51103: कर्मण उकञ्

Padacheda: कर्मणः | S | 5 | 1 |

उकञ् | S | 1 | 1 |

Sutrartha

‘प्रभवति’ अस्मिन् अर्थे चतुर्थीसमर्थात् कर्मन्-शब्दात् उकञ्-प्रत्ययः भवति ।

‘प्रभवति’ इत्युक्ते ‘अलम्’ (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् ‘कर्म’शब्दात् ‘उकञ्’ प्रत्ययः भवति । कर्मणे प्रभवति तत् = कर्मन् + उकञ् → कार्मुकम् धनुः । प्रक्रिया इयम् - कर्मन् + उकञ् → कार्मन् + उक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कार्म् + उक [ नस्तद्धिते (6.4.144) इति टिलोपः] → कार्मुक ‘युद्धकर्म’ कर्तुम् यत् धनुः पर्याप्तम्, तत् ‘कार्मुकम् धनुः’ - इति आशयः । ज्ञातव्यम् - अनेन सूत्रेण निर्मितः ‘कार्मुक’ शब्दः केवलम् ‘धनुः’ इत्यस्मिन्नेव अर्थे प्रयुज्यते, अन्येषु अर्थेषु न । अस्मिन् विषये पाणिनिना किमपि नोक्तम्, परन्तु तादृशाः प्रयोगाः एव नैव विद्यन्ते । रामरक्षायामयं शब्दः प्रयुक्तः दृश्यते - ‘स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः’ । येन ईशकार्मुकम् (शिवधनुः) अभज्यत, सः भग्नेशकार्मुकः रामः मम भुजौ (हस्तौ) रक्षतु - इति अर्थः ।

Vasu English Summary

The affix उकञ् comes after the word कर्मण in the same sense of ‘able to effect that’.

Vasu English Translation

The affix उकञ् comes after the word कर्मण in the same sense of ‘able to effect that’. This debars ठञ्. As कर्मणो प्रभवति = कार्मुकं धनुः ॥ This word कार्मुकम् means always a ‘bow’, and is never employed to designate anything else.

Kashika

कर्मशब्दादुकञ् प्रत्ययो भवति तस्मै प्रभवतीत्येतस्मिन्नर्थे। ठञोऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः। धनुषोऽन्यत्र न भवति, अनभिधानात्॥

Siddhanta Kaumudi

कर्मणे प्रभवति कार्मुकम् ॥

Balamanorama

कर्मण उकञ् - कर्मण उकञ् ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः । कार्मुकमिति । उकञि टिलोपः ।

Padamanjari

कार्मुकं धनुरिति। अन्यत्र तु न भवति; अनभिधानात् ॥

Prakriyasarvasvam

कर्मणे शक्तं कार्मुकम् । धनुष्येव ॥

Sutra Prayogas

  • कार्मुकस्य (कुमारसम्भवम्): कर्मण उकञ् इत्युकञ्प्रत्ययः।

  • कार्मुकेण (शिशुपालवधम्): कर्मण उकञ् इति उकञ्-प्रत्ययः।

  • कार्मुकाणि (शिशुपालवधम्): कर्मण उकञ् इति उकञ्-प्रत्ययः।