51118: उपसर्गाच्छन्दसि धात्वर्थे¶
Padacheda: उपसर्गात् | S | 5 | 1 |
छन्दसि | S | 7 | 1 |
धात्वर्थे | S | 7 | 1 |
Sutrartha¶
उपसर्गसंज्ञकः शब्दः धातोः एव अर्थे वति-प्रत्ययेन सह प्रयुक्तः वेदेषु उपलभ्यते ।
‘वति’ प्रत्ययस्य वेदेषु लभ्यमानम् विशिष्टम् प्रयोगम् स्पष्टीकर्तुमस्य सूत्रस्य निर्माणम् कृतमस्ति । अस्य सूत्रस्य अर्थः अयम् - वेदेषु केषुचन स्थलेषु उपसर्गस्य प्रयोगः धातोः अर्थे एव, परन्तु धातुम् विना कृतः दृश्यते । यथा, ‘उद् + गम्’ इत्यस्य स्थाने केवलम् ‘उद्’ इति उपसर्गः प्रयुक्तः दृश्यते । अपि च, अस्मिन् स्थाने अयम् ‘धात्वर्थे प्रयुक्तः उपसर्गः’ प्रायः ‘वति’प्रत्ययेन सह प्रयुक्तः दृश्यते । अत्र ‘वति’प्रत्ययेन कोऽपि नूतनः अर्थः न निर्दिश्यते; अपि तु धात्वर्थे एव (इत्युक्ते, स्वार्थे एव) अस्य प्रत्ययस्य प्रयोगः भवति । यथा - ऋग्वेदे 10.142.4 इत्यत्र - यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त् पृथ॑ग् एषि प्रग॒र्धिनी॑व॒ सेना॑ । अस्मिन् उदाहरणे - अ) ‘उद्वतः’ इति रूपमुद्वत्-शब्दस्य द्वितीयाबहुवचनस्य रूपमस्ति । ‘उद् + गम्’ इत्यस्मिन् अर्थे अत्र केवलम् ‘उद्’ उपसर्गः प्रयुक्तः अस्ति, तथा च स्वार्थे एव तस्मात् वति-प्रत्ययः अपि प्रयुक्तः अस्ति । ‘उद्वतः’ इत्यस्य अत्र अर्थः ‘ये उद्गच्छन्ति तान् (to those which travel upwards)’ इति अस्ति । आ) ‘निवतः’ इति रूपम् निवत्-शब्दस्य द्वितीयाबहुवचनस्य रूपमस्ति । ‘नि + गम्’ इत्यस्मिन् अर्थे अत्र केवलम् ‘नि’ उपसर्गः प्रयुक्तः अस्ति, तथा च स्वार्थे एव तस्मात् वति-प्रत्ययः अपि प्रयुक्तः अस्ति । ‘निवतः’ इत्यस्य अत्र अर्थः ‘ये निगच्छन्ति तान् (to those who travel downwards)’ इति स्वीक्रियते । स्मर्तव्यम् - वस्तुतः तद्धितश्चासर्वविभक्तिः (1.1.38) अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति । परन्तु अस्याम् ऋचायाम् ‘उद्वतः / निवतः’ इति बहुवचनस्य रूपम् प्रयुक्तम् दृश्यते । अस्य कारणम् ‘सर्वे विधयः छन्दसि विकल्प्यन्ते’ इत्येव अस्ति । इत्युक्ते, वेदेषु अष्टाध्याय्याः नियमान् उल्लङ्घ्य अपि रूपाणि केषुचन स्थलेषु लभ्यन्ते - इति । तस्यैव इदमपि एकमुदाहरणम् । विशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - तेन तुल्यं क्रिया चेद्वतिः (5.1.115), तत्र तस्येव (5.1.116), तदर्हम् (5.1.117), तथा च उपसर्गाच्छन्दसि धात्वर्थे (5.1.118) । एते चत्वारः अर्थाः सामान्यरूपेण ‘वत्यर्थाः’ नाम्ना ज्ञायन्ते । एतेभ्यः चतुर्थः अर्थः वर्तमानसूत्रेण दीयते । अयमर्थः केवलम् वेदेषु एव प्रयुक्तः दृश्यते, न च लोके ।
Vasu English Summary¶
In the छन्दस् (Vedas) the affix वति (वत्) is added to an उपसर्ग (Preposition) in the sense of a verbal root.
