51106: छन्दसि घस्¶
Padacheda: छन्दसि | S | 7 | 1 |
घस् | S | 1 | 1 |
Sutrartha¶
‘अस्य प्राप्तम्’ अस्मिन् अर्थे प्रथमासमर्थात् ‘ऋतु’शब्दात् वेदेषु घस्-प्रत्ययः कृतः दृश्यते ।
प्रथमासमर्थात् ‘ऋतु’शब्दात् ‘प्राप्तः’ (निकटः आगतः) अस्मिन् अर्थे ‘यस्य ऋतुः प्राप्तः’ तस्य निर्देशं कर्तुम् वेदेषु घस्-प्रत्ययः कृतः दृश्यते । ऋतु + घस् → ऋतु + इय [आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति इय-आदेशः] → ऋत्विय [सिति च (1.4.16) इति अङ्गस्य पदसंज्ञा । इको यणचि (6.1.77) इति यणादेशः] यथा - तैत्तिरीयब्राह्मणे 2.5.8.1 इत्यत्र ‘अयं ते योनिरृत्वियः’ इति प्रयोगः दृश्यते ।
Vasu English Summary¶
In the छन्दस् (Vedas) the affix घस् (इय) comes in the sense of ‘season has come for it’ After the verbs the word ऋतु।
Vasu English Translation¶
In the छन्दस् (Vedas) the affix घस् (इय) comes in the sense of ‘season has come for it’ After the verbs the word ऋतु। This debars अण्. As अयं ते योनिरृत्वियः ॥ Here there is no Guna by (6.4.146), because by sutra (1.4. 16), ऋतु before the affix घस् gets the designation of पद, hence the guna rule which applies to भ (1.4.18) does not apply.
Kashika¶
ऋतुशब्दाच् छन्दसि विषये घस् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विषये। अणोऽपवादः। अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॒ (ऋ०३.२९.१०)॥
Siddhanta Kaumudi¶
ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥
Padamanjari¶
ऋत्विय इति।’सिति च’ इति पदत्वेन भत्वे निरस्ते ठोर्गुणःऽ न भवति ॥
Nyaas¶
घसः सकारः सिति च (1.4.16) इति पदसंज्ञार्थः। तेन पदत्वेन भत्वे निरस्ते ऋत्विय इति। अत्र ओर्गुणः (6.4.146) इति गुणो न भवति॥
Prakriyasarvasvam¶
सोऽस्यप्राप्त इत्यर्थे ऋतोर्घस् स्यात् । सित्त्वेन पदत्वात् अभत्वात् ओगुणो न यण् । अयन्ते योनिर्ऋत्वियः ।