51116: तत्र तस्येव

Padacheda: तत्र | S | 0 | 0 |

तस्य | S | 6 | 1 |

इव | S | 0 | 0 |

Sutrartha

‘इव’ अस्मिन् अर्थे षष्ठीसमर्थात् तथा च सप्तमीसमर्थात् ‘वति’ प्रत्ययः भवति ।

‘इव’ इति किञ्चन अव्ययम् । समानम् / तुल्यम् इति अस्य अर्थः । अस्मिन्नेव अर्थे सप्तमीसमर्थात् तथा षष्ठीसमर्थात् अनेन सूत्रेण ‘वति’ प्रत्ययः भवति । यथा - 1. सप्तमीसमर्थस्य उदाहरणम् - एतत् वाक्यम् स्वीकुर्मः - ‘मथुरायाम् यादृशः दुर्गः (fort) अस्ति, तादृशः एव द्वारकायामपि वर्तते’ । अस्मिन् वाक्ये द्वारकायाम् विद्यमानस्य दुर्गस्य निर्देशः मथुरायाम् विद्यमानेन दुर्गेण सह तुलनाम् कृत्वा क्रियते । अस्यां स्थितौ ‘मथुरायाम् इव दुर्गः द्वारकायामस्ति’ इति उच्यते । एवं स्थिते अत्र वर्तमानसूत्रेण ‘मथुरा’शब्दात् ‘इव’ अस्मिन् अर्थे ‘वति’ प्रत्ययः भवति - ‘मथुरावत् द्वारकायाम् दुर्गः (वर्तते)’ - इति । एवमेव अन्यानि उदाहरणानि - पाटलिपुत्रवत् साकेते परिखा वर्तते । गृहे मन्दिरवत् पूजा चलति । रात्रौ दिनवत् प्रकाशः दृश्यते । सुखवत् दुःखे सन्तोषः कर्तव्यः । 2. षष्ठीसमर्थस्य उदाहरणम् - एतत् वाक्यम् स्वीकुर्मः - ‘देवदत्तस्य यादृशी धेनुः विद्यते, तादृशी एव यज्ञदत्तस्य अपि वर्तते’ । अस्मिन् वाक्ये यज्ञदत्तस्य धेनोः निर्देशः देवदत्तस्य समीपे विद्यमानया धेनुना सह तुलनाम् कृत्वा कृतः अस्ति । अस्यां स्थितौ ‘देवदत्तस्य इव धेनुः यज्ञदत्तस्य अस्ति’ इति उच्यते । एवं स्थिते अत्र वर्तमानसूत्रेण ‘देवदत्त’शब्दात् ‘इव’ अस्मिन् अर्थे ‘वति’प्रत्ययः भवति - ‘देवदत्तवत् यज्ञदत्तस्य धेनुः (वर्तते)’ - इति । एवमेव अन्यानि उदाहरणानि - रामवत् लक्ष्मणस्य पूजा कर्तव्या । नदीवत् सरसः जलम् पेयम् । सूर्यवत् चन्द्रस्य अस्तः सम्भवति । यज्ञदत्तवत् देवदत्तस्य दन्ताः । विशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - तेन तुल्यं क्रिया चेद्वतिः (5.1.115), तत्र तस्येव (5.1.116), तदर्हम् (5.1.117), तथा च उपसर्गाच्छन्दसि धात्वर्थे (5.1.118) । एते चत्वारः अर्थाः सामान्यरूपेण ‘वत्यर्थाः’ नाम्ना ज्ञायन्ते । एतेभ्यः द्वितीयः अर्थः वर्तमानसूत्रेण दीयते । ज्ञातव्यम् - 1. यदि क्रियायाः तुलना क्रियते, तर्हि तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यनेनैव वति-प्रत्ययः भवति । वर्तमानसूत्रेण क्रियायाः तुल्यत्वे प्रत्ययविधानं न क्रियते, अपि तु द्रव्यस्य उत गुणस्य तुल्यविधाने प्रत्ययः उच्यते । तत्रापि केवलम् षष्ठीसमर्थात् सप्तमीसमर्थादेव अत्र प्रत्ययः भवति, अन्येषु विषयेषु न । यथा - ‘रामः यादृशः सत्यवचनी अस्ति तादृशः लक्ष्मणः अपि अस्ति’ अस्मिन् वाक्ये अस्य सूत्रस्य प्रसक्तिः नास्ति । 2. वति-प्रत्ययस्य विषये केचन बिन्दवः तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यत्र उक्ताः सन्ति । ते अत्र संक्षेपेण निर्दिश्यन्ते । विस्तारेण पिपठिषवः तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्यत्र पश्येयुः । [अ] तद्धितश्चासर्वविभक्तिः (1.1.38) अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति । [आ] वति-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति । [इ] ‘वति’ प्रत्यये तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुम् इकारः स्थापितः अस्ति । [ई] स्त्री-शब्दात् तथा पुम्स्-शब्दात् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (4.1.87) इति बाधित्वा वत्यर्थेषु ‘वति’ प्रत्ययः एव भवति ।

