3. वसिष्ठेन कृतम् तपः ऋषिमर्हति । अतः वसिष्ठः ‘ऋषिवत्’ तपते । वसिष्ठः स्वयम् एकः ऋषिः एव, अतः ‘आत्म-अर्हायाम् क्रियायाम्’ प्रत्ययः उत्पाद्यते । 4. कृष्णेन शत्रूणाम् कृतम् हननम् क्षत्रियमर्हति । अतः कृष्णः ‘क्षत्रियवत्’ हन्ति । विशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - तेन तुल्यं क्रिया चेद्वतिः (5.1.115), तत्र तस्येव (5.1.116), तदर्हम् (5.1.117), तथा च उपसर्गाच्छन्दसि धात्वर्थे (5.1.118) । एते चत्वारः अर्थाः सामान्यरूपेण ‘वत्यर्थाः’ नाम्ना ज्ञायन्ते । एतेभ्यः तृतीयः अर्थः वर्तमानसूत्रेण दीयते । ज्ञातव्यम् - वति-प्रत्ययस्य विषये केचन बिन्दवः तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यत्र उक्ताः सन्ति । ते अत्र संक्षेपेण निर्दिश्यन्ते । विस्तारेण पिपठिषवः तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यत्र पश्येयुः । [अ] तद्धितश्चासर्वविभक्तिः (1.1.38) अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति । [आ] वति-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति । [इ] ‘वति’ प्रत्यये तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुम् इकारः स्थापितः अस्ति । [ई] स्त्री-शब्दात् तथा पुम्स्-शब्दात् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (4.1.87) इति बाधित्वा वत्यर्थेषु ‘वति’ प्रत्ययः एव भवति ।
Vasu English Summary¶
The affix वति (वत्) comes after a word in the Accusative -2nd case in construction in the sense of ‘befitting that or suited to that’.
Vasu English Translation¶
The affix वति (वत्) comes after a word in the Accusative -2nd case in construction in the sense of ‘befitting that or suited to that’. As राजानमर्हति = राजवत् पालनम् “the protection as befits a king i.e. as a king should protect”. ब्राह्मणवत्, ऋषिवत्, क्षत्रियवत् ॥
Bhashya¶
तदर्हम् (1999) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते न तेन तुल्यं क्रिया चेद्वतिः (115) इत्येव सिद्धम्? (फलसमर्थकभाष्यम्) न सिध्यति। तृतीयासमर्थात्तत्र यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते। इह पुनर्द्वितीयासमर्थादात्मार्हायां क्रियायामर्हतिकर्तरि निश्चितबलाधाने प्रत्यय उत्पाद्यते - ब्राह्मणवद्भवान् वर्तते। एतद्वृत्तं ब्राह्मणमर्हतीति॥
Kashika¶
तदिति द्वितीयासमर्थादर्हमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति। राजानमर्हति राजवत् पालनम्। ब्राह्मणवत्। ऋषिवत्। क्षत्रियवत् ॥
Siddhanta Kaumudi¶
विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुर्तते । तनेह न । राजानमर्हति छत्रम् ॥
Balamanorama¶
तदर्हम् - तदर्हम् । अर्हतीत्यर्हम् । पचाद्यच् । तदिति कर्मणि द्वितीयान्तम्, लब्धुं योग्यं भवतीत्यर्थात् । कृद्योगलक्षणषष्ठभावस्तु आर्षः । वतिरित्यनुवर्तते । द्वितीयान्तादर्हतीत्यर्थे वतिः स्यादित्यर्थः । विधिमर्हतीति । विधिं लब्धुं योग्यं भवतीत्यर्थः । विधिबत्पूज्यत इति ।हरि॑रिति शेषः । विंधिं लब्धु योग्यं हरिपूजनमित्यर्थः । विहितं प्रकारमनतिक्रान्तमिति यावत् । मण्डूकप्लुत्येति । पूर्वसूत्रे अननुवृत्तेरिति भावः ।
