51113: ऐकागारिकट् चौरे¶
Padacheda: ऐकागारिकट् | S | 1 | 1 |
चौरे | S | 7 | 1 |
Sutrartha¶
‘चौरः’ अस्मिन् अर्थे ‘ऐकागारिक’ अयं शब्दः निपात्यते ।
अनेन सूत्रेण ‘ऐकागारिक’ अयम् कश्चन शब्दः पाठ्यते । ‘चौरः’ अस्मिन् अर्थे अस्य शब्दस्य प्रयोगः भवति । किम् नाम ऐकागारिक? ‘एकागार’ ( = एकाकि गृहम्) शब्दात् ‘तत् अस्य प्रयोजनम्’ अस्मिन् अर्थे ‘इकट्’ प्रत्ययं कृत्वा ‘ऐकागारिक’ शब्द’ सिद्ध्यति - एकागारः अस्य प्रयोजनम् = एकागार + इकट् → ऐकागारिक (आदिवृद्धिः निपात्यते) चौरः सामान्यरूपेण कञ्चित् असहाय्यम् (= एकाकिनम्) गृहम् संलक्ष्य तस्मिन्नेव चौरकर्म करोति । एतदेव विचिन्त्य चौरस्य निर्देशः ‘एकागारः (= एकः आगारः) प्रयोजनम् (लक्ष्यम्) यस्य सः’ इति क्रियते । एकागारः यस्य प्रयोजनम् सः ऐकागारिकः चौरः । ज्ञातव्यम् - 1. ‘एकागारः अस्य प्रयोजनम्’ अस्मिन् अर्थे प्रयोजनम् (5.1.109) इत्यनेन औत्सर्गिकः ठञ्-प्रत्ययः न कर्तव्यः, केवलम् इकट्-प्रत्ययः एव कर्तव्यः इति अनेन सूत्रेण स्पष्टीक्रियते । 2. वस्तुतः इदम् सूत्रम् नियमसूत्रमस्ति । ‘एकागार’ शब्दात् इकट्-प्रत्ययं कृत्वा निर्मितः ‘ऐकागारिक’ शब्दः केवलं ‘चौरः’ अस्मिन्नेव अर्थे प्रयोक्तव्यः - इति अपि अनेन सूत्रेण ज्ञाप्यते । इत्युक्ते ‘एकागारः प्रयोजनमस्य सः भिक्षुः / साधुः / पान्थस्थः’ इत्यत्र ‘ऐकागारिक’ शब्दः न प्रयोक्तव्यः । 3. ‘एकागार’ शब्दात् प्रयोजनम् (5.1.109) अस्मिन् अर्थे औत्सर्गिकरूपेण ठञ्-प्रत्ययः क्रियते चेदपि ‘ऐकागारिक’ अयमेव शब्दः सिद्ध्यति । अयमेव पक्षं स्वीकृत्य भाष्यकारः वदति - ‘एकागारात् चोरे इत्येव ब्रूयात्’ । इत्युक्ते, ‘एकागार’ शब्दात् चोरस्य निर्देशार्थम् ठञ्-प्रत्ययः भवेत् - इति आशयः । वस्तुतः तु ठञ्-प्रत्ययान्तः ऐकागारिक-शब्दः आद्युदात्तः अस्ति, तथा च अस्मिन् सूत्रे पाठितः ‘ऐकागारिक’ अयम् शब्दः आद्यनुदात्तः अस्ति । तथापि भाष्यकारस्य मतेन ठञ्-प्रत्ययान्तः आद्युदात्तः ऐकारागिक-शब्दः एव अत्र साधुः अस्ति, न हि आद्यनुदात्तः ‘ऐकागारिक’-शब्दः । 4. ‘इकट्’ प्रत्यये इत्संज्ञकः टकारः स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्ययस्य निर्देशं करोति । यथा - एकागारः अस्य प्रयोजनम् सा ऐकागारिकी ।
Vasu English Summary¶
The word ऐकागारिकट् is irregularly formed in the sense of ‘thief’.
Vasu English Translation¶
The word ऐकागारिकट् is irregularly formed in the sense of ‘thief’. The feminine will be in ङीप्. Thus एकागारं प्रयोजनमस्य = ऐकागारिकः fem. °की ॥ This word can be regularly formed by ठञ्, but it will always be restricted to mean a thief. When any other thing is designated, it will not take this affix. Thus एकागारं प्रयोजनमस्य भिक्षाः, here there will be no affixing. The feminine moreover will be in ङीप् ॥ Some say the word is formed by adding the affix इकट् with the irregular Vriddhi of the first syllable.
