51111: अनुप्रवचनादिभ्यश्छः

Padacheda: अनुप्रवचनादिभ्यः | S | 5 | 3 |

छः | S | 1 | 1 |

Sutrartha

‘अस्य प्रयोजनम्’ अस्मिन् अर्थे अनुप्रवचनादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः छ-प्रत्ययः भवति ।

प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् ‘अस्य’ इत्यस्मिन् अर्थे प्रयोजनम् (5.1.109) इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा अनुप्रवचनादिगणस्य शब्देभ्यः छ-प्रत्ययः भवति । अनुप्रवचनादिगणः अयम् - अनुप्रवचन, उत्थापन, प्रवेशन, अनुप्रवेशन, उपस्थापन, संवेषन, अनुवेशन, अनुवचन, अनुवादन, अनुवासन, आरम्भण, आरोहण, प्ररोहण, अन्वारोहण । उदाहरणानि - 1. अनुप्रवचनम् (= उपनयनसंस्कारस्य कश्चन अंशः) प्रयोजनमस्य सः अनुप्रवचनीयः यज्ञः । 2. उत्थापनम् प्रयोजनमस्य सः उत्थापनीयः विधिः । 3. अनुवादनम् प्रयोजनमस्य सः अनुवादनीयः प्रश्नः । 4. आरोहणम् प्रयोजनमस्य सा आरोहणीया पताका । अजाद्यतष्टाप् (4.1.4) इति अत्र टाप्-प्रत्ययः विधीयते । अत्र कानिचन वार्त्तिकानि ज्ञेयानि - 1. <!विशि-पूरि-पति-रुहि-प्रकृतेः अनात् सपूर्वपदात् उपसङ्ख्यानम्।!> अस्य वार्त्तिकस्य अर्थः अयम् - यदि कस्यचन समस्तपदस्य उत्तरपदम् ‘विश्’ , ‘पूर्’, ‘पत्’, तथा ‘रुह्’ - एतेभ्यः केनचन धातुना ‘यु’ (= अन) प्रत्ययं कृत्वा निर्मितमस्ति, तर्हि तादृशात् शब्दात् ‘तत् अस्य प्रयोजनम्’ अस्मिन् अर्थे छ-प्रत्ययः भवति । उदाहरणात् पूर्वम् वार्त्तिकस्य विषये किञ्चित् अधिकं जानीमः - अ) अस्मिन् वार्त्तिके ‘विशि-पूरि-पति-रुहि’ इत्यनेन ‘विश्’, ‘पूर्’, ‘पत्’, ‘रुह्’ एते चत्वारः धातवः निर्दिष्टाः सन्ति । वार्त्तिके उपस्थितम् ‘प्रकृतेः’ इदम् पदम् प्रत्येकेन धातुना सह सम्बध्यते । इत्युक्ते, यस्य कस्यापि शब्दस्य मूलप्रकृतिः एतेभ्यः कश्चित् धातुः अस्ति, तस्य शब्दस्य अनेन वार्त्तिकेन ग्रहणम् भवति । आ) अस्मिन् वार्त्तिके ‘अनात्’ इत्यस्य अर्थः ‘अन-यस्य अन्ते अस्ति तस्मात्’ इति क्रियते । अत्र ‘अन’ इत्यनेन ‘यु’ प्रत्ययस्य युवोरनाकौ (7.1.1) इत्यनेन प्राप्तः अन-आदेशः निर्दिश्यते । अतः अस्य सूत्रस्य प्रसक्तिः ‘यु’ प्रत्ययान्तशब्दानां विषये अस्ति । इत्युक्ते, ‘विश्’, ‘पूर्’, ‘पत्’, ‘रुह्’ एतेषाम् ‘यु’ (= ल्युट्) प्रत्ययान्तरूपाणि अस्मिन् वार्त्तिके गृह्यन्ते । इ) अत्र ‘सपूर्वपदात्’ इति शब्दः प्रयुक्तः अस्ति । ‘पूर्वपदेन सह विद्यमानः’ इति अस्य अर्थः । अतः ‘विश्’, ‘पूर्’, ‘पत्’, ‘रुह्’ एतेषाम् ‘यु’ (= ल्युट्) प्रत्ययान्तरूपाणि यदि पूर्वपदेन सह विद्यमानानि सन्ति, चेत् तेषाम् विषये अनेन वार्त्तिकेन ‘तत् अस्य प्रयोजनम्’ अस्मिन् अर्थे छ-प्रत्ययः उच्यते । उदाहरणानि एतानि - अ) ‘विश्’ - गृहप्रवेशनम् प्रयोजनमस्य सः गृहप्रवेशनीयः यज्ञः । अत्र ‘गृह’ इति पूर्वपदम्, ‘प्रवेशन’ इति उत्तरपदम् । अस्य उत्तरपदस्य मूलप्रकृतिः ‘विश्’ धातुः, तथा च अत्र विद्यमानः प्रत्ययः ‘ल्युट्’ । एवमेव - आ) ‘पूर्’ - प्रपापूरणम् (= तृष्णाशमनम्) प्रयोजनमस्य सः प्रपापूरणीयः घटः । ‘प्रपा’ (= तृष्णा) इति पूर्वपदम्, पूरणम् (= पूर् + ल्युट्) इति उत्तरपदम् । इ) ‘पत्’ - अश्वप्रपतनम् प्रयोजनमस्य सः अश्वप्रपतनीयः बाणः । ‘अश्व’ इति पूर्वपदम्, प्रपतन (= प्र + पत् + ल्युट्) इति उत्तरपदम् । ई) ‘रुह्’ - प्रासादारोहणम् प्रयोजनमस्य सः प्रासादारोहणीयः सोपानः । ‘प्रासाद’ इति पूर्वपदम्, ‘आरोहण’ (= आ + रुह् + ल्युट्) इति उत्तरपदम् । 2. <!स्वर्गादिभ्यो यद् वक्तव्यः!> - स्वर्ग, यशस्, आयुष्, काम, धन - एतेभ्यः ‘तद् अस्य प्रयोजनम्’ अस्मिन् अर्थे यत्-प्रत्ययः भवति । यथा - अ) स्वर्गः प्रयोजनमस्य सः स्वर्ग्यः यज्ञः । आ) यशः प्रयोजनमस्य सः यशस्यः यज्ञः (यशस् + यत् → यशस्य) । इ) आयुः प्रयोजनमस्य सः आयुष्यः वरः (आयुष् + यत् → आयुष्य) । ई) कामम् प्रयोजनमस्य सः काम्यः प्रसादः । उ) धनम् प्रयोजनमस्य तत् धन्यम् कार्यम् । 3. <! पुण्याहवाचनादीभ्यो लुग् वक्तव्यः!> - पुण्याहवाचन, स्वस्तिवाचन, शान्तिवाचन - एतेषां विषये ‘तदस्य प्रयोजनम्’ अस्मिन् अर्थे औत्सर्गिकप्रत्ययस्य लुक् भवति । यथा - अ) पुण्याहवाचनम् प्रयोजनमस्य सः पुण्याहवाचनः विधिः । आ) स्वस्तिवाचनम् प्रयोजनमस्य सः स्वस्तिवाचनः विधिः । इ) शान्तिवाचनम् प्रयोजनमस्य सः शान्तिवाचनः विधिः ।

