51115: तेन तुल्यं क्रिया चेद्वतिः¶
Padacheda: तेन | S | 3 | 1 |
तुल्यम् | S | 1 | 1 |
क्रिया | S | 1 | 1 |
चेत् | S | 0 | 0 |
वतिः | S | 1 | 1 |
Sutrartha¶
‘तुल्यम् क्रियाम् करोति’ अस्मिन् अर्थे तृतीयासमर्थात् वति-प्रत्ययः भवति ।
‘तुल्यम्’ इत्युक्ते ‘समानम्’ (similar / comparable) । कस्यचन पदार्थस्य क्रिया केनचित् अन्येन सह समाना / तुल्या अस्ति, तर्हि तस्य पदार्थस्य निर्देशं कर्तुम् ‘येन सह तुल्यम्’ तस्मात् प्रातिपदिकात् ‘वति’ प्रत्ययः भवति । यथा - ‘अयम् देवदत्तः क्षत्रियः, परन्तु यथा ब्राह्मणः अध्ययनं करोति तथैव अयमपि करोति’ अस्मिन् अर्थे ‘देवदत्तः ब्राह्मणवत् अधीते’ इति प्रयोगः क्रियते । ‘ब्राह्मणेन तुल्यमधीते सः ब्राह्मणवत्’ - इति अत्र विग्रहवाक्यम् । अत्र अध्ययनक्रियायाः समानता / तुल्यभावः उक्तः अस्ति, अतः ‘वति’ प्रत्ययस्य प्रयोगः भवति । प्रक्रिया इयम् - ब्राह्मणेन तुल्यमधीते = ब्राह्मण + वति → ब्राह्मण + वत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति] → ब्राह्मणवत् तथैव - द्रोणः क्षत्रियवत् युद्ध्यति । आञ्जनेयः पवनवत् डयते । लक्ष्मणः रामवत् आचरति । विशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - तेन तुल्यं क्रिया चेद्वतिः (5.1.115), तत्र तस्येव (5.1.116), तदर्हम् (5.1.117), तथा च उपसर्गाच्छन्दसि धात्वर्थे (5.1.118) । एते चत्वारः अर्थाः सामान्यरूपेण ‘वत्यर्थाः’ नाम्ना ज्ञायन्ते । एतेभ्यः प्रथमः अर्थः वर्तमानसूत्रेण दीयते । ज्ञातव्यम् - 1. द्वयोः पदार्थयोः तुलना भिन्नैः प्रकारैः भवितुमर्हति । यथा - गुणस्य आधारेण, क्रियायाः आधारेण, द्रव्यस्य आधारेण - आदयः । एतेभ्यः केवलं क्रियायाः आधारेण तुलना क्रियते चेदेव वर्तमानसूत्रेण ‘वति’ प्रत्ययः क्रियते । गुणस्य आधारेण / द्रव्यस्य आधारेण तुलना भवति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - ‘अयम् देवदत्तः यज्ञदत्तेन तुल्यः स्थूलः’ अस्मिन् वाक्ये देवदत्त-यज्ञदत्तयोः तुलना ‘स्थुलता’ इति गुणमनुसृत्य कृता अस्ति, न हि क्रियामनुसृत्य । अतः अत्र ‘वति’ प्रत्ययः न प्रयुज्यते । इत्युक्ते, ‘देवदत्तः यज्ञदत्तवत् स्थूलः’ इति अशुद्धम् वाक्यमस्ति । तथैव, ‘अयम् देवदत्तः यज्ञदत्तेन तुल्यः धनिकः अस्ति’ अस्मिन् वाक्ये देवदत्त-यज्ञदत्तयोः तुलना ‘धनम्’ इति द्रव्यमनुसृत्य कृता अस्ति, न हि क्रियामनुसृत्य। अतः अत्रापि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । 2. तद्धितश्चासर्वविभक्तिः (1.1.38) अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति । इत्युक्ते, एतेभ्यः विहितः सुप्-प्रत्ययः अव्ययादाप्सुपः (2.4.82) इत्यनेन लुप्यति । यथा - अ) ब्राह्मणवत् आचरन्तम् देवदत्तम् रामः वदति । आ) ब्राह्मणवत् आचरता देवदत्तेन कार्यं क्रियते । इ) ब्राह्मणवत् आचरते देवदत्ताय धनम् ददामि । आदयः । 