Vasu English Translation¶
In the छन्दस् (Vedas) the affix वति (वत्) is added to an उपसर्ग (Preposition) in the sense of a verbal root. As the word उद्वतः and निवतः in the following Rik (X. 142.4).
यदु॒द्वतो॑ नि॒वतो॒ यासि॒ वप्स॒त् पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ ॥ “When thou O Fire ! goest burning high (उद्वतः = उद्गतान्) and low (निवतः = निगतान्) trees &c.
Bhashya¶
उपसर्गाच्छन्दसि धात्वर्थे (2000) (अर्थग्रहणाक्षेपभाष्यम्) अर्थग्रहणं किमर्थम्? न उपसर्गाच्छन्दसि धातौ इत्येवोच्येत॥ धातुर्वै शब्दः, शब्दे कार्यस्यासंभवादर्थे कार्यं विज्ञास्यते। कः पुनर्धात्वर्थः? क्रिया॥ (समाधानभाष्यम्) इदं तर्हि प्रयोजनम् - उत्तरपदलोपो यया विज्ञायेत्, धातुकृतोऽर्थो धात्वर्थ इति। कः पुनर्धातुकृतोऽर्थः? साधनम्। किं प्रयोजनम्? साधनेऽयं भवन् लिङ्गसंख्याभ्यां योक्ष्यते। उद्गतानि उद्वतः, निगतानि निवत इति॥ (5682 एकदेशिवार्तिकम्॥ 1 ॥) - स्त्रीपुंसाभ्यां वत्युपसंख्यानम् - (भाष्यम्) स्त्रीपुंसाभ्यां वत्युपसंख्यानं कर्तव्यम्। स्त्रीवत्, पुंवदिति। किं पुनः कारणं न सिध्यति? इमौ नञ्ञस्नञ्ञौ प्राग्भवनादित्युच्येते तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयाताम्॥ (सिद्धान्तभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति - न वत्यर्थे नञ्ञ्स्नञ्ञौ भवत इति, यदयं स्त्रियाः पुंवत् इति निर्देशं करोति॥ एवमपि स्त्रीवत् इति न सिध्यति। योगापेक्षं ज्ञापकम्॥
Kashika¶
उपसर्गात् ससाधने धात्वर्थे वर्तमानात् स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये। यदुद्वतो॑ नि॒वतो॒ यासि॒ बप्स॒द् (ऋ०१०.१४२.४)। उद्गतानि निगतानि च॥
Siddhanta Kaumudi¶
धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवतः (यदु॒द्वतो॑ नि॒वतः॑) । उद्गतान्निर्गातादित्यर्थः ॥
Padamanjari¶
ससाधने धात्वर्थे इति। क्रियामात्रं धात्वर्थः, स्तत्कथं ससाधन इति लभ्यते ? उच्यते; इहार्थग्रहणं न कर्तव्यम्, धातावित्येव सिद्धम्, कथं पुनर्धातौ नामोपसर्गो वर्तेत, शब्दे शब्दासम्भवात् ? अर्थे वृत्तिर्विज्ञास्यते। तथा - धातुसम्बन्धेऽ इत्यत्र तत् क्रियते बहुव्रीहिर्यथा विज्ञायेत - धातुर्धात्वर्थः क्रिया, अर्थः प्रयोजनं यस्य साधनस्य तस्मिन्वर्तमानादिति।’