51112: समापनात् सपूर्वपदात्

Padacheda: समापनात् | S | 5 | 1 |

सपूर्वपदात् | S | 5 | 1 |

Sutrartha

‘अस्य प्रयोजनम्’ अस्मिन् अर्थे समस्तपदस्य उत्तरपदम् ‘समापन’ इति अस्ति चेत् तस्मात् शब्दात् छ-प्रत्ययः भवति ।

प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् ‘अस्य’ इत्यस्मिन् अर्थे प्रयोजनम् (5.1.109) इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । परन्तु यस्य शब्दस्य उत्तरपदम् ‘समापन’ (= समाप्तिः / अन्तः / completion / conclusion) इति वर्तते तस्मात् शब्दात् एतम् औत्सर्गिकप्रत्ययं बाधित्वा छ-प्रत्ययः विधीयते । यथा - 1. छन्दःसमापनम् प्रयोजनमस्य सः छन्दःसमापनीयः वर्गः । 2. व्याकरणसमापनम् प्रयोजनमस्य सः व्याकरणसमापनीयः पाठः ।

Vasu English Summary

The affix छ (ईय) comes in the same sense of ‘that whose purpose is this’ after the word समापन when it has a word in composition preceding it.

Vasu English Translation

The affix छ (ईय) comes in the same sense of ‘that whose purpose is this’ after the word समापन when it has a word in composition preceding it. This debars ठञ् ॥ Thus छन्दः समापनं प्रयोजनमस्य = छन्दः समापनीयम्, व्याकरण समापनीयम् ॥ The specific mention of the word पद in the aphorism indicates that the rule will not apply when a word other than a ‘pada,’ such as the affix ‘bahuch,’ (5.3.68) precedes the word Samapana.

Kashika

समापनशब्दात् सपूर्वपदाद् विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये। ठञोऽपवादः। छन्दस्समापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्॥

Siddhanta Kaumudi

व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥

Balamanorama

समापनात् सपूर्वपदात् - समापनात्सपूर्वपदात् । सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति । ‘मङ्गलाचार’ इति शेषः ।

Tattvabodhini

समापनात् सपूर्वपदात् - सपूर्वपदादिति । विद्यमानपूर्वपदादित्यर्थः ।

Nyaas

अथ पदग्रहणं किमर्थम्, सपूर्वादित्येवोच्येत? इत्यत आह - पदग्रहणम् इत्यादि। असति हि पदग्रहणे, ईषदसमाप्तं समापनं बहुसमापनं तत्? प्रयोजनमस्येति तत्रापि प्राप्नोति; भवति ह्रयं समापनशब्दः सपूर्वः। पदग्रहणे तु सति न भवति; बहुचप्रत्ययस्यापदत्वात्॥

Prakriyasarvasvam

उक्तार्थे छः स्यात् । व्रतसमापनीयमन्नदानम् ।।