3. वति-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति । यथा - अ) राज्ञा तुल्यं शास्ते सः = राजन् + वति → राज + वत् [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] → राजवत् देवदत्तः राजवत् शास्ते - इत्युक्ते यथा राजा शासनं करोति तथैव देवदत्तः अपि करोति । आ) मरुता तुल्यं वहति सः = मरुत् + वत् → मरुद् + वत् [झलां जशोऽन्ते (8.2.39) इति पदान्त-तकारस्य दकारः] → मरुद्वत् हनुमान् मरुद्वत् वहति । स्मर्तव्यम् - ‘मरुत्वत्’ इति कश्चन भिन्नः शब्दः अस्ति । मरुत्-शब्दात् तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्यनेन मतुप्-प्रत्ययं कृत्वा ‘मरुत्वत्’ शब्दः जायते । अयम् ‘मरुत्वत्’ शब्दः अव्ययसंज्ञकः नास्ति । अस्य अर्थः अपि भिन्नः - ‘मरुत् अस्मिन् अस्ति तत् मरुत्वत्’ । ‘मरुत्वत्’ तथा ‘मरुद्वत्’ द्वयोर्मध्ये सम्भ्रमः न कदापि कर्तव्यः । विशेषः - एतादृशानाम् सूक्ष्मभेदानाम् सम्यक् अध्ययनार्थमेव व्याकरणमध्येतव्यम् इति पस्पशाह्निके भाष्यकारः वदति । 4. ‘वति’ प्रत्यये इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र इकारः केवलमुच्चारणार्थः स्थापितः अस्ति । किमर्थमयमावश्यकः ? यदि केवलम् ‘वत्’ इति प्रत्ययविधानम् क्रियते, तर्हि प्रत्ययान्ते विद्यमानस्य तकारस्य हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञा लोपश्च भवेत् - यः न इष्यते । अतः अस्य तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुमत्र इकारः स्थाप्यते । 5. तद्धिताधिकारे तस्यापत्यम् (4.1.92) इत्यस्मात् आरभ्य धान्यानां भवने क्षेत्रे खञ् (5.2.1) इति यावत् ये अर्थाः पाठ्यन्ते तेषु सर्वेषु ‘स्त्री’शब्दात् तथा ‘पुम्स्’ शब्दात् स्त्रीपुंसाभ्याम् नञ्स्नञौ भवनात् (4.1.87) अनेन सूत्रेण सर्वान् अपवादान् बाधित्वा ‘नञ्’ तथा ‘स्नञ्’ प्रत्ययौ एव भवतः । यथा - स्त्रीणामपत्यम् / समूहः / विकारः / .. = स्त्रैणम् । परन्तु ‘वति’प्रत्ययस्य ये चत्वारः अर्थाः प्रोक्ताः सन्ति, तेषाम् विषये एताभ्याम् शब्दाभ्याम् नञ्/स्नञ्-प्रत्ययौ बाधित्वा ‘वति’ प्रत्ययः एव भवति । अस्मिन् विषये अष्टाध्याय्यां विशिष्टं सूत्रं न विद्यते, परन्तु आचार्यः स्वयम् स्त्री पुंवच्च (1.2.66) तथा स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (6.3.34) एतयोः सूत्रयोः ‘पुंवत्’ शब्दस्य प्रयोगं करोति । एतदेव ज्ञापकम् स्वीकृत्य ‘स्त्री’ तथा ‘पुम्स्’ शब्दाभ्याम् चतुर्षु वत्यर्थेषु ‘वति’ प्रत्ययः उच्यते । यथा - स्त्रिया तुल्यम् चलति सः ‘स्त्रीवत्’ चलति, पुंसा तुल्यं भाषते सा पुंवत् भाषते - इति । ‘पुंवत्’ शब्दस्य प्रक्रिया इयम् - पुम्स् + वत् → पुम् + वत् [अङ्गस्य स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा । संयोगान्तस्य लोपः (8.2.23) इति सकारलोपः] → पुं + वत् [मोऽनुस्वारः (8.3.23) इति मकारस्य अनुस्वारः] → पुंवत् । 