51119: तस्य भावस्त्वतलौ

Padacheda: तस्य | S | 6 | 1 |

भावः | S | 1 | 1 |

त्वतलौ | S | 1 | 2 |

Sutrartha

‘भावः’ अस्मिन् अर्थे षष्ठीसमर्थात् ‘त्व’ तथा ‘तल्’ प्रत्ययौ भवतः ।

अस्य सूत्रस्य अर्थम् ज्ञातुम् प्रारम्भे ‘भाव’ शब्दस्य अर्थम् पश्यामः । किम् नाम भावः ? जगति विद्यमानस्य प्रत्येकमपि पदार्थस्य केचन विशिष्ट-गुणधर्माः वर्तन्ते, यैः सः पदार्थः भिन्नप्रकारस्य पदार्थानामपेक्षया पृथक् रूपेण अवगन्तुम् शक्यते ।यथा, ‘घट’ इति वस्तु स्वीकुर्मश्चेत् घटस्य केचन विशिष्ट गुणधर्माः सन्ति यैः घटः ‘घटः एव अस्ति, न अन्यः’ इति ज्ञायते । यथा - घटः मृत्तिकायाः निर्मितः अस्ति, घटः प्रायः गोलाकारः अस्ति, घटे जलम् स्थापयितुम् शक्यते, घटः चक्रस्य साहाय्येन निर्मीयते - आदयः भिन्नाः गुणधर्माः घटस्य अवगमनार्थम् प्रयुज्यन्ते । एते सर्वे गुणधर्माः घटस्य ‘धर्मविशेषाः’ सन्ति इत्युच्यते । एतेषामेव साहाय्येन कोऽपि मनुष्यः किञ्चन नूतनं वस्तु दृष्ट्वा ‘अयम् घटः अस्ति’ इति वक्तुम् शक्नोति । एते धर्मविशेषाः एव ‘भावः’ नाम्ना ज्ञायन्ते । The inherent characteristics of an object that distinguish it from other different objects, there by enabling someone to identify other objects similar to that object are collectively termed as ‘भाव’ । एकमुदाहरणम् पश्यामश्चेत् इतोऽपि स्पष्टम् स्यात् । कश्चन देवदत्तः नूतनम् (इत्युक्ते पूर्वमदृष्टम्) पशुम् पश्यति । तदा सः झटिति जानाति - अयम् पशुः गौः अस्ति - इति । इदानीम् प्रश्नः आगच्छति - नूतनमदृष्टपूर्वम् पशुम् दृष्ट्वा अयम् ‘गौः’ अस्तीति ज्ञानम् कथम् भवति ? अस्य उत्तरम् एतत् - सर्वेषाम् गवाम् ये केऽपि समानाः गुणधर्माः सन्ति (यथा - चत्वारः पादाः, शृङ्गद्वयम्, पृष्ठे विद्यमाना ककुद् , कम्पमाना त्वक् - आदयः) ते सर्वे अस्मिन् पशौ अपि दृश्यन्ते, अतः अयम् पशुः गौः अस्तीति विज्ञायते । सरलभाषायाम् - यैः गुणैः ‘अयम् पशुः गौः अस्ति, न हि अश्वः हस्ती गर्दभः वा’ इति प्रतीयते, ते गुणाः ‘गोः भावः’ नाम्ना ज्ञायन्ते । The property of ‘being a cow (and not something else)’ is called the भाव of the cow. काशिकाकारः ‘भाव’शब्दस्य अर्थम् वदति - ‘भवतः अस्माद् अभिधानप्रत्ययौ इति भावः’ । इत्युक्ते - सः गुणः, येन वस्तु प्रतीयते, येन च पदार्थस्य जातिस्वरुपस्य नाम्नः ज्ञानम् भवति (यथा - अयम् घटः अस्ति, सर्पः न - इति), ‘भावः’ नाम्ना ज्ञायते । कौमुदीकारः इममेव विषयम् केनचित् भिन्नरूपेण स्पष्टीकरोति -‘प्रकृतिजन्यबोधे प्रकारः भावः’ । इत्युक्ते, पदार्थस्य बोधे (ज्ञाने) यस्य प्रकारस्य (गुणस्य) साहाय्यम् स्वीक्रियते, सः प्रकारः एव पदार्थस्य भावः अस्ति इत्युच्यते । The properties of an object that help in uniquely identifying that object from other objects is called भाव. । अस्य भावस्य निर्देशार्थम् षष्ठीसमर्थात् प्रातिपदिकात् औत्सर्गिकरूपेण ‘त्व’ तथा ‘तल्’ एतौ प्रत्ययौ वर्तमानसूत्रेण उच्येते ।