Vasu English Summary

The affix वति (वत्) also comes in the sense of ‘like what is therein or thereof’.

Vasu English Translation

The affix वति (वत्) also comes in the sense of ‘like what is therein or thereof’. As मथुरायामिव = मथुरावत् ‘like that in Mathura’. as मथुरावत् स्रुघ्ने प्राकारः, पाटलिपुत्रवत् साकेते परिखा; देवदत्तस्येव देवदत्तवद् यज्ञदत्तस्य गावः &c.

Bhashya

तत्र तस्येव (1998) (प्रयोजनाक्षेपभाष्यम्) किमर्थमिदमुच्यते? न तेन तुल्यं क्रिया चेद्वतिः (115) इत्येव सिद्धम्? (सूत्रप्रयोजनबोधकभाष्यम्) न सिध्यति। तृतीयासमर्थात्तत्र प्रत्ययः - यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते। न च काचिदिवशब्देन योगे तृतीया विधीयते। ननु च सप्तम्यपि न विधीयते। एवं तर्हि सिद्धे सति यदिवशब्देन योगे सप्तमीसमर्थाद्वतिं शास्ति तज्ज्ञापयत्याचार्यः - भवति - ःइवशब्देन योगे सप्तमीति। किमेतस्य ज्ञापने प्रयोजनम्? देवेष्विव नाम, ब्राह्मणेष्विव नाम एष प्रयोग उपपन्नो भवति॥

Kashika

तत्रेति सप्तमीसमर्थात् तस्येति षष्ठीसमर्थात् च इवार्थे वतिः प्रत्ययो भवति। मथुरायामिव मथुरावत् स्रुघ्ने प्राकारः। पाटलिपुत्रवत् साकेते परिखा। षष्ठीसमर्थात् — देवदत्तस्येव देवदत्तवत् यज्ञदत्तस्य गावः। यज्ञदत्तस्येव यज्ञदत्तवत् देवदत्तस्य दन्ताः॥

Siddhanta Kaumudi

मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥

Laghu Siddhanta Kaumudi

मथुरायामिव मथुरावत् स्रुग्ध्ने प्राकारः। चैत्रस्येव चैत्रवन्मैत्रस्य गावः॥

Balamanorama

तत्र तस्येव - तत्र तस्येव । तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात्षष्ठन्ताच्च वतिः स्यादित्यर्थः । अतृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठर्थे सप्तम्यपीति भाष्यम् । अत्रक्रिया चे॑दिति नानुवर्तते इत्यभिप्रेत्योदाहरति — मधुरायामिव मधुरावत्स्नुघ्ने प्राकार इति । अत्र मधुरायामिवेति नाधिकरणसप्तमी, तथा सति विद्यमानेति क्रियापदासपेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिर्देशादिवशब्दायोगे षष्ठर्थे सप्तमीति भाष्यं सङ्गच्छते । मधुरासम्बन्दिप्राकारसदृशः रुआउघ्नस्य प्राकार इति बोधः । मैत्रस्य भाव इति । वृत्तमित्यर्थः ।