6. अग्रिमसूत्रे (तत्र तस्येव (5.1.116) इत्यत्र) वर्तमानसूत्रस्य विषये पदमञ्जरीकारः वदति - ‘तुल्यार्थैरिति या तृतीया तयेवशब्दयोगे सर्वे विभक्त्यर्था व्याप्ताः’ । इत्युक्ते, वर्तमानसूत्रेण निर्दिष्टम् क्रियातुल्यत्वम् यद्यपि तृतीयासमर्थात् उच्यते, तथापि ‘इव’ इति शब्दस्य प्रयोगं कृत्वा सर्वाः विभक्तयः अत्र तृतीयया उपलक्ष्यन्ते । यथा - [प्रथमा] - ब्राह्मण इव अधीते (studies like a brahmin) = ब्राह्मणेन तुल्यमधीते = ब्राह्मणवत् अधीते । [द्वितीया] - ब्राह्मणम् इव पश्यति (Sees someone as if he is a brahmin) = ब्राह्मणेन तुल्यम् पश्यति = ब्राह्मणवत् पश्यति । [तृतीया] - ब्राह्मणेन इव अधीतम् (Studied like a brahmin) = ब्राह्मणेन तुल्यमधीतम् = ब्राह्मणवत् अधीतम् । [चतुर्थी] - ब्राह्मणाय इव ददाति (Donates just like one would donate to a brahmin) = ब्राह्मणेन तुल्यम् ददाति = ब्राह्मणवत् ददाति । [पञ्चमी] - ब्राह्मणात् इव अधीते (Studies from someone as if he would study from a brahmin) = ब्राह्मणेन तुल्यमधीते = ब्राह्मणवत् अधीते । [षष्ठी] - ब्राह्मणस्य इव स्वम् (The existence / everything associated with a person is just like a brahmin) = ब्राह्मणेन तुल्यम् वर्तते = ब्राह्मणवत् वर्तते । [सप्तमी] - ब्राह्मणे इव वर्तते (Something exists in someone as if it would exist in a brahmin) = ब्राह्मणेन तुल्यम् वर्तते = ब्राह्मणवत् वर्तते ।
Vasu English Summary¶
The affix वति (वत्) comes after a word in the Instrumental -3rd case in construction, in the sense of ‘like that’ when the meaning is ‘similarity of action’.
Vasu English Translation¶
The affix वति (वत्) comes after a word in the Instrumental -3rd case in construction, in the sense of ‘like that’ when the meaning is ‘similarity of action’. As ब्राह्मणेन तुल्यं वर्तते = ब्राह्मणवत्, राजवत् ॥
Why do we say “action”? The affix will not be joined when the similarity is in ‘quality’. As पुत्रेणसह स्थूलः “as big as the son”, पुत्रेण तुल्यः पिङ्गलः ॥
Bhashya¶
तेन तुल्यं क्रिया चेद्वतिः (1997) (वतिप्रत्ययाधिकरणम्) (निर्देशाक्षेपभाष्यम्) इदमयुक्तं वर्तते। किमत्रायुक्तम्? यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवति-ःइत्युच्यते, कथं च तृतीयासमर्थं नाम क्रिया स्यात्॥ (समाधानभाष्यम्) नैष दोषः। सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते - ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। आतश्च गुणसमुदाये, एवं ह्याह - तपः श्रुतं च योनिश्च एतद् ब्राह्मणकारकम्। तपः श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥ 1 ॥ तथा गौरः शुच्याचारः पिङ्गलः कपिलकेश इत्येतानप्यभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति। समुदायेषु च शब्दा वृत्ता अवयवेष्वपि वर्तन्ते। तद्यथा - पूर्वे पञ्ञ्चालाः, उत्तरे पञ्ञ्चालाः। तैलं भुक्तम्, घृतं भुक्तम्। शुक्लः, नीलः, कृष्ण इति। एवमयं ब्राह्मणशब्दः समुदाये वृत्तोऽवयवेष्वपि वर्तते॥ (तृतीयासमर्थविशेषणे दोषदर्शकभाष्यम्) यदि तर्हि तृतीयासमर्थं विशेष्यते, प्रत्ययार्थोऽविशेषितो भवति। तत्र को दोषः? तृतीयासमर्थात् क्रियावाचिनो गुणतुल्येऽपि प्रत्ययः स्यात्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यः पिङ्गल इति॥ (प्रत्ययार्थविशेषणे दोषभाष्यम्) अस्तु तर्हि प्रत्ययार्थविशेषणम् - यत्तत्तुल्यं क्रिया चेत्सा भवतीति। एवमपि तृतीयासमर्थमविशेषितं भवति। तत्र को दोषः? तृतीयासमर्थादक्रियावाचिनः क्रियातुल्येऽपि प्रत्ययः प्राप्नोति॥ (प्रत्ययार्थविशेषणे दोषाभावबोधकभाष्यम्) नैष दोषः। यत्तत्तुल्यं क्रिया चेत्सा भवतीत्युच्यते। तुलया च संमितं तुल्यम्, यदि च तृतीयासमर्थमपि क्रिया, प्रत्ययार्थोऽपि क्रिया, ततस्तुल्यं भवति॥ (तृतीयासमर्थस्य विशेषणे दोषाभावबोधकभाष्यम्) अथ वा पुनरस्तु - यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवति - ःइत्येव। ननु चोक्तं प्रत्ययार्थोऽविशेषित इति। तत्र को दोषः? तृतीयासमर्थात् क्रियावाचिनो गुणतुल्येऽपि प्रत्ययः प्राप्नोति - पुत्रेण तुल्यः स्थूलः, पुत्रेण तुल्यः पिङ्गल इति। नैष दोषः। यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवतीत्युच्यते, तुलया च संमितं तुल्यम्। यदि च तृतीयासमर्थमपि क्रिया, प्रत्ययार्थोऽपि क्रिया, ततस्तुल्यं भवति॥ (सिद्धान्तभाष्यम्) किं पुनरत्र ज्यायः? प्रत्ययार्थविशेषणमेव ज्यायः। कुत एतत्? एवं चैव हि कृत्वाऽऽचार्येण सूत्रं पठितम्। वतिना सामानाधिकरण्यं कृतम्॥ (प्रत्ययार्थविशेषणे फलान्तरकथनभाष्यम्) अपि च वतेरव्ययेषु पाठो न कर्तव्यो भवति। क्रियायामयं भवन् लिङ्गसंख्याभ्यां न योक्ष्यते॥
Kashika¶
तेनेति तृतीयासमर्थात् तुल्यमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति, यत् तुल्यं क्रिया चेत् सा भवति। ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत्। राजवत्। क्रियाग्रहणं किम् ? गुणद्रव्यतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यः पिङ्गलः। पुत्रेण तुल्यो गोमान्॥
Siddhanta Kaumudi¶
ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥
Laghu Siddhanta Kaumudi¶
ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते । क्रिया चेदिति किम् ? गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥
Balamanorama¶