यथा - घटस्य भावः घटत्वमुत घटता । गोः भावः गोत्वमुत गोता । अश्वस्य भावः अश्वत्वमुत अश्वता । जडस्य भावः जडत्वमुत जडता ।

‘त्व’ तथा ‘तल्’ प्रत्यययोः विषये एतत् स्मर्तव्यम् - 1. ‘त्व’ प्रत्ययान्तशब्दाः नित्यम् नपुंसकलिङ्गे एव प्रयुज्यन्ते - गोत्वम्, अश्वत्वम्, जडत्वम् - आदयः । 2. ‘तलन्तः’ इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन तल्-प्रत्ययान्तशब्दाः नित्यम् स्त्रीलिङ्गे एवप्रयुज्यन्ते । यथा - गोता, अश्वता, जडता - आदयः । अत्र ‘तल्’ प्रत्यये लकारः लिति (6.1.193) इत्यनेन स्वरविधानार्थमस्ति । प्रक्रियायामादौ तस्य लोपः भवति, अग्रे च अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययः क्रियते - घट + तल् → घट + त [इत्संज्ञकस्य लोपः] → घट + त + टाप् [‘तलन्तः’ इति स्त्रीत्वम्, अजाद्यतष्टाप् (4.1.4) इति टाप्] → घटता विशेषः - पदार्थेषु विद्यमानः भावः त्रिविधः भवति - जातिः, गुणः तथा क्रिया । यथा, ‘गोत्वम्’ इति जातिः (structure) अस्ति इत्युच्यते; ‘नीलत्वम्’ इति गुणः(quality) अस्ति इत्युच्यते ; तथा च ‘पाचकत्वम्’ इति क्रिया (action) अस्ति इत्युच्यते । अस्मिन् विषये अधिकं पिपठिषवः तर्कसङ्ग्रहमुत न्यायशास्त्रस्य अन्यान् ग्रन्थान् पश्यन्तु ।

Vasu English Summary

The affixes त्व and तल् come in the sense of ‘the nature thereof’ after a word in the Genitive 6th-Case.

Vasu English Translation

The affixes त्व and तल् come in the sense of ‘the nature thereof’ after a word in the Genitive 6th-Case. As अश्वस्य भावः = अश्वत्वम् or अश्वता, गोत्वम् or गोता ॥