ससाधने धात्वर्थे’ अत्यस्याप्ययमेवार्थः - धात्वर्थविशिष्टे साधन इति, न पुनः साधनविशिष्टे धात्वर्थ इति। उपसर्गाश्च पुनरेवमात्मकाः यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, यथा - आगच्छतीति। यत्र तु न श्रूयते तत्र क्रियाविशिष्ट्ंअ साधनमाहुः - निष्कौशाम्बिरिति, तत्र यत्र क्रिया न श्रूयते तत्र यथा स्यादित्येवमर्थं धात्वर्थ इत्युक्तम्। उद्गतानि निगतानीति। वनानां विशेष्यत्वान्नपुंसकत्वम्। उद्वतो निवत इति तु छान्दसं पुंस्त्वमिति मन्यते। यच्चास्माभिरुक्तम् - ‘क्रिया गुणभूता साधनं प्रधानभूतं तत्रोपसर्गस्य वृत्तिः’ इति तदप्यतेन दर्शैत्म्। साधनशब्देन शक्तिमद् द्रव्यमुच्यते,न शक्तिमात्रमिति लिङ्गसङ्ख्यायोगादन्वर्थाव्ययसंज्ञा न भवति ॥ तस्य भावस्त्वतलौ ॥’तस्येदम्’ इत्यस्यापवादोऽयम्। भावशब्दोऽयम्’भवतेश्चेति वक्तव्यम्’ इति णप्रत्ययान्तोऽस्त्येवाभिप्राये, यथा - अथं भावःऽ इति; अस्ति च पदार्थमात्रवचनः, -‘विचित्रा हि भावशक्तयः’ इति; अस्ति च शृङ्गारादिषु - स्तायीभावः सञ्चारीभाव इति; घञन्तस्तु भवत्यर्थे कर्तृवर्जिते च कारके वर्तते। भवतिश्चानेकार्थः, तद्यथा -‘तत्र भवः’ इति सतार्थः;’धान्यानां भवने’ इत्युत्पत्यर्थः; ठित्थम्भूतेऽ इति प्राप्त्यर्थः;’भूष्णुर्भूतिकामः’ इति समृद्ध्यर्थः;’यस्य च भावेन भावलक्षणम्’ इत्यादौ धात्वर्थमात्रवचनः; वृत्तिकारोपदर्शितश्चापरः, ततश्च’तस्य भावः’ इत्यभिप्रायादिष्वत्पिरसङ्गः? इत्यत आहभवतोऽस्मादित्यादि। यस्माद् गोत्वादेर्हेतोर्गवादौ गौरित्येवमादिकमभिधानं प्रवर्तते, गौर्गौरित्येवमादिश्चाभिन्नाकारः प्रत्ययो भवति, सोऽर्थो गवादेः शब्दस्य प्रवृत्तिनिमितमिह भावशब्देनोच्यते। तत्र भवतोऽस्मादित्यर्थप्रदर्शनमेतत्, न तु हेतौ केनचिद् घञ्वविहः। तस्मात्’श्रिणीभुवो’ नुपसर्गेऽ इति करणे घञ् द्रष्टव्यः। अभिप्रायादीनां चानभिधानान्न ग्रहणम्। उक्तं च -‘यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ’ इति। गुएणशब्देन यावान्कश्चित्पराश्रयो भेदको जात्यादिरर्थः स सर्व इह गृह्यते।’यस्य भावात्’ इत्येतावत्युच्यमाने पुत्रस्य भावात्पितृशब्दस्य निवेश इति पितत्वमिति पुत्रे प्रत्ययः स्यात्, पुत्रत्वमिति च पितरीति गुणग्रहणम्; भावाद् विद्यमानत्वात्। द्वव्यमिति विशेष्यभूतः सत्वभावापन्नोऽर्त उच्यते, तस्मिन् शब्दनिवेशःउशब्दस्य प्रवृत्तिः, सत्वतलोरभिधेय इत्यर्थः। तत्र ये रूपादयः शब्दा गुणमात्रवृतयस्तेभ्यो गुणसमवायिनि सामान्यविशेषे भावप्रत्ययो रूपत्वमिति। ये तु शुक्लादयो गुणगुणिवृतयो गुणगुणिनोरबेदोपचारात्, मतुब्लोपाद्वा, तेभ्यो गुणवृत्तिभ्यो गुणसमवायिनि सानान्ये