तेन तुल्यं क्रिया चेद्वतिः - अथ बावकर्मार्था निरूप्यन्ते । तेन तुल्यं । तुल्यमिति क्रियेत्यस्य विशेषणम् । सामान्याभिप्रायं नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः । तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राआहृणवदधीते इति । अत्रब्राआहृणव॑दित्युदाहरणम् ।ब्राआहृणेन तुल्यमधीते॑ इति विग्रहवाक्यम् । अत्र ब्राआहृणशब्देन ब्राआहृणकर्तृकाध्ययनं लक्ष्यते । ब्राआहृणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः । गुणतुल्ये इति । द्रव्यतुल्येऽपीति बोध्यम् । तेनचैत्रेण तुल्यो धनी देवदत्तः॑ इत्यादौ न भवति ।अयमेवं न तद्व॑दित्यादौ वतेः साधुत्वार्थमाहेति क्रियापदं प्रयुञ्जते वृद्धाः ।
Tattvabodhini¶
तेन तुल्यं क्रिया चेद्वतिः - तेन तुल्यं क्रिया चेद् बतिः ।तुल्य॑मिति सामान्ये नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिः स्याद्यत्तुल्यं क्रिया चेत्सा । ब्राआहृणेन तुल्यमिति । नन्वत्रब्राआहृणो यथा वर्तते तथा क्षत्रियादिकर्तृकाध्ययनं वर्तते॑ इति वाक्यार्थोऽसङ्गत इति चेत् । अत्राहुः — — ब्राआहृणशब्दस्यत्कर्तृकाध्ययने लक्षणया वर्तते ।ब्राआहृणकर्तृकाध्ययनतुल्याध्ययनं वाक्यार्थः॑इति न कोऽपि दोषः । गुणतुल्ये इति । उपलक्षणमिदम् । अक्रियातुल्य इत्यर्थः । एवं चब्राआहृणेन सदृशः क्षत्त्रियः॑इत्यर्थेब्राआहृणवत् क्षत्त्रियः॑इति प्रयोगोऽसाधुरेव [इति] । अतएवपर्वतो वह्निमान्महानवसदि॑ति वाक्येमहानससदृशः पर्वतः॑इत्यर्थे वतेरसाधुत्वं मत्वा तस्य वतेः साधुत्वरक्षमार्थंपर्वतो वह्निमान्भवितुमर्हती॑त्यादि क्रियापदं प्रयुज्यते वृद्धाः ।
Padamanjari¶
यततुल्यं क्रिया चेत्सा भवतीति। एतेन समानविभक्तिकत्वात्प्राधान्याच्च र्प्त्ययार्थस्य विशेषणं क्रियाग्रहणमिति दर्शयति। निर्देशानुरोधे तु प्रथमनिर्दिष्टस्य प्रकृत्यर्थस्य विशेषणे भिन्नविभक्तिकत्वाद्वाक्यशेषेऽध्याहार्यः स्यात् - यतत् तृतीयासमर्थं क्रिया चेत्सा भवतीति। तुल्यमित्ये तच्च प्रथमान्तम्, न क्रियाविशेषणत्वेन यदाह - तुल्यमित्येतस्मिन्नर्थे इति। तस्य विशेषणं क्रियाग्रहणम्। सामान्योपक्रमत्वातु’हितं भक्षाः’ इतिवतुल्यमिति नपुंसकनिर्द्देशः। ब्राह्णणेन तुल्यं वर्तत इति। ननु ब्राह्मणशब्देन जातिर्द्रव्यं वोच्येत, न ताभ्यां क्रियायास्तुल्यत्वम्; अत्यन्तभेदात्। यत्र तु किञ्चित्सामान्यम्, कश्चिच्च विशेषः, स एव विषयस्तुल्यतायाः। स्यादेतत् - ब्राह्मणसहचरितायामध्ययनीदिकायां क्रियायां ब्राह्मणशब्दस्य वृत्तिः- ब्राह्णणेन तुल्यं वर्तते, कोऽर्थः ? यथा व्राह्णणो वर्तते तथा वर्तत इत्यर्थः। वर्तनमुअध्ययनादिक्रियानुष्टानम्, तेन युक्तमेव तुल्यत्वमिति। एवमपि मुख्ये सन्भवति गौणस्य ग्रहणं युक्तम्। कः पुनर्मुख्यः ? क्रियावाची। पचत्यादीनां तावत्क्रियावाचिनामप्रातिपदिकत्वादसत्वभूतार्थाभिधायित्वाच्च तृतीयासमर्थत्वं न सम्भवति। अव्ययकृतानां तु - कृत्वा, हृत्वा, कर्तुम्, हर्तुमित्येवमादीनां यद्यपि क्रियावाचित्वम्, यथा पञाचकृत्वः कृत्वेति कृत्वोऽर्थोत्पतिर्भिवति; तथाप्यसत्वभूतार्थाभिधायित्वाततीयान्तत्वाभावः घञादयश्च दात्वर्थस्य सिद्धतायां भवन्तः सत्वभूतार्थाभिधायिनो न क्रियावचनाः। अत