Bhashya

तस्य भावस्त्वतलौ (2001) (त्वतल्प्रत्ययाधिकरणम्) (5683 एकदेशिपूर्वपक्षवार्तिकम्॥ 1 ॥) - स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानम् - (भाष्यम्) स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानं कर्तव्यम्। स्त्रीभावः - स्त्रीत्वम्, स्त्रीता। पुंभावः - पुंस्त्वम्, पुंस्तेति। किं पुनः कारणं न सिध्यति? इमौ नञ्ञ्स्नञ्ञौ प्राग्भवनादित्युच्येते, तौ विशेषविहितौ सामान्यविहितौ त्वतलौ बाधेयाताम्॥ (5684 एकदेशिपूर्वपक्षवार्तिकम्॥ 2 ॥) - वावचनं च - (भाष्यम्) वावचनं च कर्तव्यम्। किं प्रयोजनम्? नञ्ञ्स्नञ्ञावपि यथा स्याताम्। स्त्रीभावः - स्त्रैणम्, पुंभावः - पौंस्नमिति॥ (5684 एकदेशिसमाधानवार्तिकम्॥ 3 ॥) - अपवादसमावेशाद्वा सिद्धम् - (भाष्यम्) अपवादसमावेशाद्वा सिद्धमेतत्। तद्यथा - ःइमनिच्प्रभृतिभिरपवादैः समावेशो भवति, एवमाभ्यामपि भविष्यति॥ (वार्तिकोक्तार्थसाधकसिद्धान्तभाष्यम्) नैवेश्वर आज्ञापयति नापि धर्मसूत्रकाराः पठन्ति - ःइमनिच्प्रभृतिभिरपवादैः समावेशो भवतीति। किं तर्हि? आ च त्वात् इत्यस्माद्यत्नादिमनिच्प्रभृतिभिरपवादैः समावेशो भवति, न चैतावत्राभ्यन्तरौ। एतावप्यत्राभ्यन्तरौ। कथम्? अपवादसदेशा अपवादा भवन्तीति। एतच्चैव न जानीमोऽपवादसदेशा अपवादा भवन्तीति। अपि च कुत एतद् - एतावप्यत्राभ्यन्तराविति, न पुनः पूर्वौ वा स्यातां परौ वा। एवं तर्हि वक्ष्यति - आ चत्वात् इत्यत्र चकारकरणस्य प्रयोजनं नञ्ञ्स्नञ्ञ्भ्यामपि समावेशो भवतीति॥ (5686 अतिव्याप्त्याशङ्ककवार्तिकम्॥ 4 ॥) - तस्य भाव इत्यभिप्रायादिष्वतिप्रसङ्गः - (भाष्यम्) तस्य भाव इत्यभिप्रायादिष्वतिप्रसङ्गो भवति। इहापि प्राप्नोति - अभिप्रायो देवदत्तस्य मोदकेषु भोजने। ये नो भावास्ते नो भावाः पुत्राः पुत्रैश्चेष्टन्त इति॥ (5687 अतिव्याप्तिनिवारकवार्तिकम्॥ 5 ॥) - सिद्धं तु यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ - (भाष्यम्) सिद्धमेतत्। कथम्? यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने - तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम्, न चाभिप्रायादीनां भावाद् द्रव्ये देवदत्तशब्दो वर्तते॥ (द्रव्यगुणनिर्वचनभाष्यम्) किं पुनर्द्रव्यं? के पुनर्गुणाः? शब्दस्पर्शरूपरसगन्धा गुणाः, ततोऽन्यद् द्रव्यम्॥ (द्रव्यनिर्वचनोपक्रमभाष्यम्) किं पुनरन्यच्छब्दादिभ्यो द्रव्यम्, आहोस्विदनन्यत्? गुणस्यायं भावाद् द्रव्ये शब्दनिवेशं कुर्वन् ख्यापयति - अन्यच्छब्दादिभ्यो द्रव्यमिति। अनन्यच्छब्दादिभ्यो द्रव्यम्, न ह्यन्यदुपलभ्यते। पशोः खल्वपि विशसितस्य पर्णशते व्यस्तस्य नान्यच्छब्दादिभ्य उपलभ्यते॥ (द्रव्यनिर्वचनभाष्यम्) अन्यच्छब्दादिभ्यो द्रव्यम्, तत्त्वनुमानगम्यम्। तद्यथा - ओषधिवनस्पतीनां वृद्धिह्रासौ, ज्योतिषां गतिरिति। कोऽसावनुमानः? इह समाने र्वष्मणि परिणाहे च अन्यत्तुलाग्रं भवति लोहस्य, अन्यत्कार्पासानाम्। यत्कृतो विशेषस्तद् द्रव्यम्॥ तथा कश्चित्स्पृशन्नेव च्छिनत्ति, कश्चिल्लम्बमानोऽपि न च्छिनति, यत्कृतो विशेषस्तद् द्रव्यम्॥ तथा कश्चिदेकेनैव प्रहारेण व्यपवर्गं करोति, कश्चिद् द्वाभ्यामपि न करोति, यत्कृतो विशेषस्तद् द्रव्यम्॥ (द्रव्यपरिचायकलक्षणभाष्यम्) अथ वा यस्य गुणान्तरेष्वपि प्रादुर्भवत्सु तत्वं न विहन्यते तद् द्रव्यम्। किं पुनस्तत्वम्? तद्भावस्तत्वम्। तद्यथा - आमलकादीनां फलानां रक्तादयः पीतादयश्च गुणाः प्रादुर्भवन्ति, आमलकं बदरमित्येव भवति॥ (द्रव्यस्यान्वर्थलक्षणभाष्यम्) अन्वर्थं खल्वपि निर्वचनं - गुणसंद्रावो द्रव्यमिति॥ (सिद्धं तु यस्येत्यादिन्यासाक्षेपभाष्यम्) यदि तर्हि षष्ठीसमर्थाद् गुणे प्रत्यया उत्पद्यन्ते, किमियता सूत्रेण? एतावद्वक्तव्यम् - षष्ठीसमर्थाद् गुण इति॥ (एतादृशन्यासे दोषभाष्यम्) षष्ठीसमर्थाद् गुण इतीयत्युच्यमाने द्विगुणा रज्जुस्त्रिगुणा रज्जुः, अत्रापि प्राप्नोति॥ (अवयवानामपि गुणत्वबोधकभाष्यम्) नैष दोषः। गुणशब्दोऽयं बह्वर्थः। अस्त्येव समेष्ववयवेषु वर्तते। तद्यथा - द्विगुणा रज्जुः, त्रिगुणा रज्जुरिति। अस्ति द्रव्यपदार्थकः। तद्यथा - गुणवानयं देश इत्युच्यते, यस्मिन् गावः सस्यानि च वर्तन्ते। अस्त्यप्राधान्ये वर्तते। तद्यथा - यो यत्राप्रधानं भवति स आह - गुणभूता वयमत्रेति। अस्त्याचारे वर्तते। तद्यथा - गुणवानयं ब्राह्मण इत्युच्यते, यः सम्यगाचारं करोति। अस्ति संस्कारे वर्तते। तद्यथा - संस्कृतमन्नं गुणवदित्युच्यते॥ (षष्ठीसमर्थाद्गुण इति न्यासे अतिव्याप्तिदर्शकभाष्यम्) अथवा सर्वत्रैवायं गुणशब्दः समेषु अवयवेषु वर्तते। तद्यथा - द्विगुणमध्ययनं त्रिगुणमध्ययनमित्युच्यते। चर्चागुणान् क्रमगुणांश्चापेक्ष्य भवति, न संहितागुणांश्चर्चागुणांश्च। यद्येवं गुणवदन्नमिति गुणशब्दो नोपपद्यते। नह्यन्नस्य सूपादयो गुणाः समा भवन्ति। नावश्यं र्वष्मतः परिमाणत एव वा साम्यं भवति। किं तर्हि? युक्तितोऽपि। आतश्च युक्तितः, यो हि मुद्गप्रस्थे लवणप्रस्थं प्रक्षिपेन्नादो युक्तं स्यात्। यदि तावददेरन्नं नादोऽत्तव्यं स्यात्। अथानितेरन्नं नादो जग्ध्वा प्राण्यात्॥ (यस्य गुणस्येति न्यासस्याव्याप्तिप्रदर्शकं भाष्यम्) शुक्लादिषु तर्हि र्वत्यभावाद् वृत्तिर्न प्राप्नोति। शुक्लत्वम्, शुक्लतेति। किं पुनः कारणं शुक्लादय एवोदाह्रियन्ते, न पुनर्वृक्षादयोऽपि - वृक्षत्वम्, वृक्षतेति। अस्त्यत्र विशेषः, उभयवचना ह्येते द्रव्यं चाहुर्गुणं च, यतो द्रव्यवचनास्ततो वृत्तिर्भविष्यति॥ (अव्याप्त्यभावोपपादकभाष्यम्) इमेऽपि तर्हि - उभयवचनाः। कथम्? आरभ्यते मतुब्लोपः - गुणवचनेभ्यो मतुपो लुग्भवतीति। यतो द्रव्यवचनास्ततो वृत्तिर्भविष्यति॥ (अव्याप्तिदर्शकं भाष्यम्) डित्थादिषु तर्हि र्वत्यभावाद वृत्तिर्न प्राप्नोति। डित्थत्वम्, डित्थता, डाम्भिट्टता, डाम्भिट्टत्वमिति। अत्रापि - कश्चित् प्राथमकल्पिको डित्थो डाम्भिट्टश्चेति। तेन कृतां क्रियां गुणं वा यः कश्चित्करोति स उच्यते - डित्थत्वं त एतत्, डाम्भिट्टत्वं त एतत्। एवं डित्थाः कुर्वन्ति, एव डाम्भिट्टाः कुर्वन्ति। यस्तर्हि प्राथमकल्पिको डित्थो डाम्भिट्टश्च, तस्य र्वत्यभावाद् वृत्तिर्न प्राप्नोति। नैष दोषः। यथैव तस्य काथंचित्कः प्रयोगः, एवं वृत्तिरपि भविष्यति॥ (5688 सिद्धं तु यस्येति न्यासं परित्यज्य अन्यन्यासे वार्तिकम्॥ 6 ॥) - यद्वा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भावस्तदभिधाने - (वार्तिकव्याख्याभाष्यम्) किमेभिस्त्रिभिर्भावग्रहणैः क्रियते? एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्यामर्थः। यद्वा - सर्वे शब्दाः स्वेनार्थेन भवन्ति स तेषामर्थ इति, तदभिधाने वा त्वतलौ भवत इति वक्तव्यम्॥ नैवमन्यत्र भवति। न हि तेन रक्तं रागात्(4.2.1) इत्यत्र शब्देन रक्ते प्रत्यया उत्पद्यन्ते। शब्देऽसंभवादर्थेन रक्ते प्रत्यया भविष्यन्ति॥ (न्यासप्रत्याख्यानकवार्तिकावतरणभाष्यम्) तत्तर्ह्यन्यतरत्कर्तव्यम्। सूत्रं च भिद्यते॥ यथान्यासमेवास्तु। ननु चोक्तं - तस्य भाव इत्यभिप्रायादिष्वतिप्रसङ्गः इति॥ (5689 न्यासप्रत्याख्यानकसिद्धान्तवार्तिकम्॥ 7 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? अनभिधानादिति। अनभिधानादभिप्रायादिषूत्पत्तिर्न भविष्यति॥ (5690 पूर्वविप्रतिषेधवार्तिकम्॥ 8 ॥) - त्वतल्भ्यां नञ्ञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम् - (भाष्यम्) त्वतल्भ्यां नञ्ञ्समासो भवति पूर्वविप्रतिषेधेन। किं प्रयोजनम्? त्वतलोः स्वरसिद्ध्यर्थम्। त्वतलोः स्वरसिद्धिर्यथा स्यात्। त्वतलोरवकाशः - भावस्य वचनं प्रतिषेधस्यावचनम् - ब्राह्मणत्वम्, ब्राह्मणता। नञ्ञ्समासस्यावकाशः - प्रतिषेधस्य वचनं भावस्यावचनम् - अब्राह्मणः, अवृषलः। उभयवचने उभयं प्राप्नोति - अब्राह्मणत्वम्, अब्राह्मणता। नञ्ञ्समासो भवति पूर्वविप्रतिषेधेन। स तर्हि पूर्वविप्रतिषेधो वक्तव्यः॥ (पूर्वविप्रतिषेधाभावोपपादकं भाष्यम्) न वक्तव्यः। नात्र त्वतलौ प्राप्नुतः। किं कारणम्? असार्मथ्यात्। कथमसार्मथ्यम्? सापेक्षमसमर्थं भवतीति। यावता ब्राह्मणशब्दः प्रतिषेधमपेक्षते॥ नञ्ञ्समासोऽपि तर्हि न प्राप्नोति। किं कारणम्? असार्मथ्यादेव। कथमसार्मथ्यम्? सापेक्षमसमर्थं भवतीति। यावता ब्राह्मणशब्दो भावमपेक्षते॥ प्रधानमत्र तदा ब्राह्मणशब्दः, भवति च प्रधानस्य सापेक्षस्यापि समासः॥ (पूर्वविप्रतिषेधप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थमिति वक्ष्यति, तत्र व्यवस्थार्थमिदं वक्तव्यम्॥ (5691 नञ्ञ्समासविकल्पबोधकवार्तिकम्॥ 9 ॥) - वा छन्दसि - (भाष्यम्) वा छन्दसि नञ्ञ्समासो वक्तव्यः। निर्वीर्यतां वै यजमान आशास्ते अपशुतां। अयोनित्वाय। अशिथिलत्वाय। अगोतामनपत्यताम्। भवेदिदं युक्तमुदाहरणम् - अयोनित्वाय, अशिथिलत्वायेति। इदं त्वयुक्तम् - अपशुतामिति। नह्यसौ समासभावमाशास्ते। किं तर्हि? उत्तरपदाभावमाशास्ते - न पशोर्भाव इति॥ (5692 प्रत्ययसमावेशे वार्तिकम्॥ 10 ॥) - नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् - (भाष्यम्) नञ्ञ्समासादन्यो भाववचनो भवति विप्रतिषेधेन। किं प्रयोजनम्? स्वरोत्तरपदवृद्ध्यर्थम्। स्वरार्थमुत्तरपदवृद्ध्यर्थं च। स्वरार्थं तावत् - अप्रथिमा, - अम्रदिमा। उत्तरपदवृद्ध्यर्थम् - अशौक्ल्यम्, अकार्ष्ण्यम्॥