भावप्रत्ययः; गुणिवृत्तिब्यस्तु गुणे। अणुमहद्दीर्घदयो नित्यं परिमाणिनि वर्तन्ते, तेभ्यः परिमाणो गुणे भावप्रत्ययः, षत्वं णत्वमिति भिन्नवर्णव्यक्तिसमवेते सामान्यविशेषे प्रत्ययः। गवादयो यदा जातिमात्रवाचिनस्तदा तेभ्यः शब्दस्वरूपे प्रत्ययः, तथा हयर्थे जातौ शब्दस्वरूपमध्यस्यते - यो गोशब्दः स शब्दार्थ इति। शब्दस्वरूपमेव तत्र प्रवृत्तिनिमितम्, नान्यत्। द्रव्यवाचिभ्यस्तु गवादिभ्यो जातौ प्रत्ययः, समासकृतद्धितास्तु यद्यपि केवलं सम्बन्धं नाभिदधति, तथापि सम्बन्धिनि वर्तमानाः सम्बन्धं प्रवृत्तिनिमितमपेक्षन्त इति तेभ्यः सम्बन्धे भावप्रत्ययः। तथा च राजपुरुषत्वमिति स्वस्वामिभावः सम्बन्धः प्रतीयते, पाचकत्वमिति क्रियाकारकसम्बन्धः, औपगवत्वमित्यादावपत्यापत्सिसम्बन्धः। केचिदौपगवत्वमित्यपत्यप्रत्ययस्य जातिमभिधेयामिच्छन्ति; तन्मते, अर्थान्तरवृत्तिस्तद्धैत उदाहार्यः -‘समासकृतिद्धितेषु सम्बन्धाभिधानमन्यत्र रूढ।ल्भिन्नरूपाव्यभिचरितसम्बन्धेभ्यः’ इति, रूढिशब्दा गौरखरसप्तपर्णलोहितशाल्यादयो जातिविशेषावच्छिन्नद्रव्यवाचिन इति तेभ्यो जातावेव भावप्रत्ययः। एवं कुम्भकारत्वम्, हस्तित्वमिति अभिन्नरूपाः। शुक्लादयो मतुव्लुकि विज्ञायमाने यद्यपि तद्धितान्ताः, तथापि तेभ्यो भावप्रत्ययो गुण एव भवति; न तु सम्बन्धे गुणगुणिनोर्जातितद्वतोरिव सोऽयमित्यभिसम्बन्धेन लोकनिरूढेअन भेदसम्बन्धस्य न्यग्भावात्।’गुणवचनेभ्यो लुक्’ इति लुग्विधानद्वारेणाबेदेनैव गुणिनामभिधानम्, न तु बेदाश्रया मत्वर्थीयोत्पतिरित्याख्यायते। अव्यभिचारि सम्भन्धात् सतो भावः सतेति जातावेव भावप्रत्ययः। न हि सद्वस्तु सतासम्बन्धं व्यभिचरतीति सतासम्बन्धानपेक्षणाद् न सम्बन्धे प्रत्ययः। राजपुरुषयोस्तु सम्बन्धस्य कादचित्कत्वातदपेक्षो राजपुरुषशब्दः स्वार्थमभिधते इति ततः सम्भन्दे प्रत्ययो युक्तः। तस्मात्सत्सु पदार्थेषु नित्यसमवायिनि शब्दप्रवृत्तिहेतुः सतैव भावप्रत्ययवाच्या, न तु सत्सत्त्योः सम्बन्धः समवायाख्यः। धवखदिरत्वमिति जातिद्वन्द्वाज्जातिसमुदायः कुत्वमित्यादौ संज्ञास्वरूपे संज्ञिष्वध्यस्ते प्रत्ययः। अन्ये तु’संज्ञासंज्ञिसम्बन्धः’ इत्याहुः। उक्तं च - जातिगुणाज्जातिगुणे समासकृतद्विताच्च सम्बन्धे। डित्थादेः स्वे रूपे धवखदिराज्जातिसङ्घाते ॥ इति । इह तु नानात्वम्, सहत्वम्, यौगपद्यमित्यादौ वृत्तिविषये नानाशब्दोऽसहभूतेऽर्थे वर्तते, सहशब्दश्च सहभूते, युगपच्छशब्दोऽपि युगपद्भूते, ततोऽसहभावादौ भावप्रत्ययः। एवमन्यत्रापि यथासम्भवं द्रष्टव्यम्। इह न ब्राह्मणस्य भाव इति कयुगपद्भावेन नञर्थेन च सम्बन्धे विवक्षिते पूर्वं नञ्समासः, पश्चात्वतलौ, तेनाब्राह्मणत्वमब्राह्मणतेति सतिशिष्टत्वात्वप्रत्यये नञ्समासः, पश्चात्वतलौ तेनाब्राह्मणत्वं भवति, नाव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वम्। ननु परतावत्वतलौ प्राप्नुतः, न वा सापेक्षत्वाद्ब्राणार्थो यत्र नञर्थमपेक्षते। नञ्समांसोऽपि तर्हि न प्राप्नोति, ब्राह्मणस्य भावपेक्षत्वात् ? नैवम्; प्रधानमत्र ब्राह्मणपदम्, उतरपदार्थप्रधानो हि नञ्समासः। भवति च प्रधानस्य सापेक्षस्यापि समासः, यथा - राजपुरुषोऽभिरूप इति।’वा च्छन्दसि’ च्छन्दसि विषये क्वचित्पूर्वं त्वतलौ पश्चान्नञ्समासः - अयोनित्वाय, अशिथिलत्वाय। अत्र नञ्स्वर एव भवति, क्विचिद्विपर्ययः। त्वतल्व्यतिरिक्ते भावप्रत्ययो पूर्वं स एवेष्यते, पश्चान्नञ्समासः, तेनाप्रथिमेत्यादौ सति सिष्टत्वान्नञ्स्वर एव भवति। अशौक्ल्यमित्यादौ च नञः प्रकृतावनन्तर्भावाच्छुक्लशब्दादौ वृद्धिः पूर्व नञ्समासे’न नञ्पूर्वात्’ इति प्रतिषेधात् ष्यञेच न स्यात्, सत्यपि वा ष्यञि नञो वद्धैः स्यात् ? ज्ञापकात्सिद्धम्, यदयं युवादिषु पुरुषासे, हृदयामे इति नञ्समासे विषयभूते भावप्रत्ययप्रतिषेधं शास्ति, तज्ज्ञापयति - त्वतलापवादप्रत्ययो नञर्थापेक्षादपि परत्वान्नञ्समासं बाधित्वा भवतीति ॥
Nyaas¶
उपसर्गाः प्रादयः, ते चैवमात्मकाः। यत्र क्रियावाची शब्दः प्रयुज्यते, तत्र क्रियाया विशेषका भवन्ति - आगच्छति, प्रगच्छतीति। यत्र न प्रयुज्यते, तत्र समाधनक्रियावाचकाः - सङ्कटः, उत्कट इति। क्रियावाची शब्दः प्रादीनां वत्यन्तानां प्रयोगे न प्रयुज्यते। तेन साधनो धात्वर्थेः स्वार्थः। तेन साधने धात्वर्थे वर्तमानादुपसर्गात्? प्रत्ययो विज्ञायति इत्याह - समाधने धात्वर्थे इति। यदि ह्रेवमात्मका उपसर्गाः, धात्वर्थग्रहणं न कर्तव्यम्? सत्यमेतत्; तत्? क्रियते विस्पष्टार्थम्। उद्वतः, निवतः इति। उच्छब्दात्? निश्बदात् समाधने धात्वर्थे वतिः। ननु च वतेरव्ययसंज्ञकत्वाद्विभक्तेर्लुक्? प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्। अनित्यत्वं तु तस्याः सत्यमेतत्; तत्? क्रियते विस्पष्टार्थम्। `उद्वतः, निवतः इति। उच्छब्दात्? निशब्दात्? समाधने धात्वर्थे वतिः। ननु च वतेरवययसंज्ञकतवाद्विभक्तेर्लुक्? प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्। अनित्यत्वं तु तस्याः सर्वमिदं काण्डं स्वरादावपिं पठते इत्यादिनाऽव्ययसंज्ञाप्रकरण एव प्रतिपादितम्॥