Tattvabodhini

तत्र तस्येव - तत्र तस्येव । सप्तम्यन्तात् षष्ठन्ताच्च इवार्थे प्रत्ययः ।क्रिया चेत्इति नानुवर्तते इति द्रव्यादितुल्येऽत्र वत्प्रत्ययो भवति । मथुरावत्रुआउघ्ने इति । मथुरायां यादृशः प्राकारस्तेन तुल्यः प्राकारः स्नुघ्ने इत्यर्थः ।

Padamanjari

किमर्थमिदमुच्यते न पूर्वेणैव सिद्धम्, न सिद्धयति, तृतीयासमर्थातत्र प्रत्ययः, इह तु सप्तमीषष्ठीसमर्थात् ? एवं तर्हि तुल्यार्थैरिति या तृतीया तयेवशब्दयोगे सर्वे विभक्तयर्था व्याप्ताः, तद्यथा - ब्राह्णण इवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणमिव पश्यति, ब्राह्णेन तुल्यं पश्यति; ब्राह्मणएनेवाधीतम्, ब्राह्मणेन तुल्यमधीतम्; ब्राह्मणायेव ददाति, ब्राह्मणेन तुल्यं ददाति; ब्राह्मणादिवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणस्येव क्षत्रियस्य स्वम्, ब्राह्मणेन तुल्यं क्षत्रियस्य स्वम्; ब्राह्ण इव क्षत्रिये वर्तते, ब्राह्मणेन तुल्यं क्षत्रिये वर्तत इति - ततश्च तृतीयान्तदेव पूर्वसूत्रेण प्रत्ययो भविष्यति। तथा च’पूर्ववत्सनः’ इति पञ्चम्यन्ताद्वतिर्दृश्यते। एवमपि न सिद्धयति, किं कारणम् ? पूर्वत्र क्रियातुल्यत्वे प्रत्ययः, तच्चावश्यं क्रियाग्रहणं कर्तव्यम्, गवा तुल्यो गवय इत्यादौ मा भूदित्येवरमर्थः; ततश्च द्रव्यगुणयोस्तुल्यत्वे वतिर्न स्यादिति षष्ठीसप्तमयन्तादिवार्थेऽनेन विधीयते ॥

Nyaas

अथ कियर्थमिवेत्युच्यते, न वत्यर्थे सादृश्ये भविष्यति? भविष्यति? नैतदस्ति; न हि तुल्यग्रहणं शक्यमिहानुवर्तयितुम्। तद्धि क्रियाविशेषणत्वात्? कर्म, तत्र यदीह तस्यानुवृत्तिः स्यात्? तथाभूतस्यैव स्यात्। ततश्च कर्मण्येव तुल्ये प्रत्ययः स्यात्, तथा च - मथुरायामिव मथुरावत्? स्लुध्ने प्रासाद इत्यादि न सिध्येत्। तस्मादिवेति वक्तव्यम्। अक्रियार्थश्चायमारम्भः॥

Sutra Prayogas

  • कक्षवत् (रघुवंशम्): तत्र तस्येव इति सप्तम्यर्थे वतिः।

  • द्विषद्वत् (रघुवंशम्): तत्र तस्येव इति वतिप्रत्ययः।

  • विमानवत्प्रवृत्तिः (किरातार्जुनीयम्): तत्र तस्येव इति वतिप्रत्ययः।

  • यदृच्छशब्दवत् (शिशुपालवधम्): तत्र तस्येव इति वतिप्रत्ययः।

  • काव्यवत् (शिशुपालवधम्): तत्र तस्येव इति वतिप्रत्ययः।

  • शरीरवत् (शिशुपालवधम्): तत्र तस्येव इति वतिप्रत्ययः।

  • दुष्कृतवत् (शिशुपालवधम्): तत्र तस्येव इति तत्रार्थे वतिप्रत्ययः।