Bhashya¶
ऐकागारिकट् चौरे (1995) (5679 सूत्रप्रत्याख्यानवार्तिकम्॥ 1 ॥) - एकागारान्निपातनानर्थक्यं ठञ्ञ्प्रकरणात् - (भाष्यम्) एकागारान्निपातनमनर्थकम्। किं कारणम्? ठञ्ञ्प्रकरणात्। ठञ्ञ् प्रकृतः सोऽनुवर्तिष्यते। इदं तर्हि प्रयोजनम् - चोर इति वक्ष्यामीति। इह मा भूत् - एकागारं प्रयोजनमस्य भिक्षोरिति। यद्येतावत्प्रयोजनं स्यात् एकागाराच्चोरे इत्येव ब्रूयात्॥
Kashika¶
ऐकागारिकड् इति निपात्यते चौरेऽभिधेये। एकागारं प्रयोजनमस्य ऐकागारिकः चौरः। ऐकागारिकी। किमर्थमिदं निपात्यते, यावता प्रयोजनमित्येव सिद्धष्ठञ्? चौरे नियमार्थं वचनम्। इह मा भूत् — एकागारं प्रयोजनमस्य भिक्षोरिति। टकारःकार्यावधारणार्थः। ङीबेव भवति, न ञित्स्वर इति। अपरे पुनरिकट् प्रत्ययं वृद्धिं च निपातयन्ति॥
Siddhanta Kaumudi¶
एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चारैः ॥
Balamanorama¶
ऐकागारिकट् चौरे - ऐकागारिकट् चौरे । एकमगारं प्रयोजनं=प्रयोजकस्य चोरस्येति विग्रहे एकागारशब्दादिकट्प्रत्यये ऐकागारिकडिति निपात्यते । टित्त्वं ङीबर्थम् । प्रयोजनमित्येय सिद्धे चोर एवेति नियमार्थ सूत्रम् । एकमित्यस्य विवरणम् — असहायमिति ।एके मुख्यान्यकेवलाः॑ इत्यमरः । मुमुषिषोरिति । चौर्यं कर्तुमिच्छोरित्यर्थः । चोरस्य हि असहायमगारमिष्टं, गोहान्तरसत्त्वे चौर्यप्रकरटनप्रसङ्गादिति भावः । चोरे किम् । एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव । भाष्ये तु ‘एकागाराच्चोरे’ इत्येव सुवचं, प्रकृतत्वाट्ठञ् सिद्ध इत्युक्तम् ।
Tattvabodhini¶
ऐकागारिकट् चौरे - ऐकागारिकट् । टो ङीबर्थः ।ऐकागारिकी । किमर्थमिदमुच्यते यावताप्रयोजन॑मित्येव ठञि सिद्धम् । सत्यम् । चौरे नियमार्थमावश्यकमिदं सूत्रम् । अन्यथा एकागारं प्रयोजनं यस्य भिक्षोरित्यत्रापि स्यात् । नन्वेवमपिऐकागाराच्चौरे॑इति ठञेव नियम्यतां किमैकागारिक इति निपातनेन, चित्कणेन च प्रयोजनमिति चेत् । अत्राहुः -टकारः कार्यावधारणार्थः -ङीबेव भवति न ञित्स्वर इति । वृद्धिस्तु निपातनाद्भवत्येवेति ।
Padamanjari¶
एकागारं प्रयोजनमस्येति। एकशब्दोऽसहायवचनः, असहायं हि गृहं मुमूषिषतश्चोरस्य प्रयोजनम्। ससहाये तु गृहे मोषितुं न शक्तते। एकागारं प्रयोजनमस्य भिक्षोरिति। ठेकागारं चरेद् भैक्ष्यं तत्पुराणमुनेर्व्रतम्ऽ इति शास्त्रादेकामेव यो भिक्षां गृह्णाति न द्वितीयां स एवमुच्यते। नन्वेवमप्येकागाराच्चोरे ठञेव नियमार्थं वक्तव्यः, किं निपातनेन, टकारेण वा प्रयोजनम् ? अत आह - टकारः कार्यावधारणार्थ इति। अवधारणमेव दर्शयति - ङीबेव भवति, न ञित्स्वर इति। वृद्धैस्तु निपातनाद्भवत्येव। नन्वेवं ञित्स्वरनिवृत्तिरेव निपातनस्य। मा भूद्वा नियमः; भिक्षौ कस्मान्न भवति ? अनभिधानात्। यथा तु भाष्यं तथा ञित्स्वर एवेष्यते। तत्र हि सूत्रमिदं प्रत्याख्यात्म्-ठेकागारान्निपातनानर्थक्यं ठञ्प्रकरणात्ऽ इति, प्रयोजनमित्यत्र ठञप्रकृतः, तेनैवैकागारिकशब्दः सिद्ध इत्यर्थः। इक्ट्प्रत्ययमिति। इदमपि प्रत्याख्यानेन विरुद्धम् ॥
Nyaas¶
चौरे नियमार्थम् इति। प्रकृतत्वाच्च ठञ एव। एवं ब्राउवता ठञान्तमेतन्निपात्यत इत्युक्तं भवति। ननु च टकारानुबन्ध एवमर्थमासङ्ग्यते, ङीव्यता स्यादिति, स चात्र ठञन्तत्वादेव सिद्धः, तत्? किमर्थं टकारः? इत्यत आह - टकारः इत्यादि। असति हिटकारे, यथा ङीब्भवति तथा ञित्स्वरोऽपि - आद्युदात्तत्वं स्यात्। कार्यावधारणार्थष्टकारः क्रियते, तेन ङीबेव भवति, न ञित्स्वरः। अपर इकट्प्रत्ययं वृदिंध च निपातयन्ति इति। तेषां ङीबर्थ एव टकारः। एकश्बदोऽसहायर्थः, स चासहायवाची द्रष्टव्यः। असहयग्रहणं चौरस्य स्वार्थे, न तूपलक्षणं प्रयोजनम्॥
Prakriyasarvasvam¶
एष चोरेऽर्थे टिन्निपात्यः । सजने मोषितुमशक्यत्वादसहायं गृहं प्रयोजनमस्ये- त्यैकागारिकश्चोरः । आत्मीयैकगृहपूरणार्थित्वाद्वा ।।