Kashika

तस्येति षष्ठीसमर्थाद् भाव इत्येतस्मिन्नर्थे त्वतलौ प्रत्ययौ भवतः। भवतोऽस्मादभिधानप्रत्ययाविति भावः। शब्दस्य प्रवृत्तिनिमित्तं भावशब्देनोच्यते। अश्वस्य भावः अश्वत्वम्। अश्वता। गोत्वम्। गोता॥

Siddhanta Kaumudi

प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबं (लि (SK120)) तलन्तं स्त्रियाम्(लि(SK17)) ॥

Laghu Siddhanta Kaumudi

प्रकृतिजन्यबोधे प्रकारो भावः। गोर्भावो गोत्वम्। गोता। त्वान्तं क्लीबम्॥

Balamanorama

तस्य भावस्त्वतलौ - तस्य भावः । षष्ठन्ताद्भाव इत्यर्थे त्वतलौ स्त इत्यर्थः । भावशब्दस्य अभिप्रायादावपि वृत्तेराह — प्रकारो भाव इति । त्वतल्प्रत्ययौ यत उत्पत्सेयेते तस्मात्प्रकृतिभूतशब्दाद्व्यक्तिबोधे जायमाने यज्जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणं भावशब्देन विवक्षितमित्यर्थः । यथा-गोशब्दाद्धि व्यक्तिबोधे जायमाने गोत्वं विशेषणत्वेन भासते, गोशब्दस्य गोत्ववतीषु व्यक्तिषु, गोत्वे च शक्तिग्रहणात् । न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः । सम्भवति अतीतानागतानां वर्तमानानां चाऽनन्तत्वेन युगपदुपस्थित्यसम्भवाद्गोशब्दात् प्राणित्वपशुत्वादिरूपेणाऽपि गोव्यक्तिप्रतीत्यापत्तेश्च । ततश्च सर्वासु गोव्यक्तिष्वनुगतं तदितरव्यक्तिभ्यो व्यावृत्तं कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः । एवं घटादिशब्दा अपि घटत्वादित्तद्धर्मं पुरस्कृत्य प्रवर्तन्ते । तदिदं शब्दप्रवृत्तिनिमित्तं बोधः । त्वान्तं क्लीबं तलन्तं स्त्रियामिति । लिङ्गानुशासनसूत्रसिद्धमिदम् ।

Tattvabodhini

तस्य भावस्त्वतलौ - तस्य भावस्त्वतलौ । प्रकृतीति । न तु यः कश्चिद्धर्मः, घटत्वमित्यत्र द्रव्यत्वपृथिवीत्वादेरभानात् । गोर्भाव इति । इह गोशब्दोऽर्थपरः, शब्दस्वरूपपरो वेति पञ्चद्वयम् । यदाऽर्थपरस्तदा धर्मविशेषः प्रत्ययार्थः, स च धर्मत्वेनैव भासते ।प्रकृतिजन्ये॑त्यादिस्तु प्रयोगोपाधिः । यदा तु शब्दपरस्तदा तज्जन्यबोधप्रकारः प्रत्ययर्थः । स च धर्मविशेष एव ।पाचकत्व॑मित्यत्र तु कर्तृत्वरूपसंबन्धः प्रकारः ।पच्यमानत्व॑मित्यत्र तु कर्मत्वरूपसंबन्धः । तथाऔपगवत्व॑मित्यत्र जन्यत्वरूपसंबन्धः प्रकारः ।राजपुरुषत्व॑मित्यत्र तु स्वरूपसंबन्ध इत्याद्यह्रम् । एवं स्थिते हरिटीकायां यदुक्तंकृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति, तत्र नाऽपूर्वं शक्त्यन्तरं कल्प्यम् । उक्तरीत्यैव तत्राप्युपपत्तेरिति संक्षेपः ।