एव हि तत्र कृत्वोऽर्थप्रत्ययाभावः। न हि भवति पञ्चकृत्वः पाक इति, भवति तु पञ्चपाका इति। यथा पञ्चघटा इति भवति, न तु भवति पञ्चकृत्वो घट इति। भोक्तुअं पाक इत्यादौ धातुवाच्यक्रियोपेक्षस्तुमुन्प्रत्ययः। घृतपाकेन तुल्यस्तैलपाक इत्यादिरपि विषयो न भवति। ननु पञ्चकृत्वः शयितव्यमिति कृत्वसुचो देवनाच्छयितव्यादयः क्रियावचनाः, ततः किम् ? राजशयितव्येन तुल्यं देवदतशयितव्यमित्यादिरवकाशः स्यत्, तता स्खथातव्येन तुल्यं गमनं मन्दत्वात्, तथा नर्तितव्येन तुल्यं गमनं वहुविकारत्वादिति, तता भोकग्तुं पाक इत्यादौ यथा प्रकृतिवाच्यक्रियापेक्षस्तुमुन् भवति, तथा धृतपाकेन तुल्यस्तैलपाक इत्यदौ वतिरपि स्यादिति सोऽप्यवकाशः; तदेवं प्रत्ययार्थविशेषणेऽपि क्रियाग्रहणे सामर्थ्यात्प्रकृत्यर्थोऽपि क्रियैव भवति, न ह्यक्रियया क्रिया तुल्या भवतीति क्रियावाचिभ्य एव वतिना भवितव्यं प्रकृत्यर्थविशेषणे सुतरामिति कथं क्लेशेन क्रियायां वर्तितेभ्यस्तेभ्यो ब्राह्मणादिभ्यः प्रत्ययः ? उच्यते; येनोपमीयते, यश्योपमीयते, यश्च तयोः साधारणो धर्मः - एत्रयमप्यपेक्ष्योपमानोपमेयभावः प्रवर्तते। तत्र यदा क्रियोपमानत्वेन विवक्ष्यते, तदा सावश्यापेक्ष्यसाधारणधर्माधारत्वात्क्रियारूपातां हित्वा सत्वरूपतां प्रपद्यते, ततश्च सामर्थ्याद् भूतपूर्वगत्याश्रयणम् - यस्यार्थस्य क्रियारूपतापूर्वमभूत् सम्प्रति क्रियारूअपातिक्रमेण सत्वभावापन्नोऽपि तृतीयान्तवाच्यः परिगृह्यते। तदेवं सम्प्रति मुख्यक्रयावाच्यिसम्भवाद् भूतपूर्वक्रियारूपार्थवाचिनः शयितव्यादयोऽपि गौणा एव। गौणं च क्रियावाचित्वं ब्राह णादीनामपि सम्भवतीति तेभ्योऽपि भवति प्रत्ययः। तेषां तु न कस्याञ्चिदपि दशायां मुख्यक्रियावाचित्वमित्येतावाÄस्तु विशेषः। यदि तर्हि क्रिययोस्तुल्यत्वले प्रत्ययः ब्राह्मणाध्ययनेन तुल्यमध्ययनं करोति ब्राह्मणवदधीत इत्यन्यः साधारणो धर्मोऽपेक्षणीयः स्यात्। तस्माद् द्रव्ययोरेव तुल्यत्वे प्रत्ययः, क्रिया तु साधारणो धर्म इति युक्तम्। न युक्तम्; एवं हि यथा ब्राह्मणेन तुल्यः क्षत्रियोऽध्ययनेनेति, द्रव्यस्य लिङ्गसंख्यायोगित्वात्। स्वरादिषु पाठाद्भविष्यति ? इहपि तर्हि प्राप्नोति-उपसर्गोच्छन्दसि धात्वर्थे य उद्वतो निवतो यासि। किञ्च पाठाद्भवतु संज्ञा, लिङ्गसंख्याकारकशक्तियोगस्तु केन वार्यते - स्वः पश्येत्यादिवत् ! लौकिके च प्रयोगे क्रिययोरेव सादृश्यं प्रतीयते, न तद्वतोर्देअरव्ययोः। यत्पुनरुक्तम् - साधारणो धर्मोऽपेक्षणीयः स्यादिति ? नैष दोषः; चन्द्र इव मुखमस्या इत्यादौ यथा शब्दानुपाता अपि कान्त्यादयः प्रतीयन्ते, तथात्रापि सौष्ठवादयः प्रत्येष्यन्ते। तस्मात्सुष्ठूअक्तम् - यततुल्यं क्रिया चेत्सा भवतीति। गुणतुल्य इति। गुणैस्तुल्य इति ?’पूर्वसदृश’ इति तृतीयासमासः। पुत्रेण तुल्यः स्यूल इति। पुत्रस्य यादृशं स्थौल्यं पितुरपि तादृशमित्यर्थः ॥
Nyaas¶
