51101: तस्मै प्रभवति संतापादिभ्यः

Padacheda: तस्मै | S | 4 | 1 |

प्रभवति | T | | |

संतापादिभ्यः | S | 5 | 3 |

Sutrartha

‘प्रभवति’ अस्मिन् अर्थे चतुर्थीसमर्थात् सन्तापादिगणस्य शब्देभ्यः ठञ्-प्रत्ययः भवति ।

‘प्रभवति’ इत्युक्ते ‘अलम्’ (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे सन्तापादिगणस्य शब्देभ्यः चतुर्थीसमर्थेभ्यः ठञ्-प्रत्ययः भवति । सन्तापादिगणः अयम् - सन्ताप, सन्नाह, सङ्ग्राम, संयोग, संपराय, संपेष, निष्पेष, निसर्ग, असर्ग, विसर्ग, उपसर्ग, उपवास, प्रवास, सङ्घात, संमोदन, निर्घोष, सर्ग, सम्पात, संवाद, संवेशन, सक्तुमांसौदन । उदाहरणानि - 1. सन्तापाय प्रभवति सान्तापिकम् कार्यम् । यत् कार्यम् यत् सन्तापजनकमस्ति, सन्तापम् कारयितुम् समर्थम् वा; तस्य निर्देशः ‘सान्तापिक’ इत्यनेन भवति । 2. सन्नाहाय (कवचाय) प्रभवति सान्नाहिकम् लौहम् । 3. सङ्ग्रामाय प्रभवति साङ्ग्रामिकम् वर्तनम् । 4. प्रवासाय प्रभवति प्रावासिकम् शकटम् । अस्मिन् गणे ‘सक्तुमांसौदन’ इति शब्दः विद्यते । अस्य विगृहीतादपि प्रयोगः इष्यते । यथा - 1. सक्तवे प्रभवति साक्तुकः मिश्रकः (mixer) । अत्र ठञ्-प्रत्ययस्य इसुसुक्तान्तात् कः (7]3]51) इति ‘क’ आदेशः भवति । 2. मांसाय प्रभवति मांसिकम् धनम् । 3. ओदनाय प्रभवति औदनिकम् क्षेत्रम् । 4. सक्तुमांसौदनाय प्रभवति साक्तुमांसौदनिकः । ज्ञातव्यम् - अस्मिन् सूत्रे ‘प्रभवति’ इति शब्दः ‘अलम्’ अस्मिन् अर्थे प्रयुक्तः अस्ति, अतः समर्थपदम् चतुर्थ्यां विद्यते ।

Vasu English Summary

The affix ठञ् comes after the words संताप etc. in the Dative -4th Case in construction in the sense of ‘what is able to effect that’.

Vasu English Translation

The affix ठञ् comes after the words संताप etc. in the Dative -4th Case in construction in the sense of ‘what is able to effect that’. The word प्रभवति means ‘able, capable’. The dative here has the force of अलम् (2.3.16). As, संतापाय प्रभवति = सांतापिकः, सान्नाहिकः ॥

1 संताप, 2 संनाह, 3 संग्राम, 4 संयोग, 5 संपराय, 6 संवेशन, 7 संपेष, 8 निष्पेष, 9 सर्ग, 10 निसर्ग, 11 विसर्ग, 12 उपसर्ग, 13 प्रवास, 14 उपवास, 15 संघात, 16 संवेष, 17 संवास, 18 संमोदन, 19 सक्तु, 20 मांसौदनाद्विगृहीतादपि, 21 असर्ग. ॥

Kashika

तस्मा इति चतुर्थीसमर्थेभ्यः संतापादिभ्यः प्रभवतीत्यस्मिन् विषये ठञ् प्रत्ययो भवति। समर्थः शक्तः प्रभवतीत्युच्यते। अलमर्थे चतुर्थी। संतापाय प्रभवति सान्तापिकः। सान्नाहिकः॥ संताप। संनाह। संग्राम। संयोग। संपराय। संपेष। निष्पेष। निसर्ग। असर्ग। विसर्ग। उपसर्ग। उपवास। प्रवास। संघात। संमोदन। सक्तुमांसौदनाद् विगृहीतादपि (ग०सू०११३)। संतापादिः॥

Siddhanta Kaumudi

संतापाय प्रभवति सांतापिकः । सांग्रामिकः ॥

Balamanorama

तस्मै प्रभवति संतापादिभ्यः - तस्मै प्रभवति । चतुथ्र्यन्तेभ्यः संपातादिभ्यः प्रभवतीत्यर्थे ठञ् स्यादित्यर्थः । संतापाय प्रभवतीति । शत्रूणां पीडायै शक्नोतीत्यर्थः ।

Tattvabodhini

तस्मै प्रभवति संतापादिभ्यः - तस्मै प्रभवति । समर्थः शक्तः प्रभवतीत्युच्यते ।

Padamanjari

अलमर्थे चतुर्थीति। अलमर्थे’प्रभवति’ इत्यस्मिन्नुपपदे शेषविषये चतुर्थात्यर्थः। सक्तुमांसौदनाद्विगृहीतादपिति। अपिशब्दात्सङ्घातादपि - साक्तुमांसितः; औदनिकः, आक्तुमांसौदनिकः ॥

Nyaas

सक्तुमांसौदनाद्विगृहीतादपि इति। अपिशब्दात्, सङ्घातादपि। साक्तुमांसौदनिकः। साक्तुकः। मांसिकः। औदनिकः॥

Prakriyasarvasvam

सान्तापिकः । सान्नाहिकः । सांग्रामिकः । सांयोगिकः । सांवेशिकः । सांपेषिकः । सांघातिकः । सम्परायो युद्धं, साम्परायिकः । साम्मोदनिकः । ‘निरः पेषघोषाभ्याम्’ (स० ५-१-१०८) नैष्पेषिकः । नैर्घोषिकः । ‘निर्व्युपेभ्यः सर्गात्’ (स० ५-१- १०९) नैसर्गिकः । वैसर्गिकः उपसर्ग उपद्रवः । औपसर्गिकः । ‘प्रोपाभ्यां वासात्’ (स० ५-१-११०) प्रावासिकः । औपवासिकः । सक्तुमांसौदनमांसौदनेभ्यश्च’ (स० ५-१-१११) साक्तुकः । मांसिकः । औदनिकः । मांसौदनिकः ॥

Sutra Prayogas

  • कार्मुकं (रघुवंशम्): कर्मण उकञ् इत्युकञ्प्रत्ययः।