Nyaas

भवतेरनेकार्थत्वाद्भवाशब्दोऽयमभिप्रायादिष्वनेकेषु वर्तते। तत्र न ज्ञायते-कोऽत्रार्तो भावशब्देन विवक्षितः? इत्यतस्तत्परिज्ञानार्थमाह - भवतोऽस्मात् इति। यस्माद्गोत्रादेर्विशेषणत्वाद्विशेष्ये गवादौ गौरित्येवमादिकः शब्दो भवति, गोत्वाकारवती च बुद्धिस्तेन योऽर्थो गवादेः शब्दस्य प्रवृत्तनिमित्तं स भावशब्देनोच्यते। तथा चोक्तम् - यस्य गणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ इति। गुण इति विशेषणमिहोच्यते, द्रव्यं विशेष्यम्। यस्य विशेषणस्य भावाद्विद्यमानत्वाद्विशेष्ये शब्दस्य निवेशः प्रवृत्तिर्भवति, तदभिधाने त्वतलादयः प्रत्यायः भवन्ति। तत्? पनः शब्दानां प्रवृत्तिनिमित्तमनेकप्रकारम्; जातिशब्दानां जातिः - अआत्वमिति, गुणशब्दानां गुणः - शुक्लत्वमिति, क्रियाशब्दानां क्रिया-पाचकत्वमिति। केचित्तु क्रियाकारकसम्बन्धं क्रियाशब्दानां प्रवृत्तिनिमित्तमिच्छन्ति। यदृच्छाशब्दानां संज्ञासंज्ञिसम्बन्धित्वमिति संक्षेपेणैतदुक्तम्। विस्तरेण तु भाष्यादावुक्तमिति तत एवानुगन्तव्यम्। अथ नानात्वमित्यादौ कथं प्रत्ययो भवति? कथङ्कारं न भवितव्यम्? षष्ठीसमर्थात् प्रत्ययविधानात्, नानेत्येवमादीनाञ्चाव्ययानां षष्ठर्थेनायोगात्, अयोगास्तु तेषामसत्त्ववाचित्वात्? नैष दोषः; ससत्त्वभूतोऽप्यर्थः शब्दान्तरेण प्रत्यवमृष्टः षष्ठरेथेन प्रयुज्यते - नानेत्यस्य भाव इति। तञ्च प्रत्यवमृष्टार्थं वृत्तिरेव गमयतीति नानुपपन्ना षष्टीसमर्थता॥

Prakriyasarvasvam

शब्दस्य प्रवृत्तिनिमित्तं भावः । तस्य भाव इत्यर्थे त्वतलौ स्तः । स्वभावात् क्लीबत्वस्त्रीत्वे । साधोर्भावः साधुत्वं, साधुता । ‘त्वतलोगुणवचनस्य पुंवत्त्वं वाच्यम्’ (वा० ६-३-३५) । सुन्दर्या भावः सुन्दरत्वं सुन्दरता । प्रमाणग्राहिणी- त्वेनेति भट्टोक्तिश्चिन्त्या । ‘ह्रस्वात्तादौ—’ (८-३-१०१) इति षत्वम् । यजुष्ट्वं यजुष्टा । दीर्घात्तु गीस्त्वम् ॥

Sutra Prayogas

  • सहत्वम् (किरातार्जुनीयम्): तस्य भावस्त्वतलौ इति तस्य भावः।

  • लुलितमण्डनतैव (किरातार्जुनीयम्): तस्य भावस्त्वतलौ इति भावे तल्।

  • परिजनता (किरातार्जुनीयम्): भावे तल् (सूत्रम्- तस्य भावस्त्वतलौ) इति तल्-प्रत्ययः।

  • रुचितया (शिशुपालवधम्): तस्य भावस्त्वतलौ इति भावे तल्।