Tattvabodhini¶
तदर्हम् - तदर्हम् । अर्हतीत्यहम् । पचाद्यच् । यद्यपि कृद्योगे कर्मणि षष्ठआ भवितव्यम्, तथाप्यत्र सौत्रो विभक्तिव्यत्यय इत्येके ।कर्तृकर्मणो॑रिति षष्ठआ अनित्यत्वे ज्ञापकमिदम् । तेन चधायैरामोदमुत्तम॑मिति भट्टिप्रयोगः सङ्गच्छत इति तु कारकेष्ववोटाम । द्वितीयान्तादेव प्रत्यय इति स्फुटीकर्तुं तिङन्तेन वगृह्णाति — — विधिमर्हतीति । कथं तर्हिततो यथावद्विहिताध्वराये ॑कि असत्त्वार्थकस्य कर्मत्वाऽसंभवेन द्वितीयान्तत्वाऽभावादिति चेत् । अत्राहुः — — यथाशब्दो वृत्तिविषये सत्त्वार्थकः,तथात्वं॑यथात्व॑मित्यादिषु त्वतलादिदर्शनात् । अन्यथा षष्ठपि नास्तीति त्वतलौ न स्याताम् । तथा च द्वितीयान्ताद्यशब्दादर्हार्थे वतिः । योग्यतामर्हतीति विधानमित्यर्थाक्रियायोगोऽपि सुलभ इति ।
Padamanjari¶
तदिति द्वितीयासमर्थादिति। अर्हशब्दः पचाद्यजन्तस्तद्योगे कर्मणि षष्ठ।ल भवितव्यम्, निपातनातु द्वितीया। अपर आह - विग्रहवाक्याभिप्रायमेतत्; यदा राजानमर्हतीत्येवं तिह्न्तेन विग्रह्यते तदा द्वितीया समर्थमिति। सूत्रे त्वर्हमिति कर्मोपपदादच्प्रत्ययः कृत इति। इह क्रियाग्रहणमनुवर्तते - यतदर्ह क्रिया चेत्सा भवतीति, राजानमर्हति वृतं राजवद्वर्तते, इह न भवति - राजानमर्हति च्छत्रम्, व्राह्मणमर्हति दधीति। यद्येवम्, राज्ञा तुल्यं वर्तते इति विग्रहाश्रयणेन पूर्वेणैव वतिः सिद्धः ? इह तर्हि राजवद्वर्तते राजेति भेदाभावेन तन्निबन्धनस्य सादृश्यस्याभावादप्राप्तो वतिरनेन विधीयते। अत्रापि राजत्वेन ये प्रसिद्दा भरतादयस्त उपमानानीदानीन्तनानामिति सिद्धो वतिः। यदा तर्हि राजशब्दः सामान्यवचनः प्रसिद्धविशेषविषयो वा - राजवदयं वर्तते भरत इति, तदा सादृश्याभावादप्राप्तिः। विनीतवदुपस्यितं चिच्छेद कृतहस्तवदिति विनीतानामिदं योग्यमुपस्थानम् कृतहस्तानामिदं योग्यं छेदन मिति गम्यते, न तु सादृश्यम्। उक्तं च - ‘युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शनम्। उपमानविवक्षायां तदर्हमिति पठ।ल्ते ‘ ॥ इति । यदा त्वेकमेव वस्तु अवस्थाभेदपरिकल्पितभेदमुपमानोपमेयत्वेन विवक्ष्यते, तदा नार्थोऽनेन। तथा चेवशब्दस्य प्रयोगो दृश्यते - राजेवायं राजा युध्यते, वैय्याकरण इव वैत्याकरणो ब्रूते, रामरावणयोर्युद्धं रामरावणयोरिवेति। उक्तम् - ‘तदर्हमिति नारब्धं सूत्रं व्याकर्णान्तरे। सम्भवत्युपमात्रापि भेदस्य परिकल्पनात्’ ॥
Nyaas¶
अरहतीत्यर्थः। क्रियाग्रहणमिहानुवर्तते, ततोऽस्यामेवर्हणक्रियायां कर्तृभूतायां प्रत्ययो विधीयत इति। यत्रासौ प्रत्ययार्थत्वेन विवक्ष्यते, तत्र वाक्यमेव भवति - ब्राआहृणमर्हतीति॥
Sutra Prayogas¶
विधिवत् (रघुवंशम्): तदर्हम् इति वतिप्रत्ययः।
विधिवत् (रघुवंशम्): तदर्हम् इति वतिप्रत्ययः।
विधिवत् (किरातार्जुनीयम्): तदर्हम् इति वतिप्रत्ययः।