तुल्यम् इति। कर्मपदमेतत्, क्रियाविशेषणत्वात्। प्रतिपादितं हि प्राक्? क्रियाविशेषणानां कर्मत्वम्? स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (2.1.39) इति सूत्रे। ब्राआहृणेन तुल्यं वर्तते ब्राआहृणवत् इति। का पुनरत्र क्रिया? ब्राआहृणेन तुल्यं वर्तते क्षत्रियादिगता अध्ययनादिका। ननु च तस्या ब्राआहृणनिष्ठयाऽध्ययनादिक्रिययैव तुल्यता। न च तां ब्राआहृणशब्द आह। किं तर्हि? जातिं द्रव्यं वा। न च ताभ्यां क्रियया तुल्यत्वम्; स्वभावभेदात्। यत्र हि किञ्चित् सामान्यम्, कश्चिद्विशेषः, स विषयस्तुल्यतायाः इह त्वत्यन्तभेद एव? नैष दोषः; यद्यपि ब्राआहृणादिशब्दैः क्रिया नोच्यते, तथाप्यभिधेयसम्बन्धेन प्रतीयते, यथा - गुडः इत्युक्ते गुडेनानभिधीयमाना अपि माधुर्यादयः। तत्र ब्राआहृणादिशब्देन योऽर्थ उच्यते तेन तुल्यत्वं क्रियाया न सम्भवति। उच्यते चेदं वचनसामर्थ्यात्। यासावभिधेयन ब्राआहृणेन क्रिया गम्यते तया तुलप्याता विज्ञास्यते। ननु च तृतीयासमर्थविभक्तिवाच्यया क्रिययैव प्रत्ययार्थक्रियायास्तुल्यता, तस्याश्च घञन्तोऽवकाशः - तैलपाकेन तुल्यो घृतपाक इत्यादि? नैषोऽस्त्यवकाशः; घात्वर्थो हि क्रिया, सा च पूर्वापरीभूता। अथ वा - असत्त्वभूता। न च तस्यां घञादयो भवन्ति, क्व तर्हि? तस्यैव धात्वर्थस्य धर्मे सिद्धतायामेव। घात्वर्थस्यापि घञादिस्थाया भिद्यते। तत्कथं घञादीनामर्थः क्रियेति शक्यते वक्तुम्? न च तया घञादिवाच्यसिद्धतया द्रव्यगतायास्तुल्यता। न हि द्रव्यभूतेनासत्त्वभूतस्य वस्तुतुल्यतोपपद्यत इत्यतो नास्ति वचनस्यावकाशः। यदि तर्हि क्रिया घञादिभिर्नाभिधीयते - कर्तुं गमनम्, भोक्तुं पाकः, करकस्य व्रजतीति तुमुण्णवुलौ क्रियायं क्रियार्थायाम् (3.3.10) इति तुमुण्ण्वुलौ न प्राप्नुतः? नैष दोषः; यदत्र प्रकृतिरूपं तस्य क्रियैवार्थ इति तदाश्रयौ तुमुण्ण्वुलौ भविष्यत इत्यलमतिप्रसङ्गेन॥
Sutra Prayogas¶
पुंवत् (रघुवंशम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
लोहवत् (कुमारसम्भवम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
पतङ्गवत् (कुमारसम्भवम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
जनवत् (किरातार्जुनीयम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
पुंवत् (शिशुपालवधम्): तेन तुल्यं क्रिया चेत् इति वतिः।
इतराङ्गवत् (शिशुपालवधम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
नरान्तरवत् (शिशुपालवधम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
प्रौढयोषिद्वदस्य (शिशुपालवधम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
बीजवत् (शिशुपालवधम्): तेन तुल्यं क्रिया चेद्वतिः इति तुल्यार्थे वतेर्विधानात्।
नवघनवत् (शिशुपालवधम्): तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः।
यविष्ठ-वद् (भट्टिकाव्यम्): तेन तुल्यम् इति वतिः।
आत्म-वत् (भट्टिकाव्यम्): तेन तुल्यम् इति वतिः।