Vasu English Summary

The affix छ (ईय) comes in the same sense of ‘that whose purpose is this’ after The affix words अनुप्रवचन etc.

Vasu English Translation

The affix छ (ईय) comes in the same sense of ‘that whose purpose is this’ after The affix words अनुप्रवचन etc. This debars ठञ् ॥ Thus अनुप्रवचनं प्रयोजनमस्य = अनुप्रवचनीयम्, उत्थापनीयम् ॥

Vart:- So also after the derivatives formed by the affix अन (यु) from the radicals विश्, ‘to enter’, पूर, ‘to fill’, पत् ‘to fall’, and रुह ‘to mount’, when preceded by a word. As गृहप्रवेशनीयम्, प्रपापूरणीयम्, अश्वप्रपतनीयम्, प्रासादारोहणीयम् ॥

Vart:- The affix यत् comes after the words स्वर्ग &c. स्वर्गं प्रयोजनमस्य = स्वर्ग्यम्, यशष्यम्, आयुष्यम्, काम्यम्, धन्यम् ॥

Vart:- The affix is elided after the words पुण्याहवाचन &c. As, पुण्याहवाचनं प्रयोजनमस्य = पुण्याहवाचनं, स्वस्तिवाचनं, शान्तिवाचनम् ॥

1 अनुप्रवचन, 2 उत्थापन, 3 उपस्थापन, 4 संवेशन, 5 प्रवेशन, 6 अनुप्रवेशन, 7 अनुवासन, 8 अनुवचन, 9 अनुवाचन, I0 अन्वारोहण, 11 प्रारम्भण, 12 आरम्भण, 13 आरोहण, 14 अनुवेशन, 15 अनुवादन, 16 प्ररोहण ॥

Bhashya

अनुप्रवचनादिभ्यश्छः (1993) (छप्रत्ययाधिकरणम्) (5677 उपसंख्यानवार्तिकम्॥ 1 ॥) - छप्रकरणे विशिपूरिपदिरुहिप्रकृतेरनात्सपूर्वपदादुपसंख्यानम् - (भाष्यम्) छप्रकरणे विशिपूरिपदिरुहिप्रकृतेरनात्सपूर्वपदादुपसंख्यानं कर्तव्यम्। विशि - गेहानुप्रवेशनीयम्। पूरि - प्रपापूरणीयम्। पदि - गोप्रपदनीयम्, अश्वप्रपदनीयम्। रुहि - प्रासादारोहणीयम्॥ (5678 विधिवार्तिकम्॥ 2 ॥) - स्वर्गादिभ्यो यत् - (भाष्यम्) स्वर्गादिभ्यो यत्प्रत्ययो भवति। र्स्वग्यम्। धन्यम्। यशस्यम्। आयुष्यम्। (5678 लुग्विधिवार्तिकम्॥ 1 ॥) - पुण्याहवाचनादिभ्यो लुक् - (भाष्यम्) पुण्याहवाचनादिभ्यो लुग्वक्तव्यः। पुण्याहवाचनम्। शान्तिवाचनम्। स्वस्तिवाचनम्॥

Kashika

अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति तदस्य प्रयोजनमित्यस्मिन् विषये। ठञोऽपवादः। अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् उत्त्थापनीयम्॥ विशिपूरिपतिरुहिप्रकृतेरनात् सपूर्वपदादुपसंख्यानम्॥ गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेशनीयम्। प्रपापूरणीयम्। अश्वप्रपतनीयम्। प्रासादारोहणीयम्॥ स्वर्गादिभ्यो यद् वक्तव्यः॥ स्वर्गः प्रयोजनमस्य स्वर्ग्यम्। यशस्यम्। आयुष्यम्। काम्यम्। धन्यम्॥ पुण्याहवाचनादिभ्यो लुग् वक्तव्यः॥ पुण्याहवाचनं प्रयोजनमस्य पुण्याहवाचनम्। स्वस्तिवाचनम्। शान्तिवाचनम्॥ अनुप्रवचन। उत्त्थापन। प्रवेशन। अनुप्रवेशन। उपस्थापन। संवेशन। अनुवेशन। अनुवचन। अनुवादन। अनुवासन। आरम्भण। आरोहण। प्ररोहण। अन्वारोहण। अनुप्रवचनादिः॥

Siddhanta Kaumudi

अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥

Balamanorama

अनुप्रवचनादिभ्यश्छः - अनुप्रवचनादिभ्यश्चः । प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । अनुप्रवचनं नाम उपनयनाङ्गं किञ्चित्कर्म आआलायनसूत्रे प्रसिद्धम् ।

