51105: ऋतोरण्

Padacheda: ऋतोः | S | 5 | 1 |

अण् | S | 1 | 1 |

Sutrartha

‘अस्य प्राप्तम्’ अस्मिन् अर्थे प्रथमासमर्थात् ‘ऋतु’शब्दात् अण् प्रत्ययः भवति ।

प्रथमासमर्थात् ‘ऋतु’शब्दात् ‘प्राप्तः’ (निकटः आगतः) अस्मिन् अर्थे ‘यस्य ऋतुः प्राप्तः’ तस्य निर्देशं कर्तुमण् प्रत्ययः भवति । यथा, ऋतुः प्राप्तः अस्य पुष्पस्य तत् आर्तवम् पुष्पम् (The flower that is about to blossom - इत्यर्थः) । प्रक्रिया इयम् - ऋतु + अण् → आर्तु + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः । ऋकारस्य वृद्धिः आकारः, स च उरण् रपरः (1.1.51) इति रपरः] →> आर्तो + अ [ओर्गुणः (6.4.146) इति गुणः] → आर्तव [एचोऽयवायावः (6.1.78) इति अवादेशः] ज्ञातव्यम् - अस्मिन् सूत्रे ‘ऋतु’ इत्यनेन शब्दस्वरूपम् गृह्यते, न हि ऋतुवाचकः शब्दः (यथा वसन्त-ग्रीष्मादयः) । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!तदस्य प्रकरणे उपवस्त्रादिभ्यः उपसङ्ख्यानम्!> । इत्युक्ते, ‘तदस्य प्राप्तम्’ अस्मिन् अर्थे ‘उपवस्तृ’, ‘प्राशितृ’ एताभ्यामपि अण्-प्रत्ययः भवति । उपवस्ता (यः उपवासं करोति सः) प्राप्तः अस्य उपवासस्य सः औपवस्त्रः उपवासः (A convoluted way of saying that the ‘fast’ has obtained its doer). । प्राशिता (यज्ञे देवाय दीयमानः अंशः) प्राप्तः अस्य सः प्राशित्रः यज्ञः ।

Vasu English Summary

The affix अण् comes in the sense of ‘that has come for it’ after the word ऋतु।

Vasu English Translation

The affix अण् comes in the sense of ‘that has come for it’ after the word ऋतु। As ऋतुःप्राप्तोऽस्य = आर्त्तवं पुष्पम् (Guna by (6.4.146)) “the flower for which the season has arrived”.

Vart:- So also after the words उपवस्त्र &c. As औपवस्त्रम्, प्राशित्रम् ॥

Kashika

तदस्य प्राप्तमित्यनुवर्तते। ऋतुशब्दात् तदिति प्रथमासमर्थाद् अस्येति षष्ठ्यर्थेऽण् प्रत्ययो भवति तदस्य प्राप्तमित्येतस्मिन् विषये। ऋतुः प्राप्तोऽस्य आर्तवं पुष्पम्॥ तदस्य प्रकरण उपवस्त्रादिभ्य उपसंख्यानम्॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम्। प्राशिता प्राप्तोऽस्य प्राशित्रम्॥

Siddhanta Kaumudi

ऋतुः प्राप्तोऽस्य आर्तवम् ॥ <!उपवस्त्रादिभ्य उपसंख्यानम्!> (वार्तिकम्) ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥

Balamanorama

ऋतोरण् - ऋतोरण् । प्राप्तमित्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्तादृतोरणित्यर्थः । आर्तवमिति । अणि ओर्गुणः, आदिवृद्धिः । रपरत्वम् ।

Tattvabodhini

ऋतोरण् - आर्तवमिति ।पुष्प॑मित्यादि विशेष्यं बोध्यम् ।

Padamanjari

तपवस्ता प्राप्तोऽस्तेति। उपवत्साऊपवासस्य कर्ता स प्राप्तोऽस्य औपवस्त्रमूपवासः, प्राशित्रमुब्रह्मभागः ॥

Nyaas

वसन्तोऽस्य पुष्पदेरृतुः प्राप्तः, स तस्य जनकत्वात्? प्रयोजको भवतीति प्रयोजनम् (5.1.109) इति ठञि प्राप्ते सत्ययमारभ्यते॥

Prakriyasarvasvam

ऋतुरस्य प्राप्त इत्यार्तवं पुष्पम् । स्वयोग्यतौ प्राप्ते जातमित्यर्थः । ‘उपवस्त्रादिभ्योऽप्यण् वाच्यः’ । उपवस्ता प्राप्तोऽस्येत्यौपवस्त्र उपवासार्हकालः । उपवास एवौपवस्त्रमित्यन्ये । प्राशिता प्राप्तोऽस्येति प्राशित्रं प्राशनार्थो हविर्भागः ।

Vartika

उपवस्त्रादिभ्यः उपसङ्ख्यानम् ।

Sutra Prayogas

  • अवधीरितार्तवगुणं (किरातार्जुनीयम्): ऋतोरण् इत्यण्प्रत्ययः।

  • सैकतेषु (भट्टिकाव्यम्): देशे लुबिलचौ च इति चकारादण्।