Tattvabodhini

अनुप्रवचनादिभ्यश्छः - अनुप्रवचना । अनुप्रवचनं नाम ब्राह्मौदनमुच्यते ।

Padamanjari

विशिपूरीत्यादि। विश प्रवेशनेऽ,’पूरी अप्यायने’ ,’पल्लृ गतौ’ रुह बीजजन्मनिऽ - एताः प्रकृतयो यस्यानस्य’युवोरनाकौ’ इति विहितस्य तस्माद्विद्यमानपूर्वपदाच्छ उपसंख्येयः, केवलस्यानस्य सपूर्वपदत्वासम्भवत्सामर्थ्यातदन्तग्रहणम्। गृहप्रवेशनीयमिति। एवं चानुप्रवचनादिषु संवेशनानुप्रर्वशानान्वारोहणशब्दानां प्रपञ्चार्थः पाठः। स्वर्ग्यमिति। ठञि प्राप्ते यद्विधिः। पुण्याहवाचनादिभ्य इति। साहचर्यादभिधाने सिद्धे भेदविवक्षायां प्रत्ययश्रवणं मा भूदिति लुग्वचनम् ॥

Nyaas

विशिपूरी इत्यादि। विश प्रवेशने (धातुपाठः-1824), पूरी आप्यायने (धातुपाठः-1803), पत्लृ गतौ (दा।पा। 845) रुह बीजजन्मनि (धातुपाठः- 859) - एताः प्रकृतयो यस्यानस्य युवोरनाकौ (7.1.1) इति युस्थाने विहितस्यानः, तस्माद्विद्यमानपूर्वपदाच्छ उपसंख्येयः। केवलस्यानस्य सपूर्वपदत्वं न सम्भवतीति तस्य शब्दस्येदं विशेषणं विज्ञायते। गृहप्रवेशनं प्रयोजनं यस्य तत्र गृहप्रवेशनशब्दो विशिप्रकृत्यनन्तः, गृहशब्देन च सपूर्वपदः। यदि तर्हि विश्यादिप्रकृत्यनन्ताच्छशब्दाच्छ उपसंख्यायते, अनुप्रवचनादिषु संवेशनारोहणादीनां पाठोऽनर्थकः; तस्यैव प्रपञ्चार्थत्वात्॥

Prakriyasarvasvam

गायत्र्याद्युपदेशः प्रयोजकोऽस्येति अनुप्रवचनीयो होमः । अत्र भोजः— ‘उदुपाभ्यां स्थापेरनान्ताच्छः’ (स० ५-१-१२३) उत्थापनीयम् । उपस्थापनीयम् । ‘अनोर्वचिवासिविशिभ्यः’ (स० ५–१–१२४) अनुवचनीयम् । अनुवासनीयम् । अनुवेशनीयम् । ‘रुहेः प्राङभ्यां च’ (स० ५–१–१२५) । चादनोश्च । प्ररोहणीयम् । आरोहणीयम् । अनुरोहणीयम् । समाङो विशिरिभ्याम्’ (स० ५–१–१२६) । समावेशनीयम् । समारम्भणीयम् । ‘विशिपूरिपदिरुहिभ्यः सपूर्वपदेभ्यः’ (स० ५–१–१२७) अनान्तादिति सर्वत्र योज्यम् । गृहप्रवेशनीयम् । कलशपूरणीयम् । अश्वप्रपदनीयम् । प्रासादारोहणीयम् । ‘पुण्याहस्वस्तिशान्तिभ्यो वाचनाल्लुक्’ (स० ५–१–१२९) । प्रयोजनठञो लुक् । पुण्याहवाचनं प्रयोजनमस्य पुण्याह- वाचनम् । स्वस्तिवाचनम् । शान्तिवाचनम् । ‘स्वर्गधनायुर्यशःकामेभ्यो यत् ।’ )स० ५–१–१२८) स्वर्गफलं स्वर्ग्यम् । धन्यम् । आयुष्यम् । यशस्यम् । काम्यम् ।।

Vartika

स्वर्गादिभ्यो यद्वक्तव्यः ।