51110: विशाखाषाढादण् मन्थदण्डयोः¶
Padacheda: विशाखा-आषाढात् | S | 5 | 1 |
अण् | S | 1 | 1 |
मन्थ-दण्डयोः | S | 7 | 2 |
Sutrartha¶
‘अस्य प्रयोजनम्’ अस्मिन् अर्थे प्रथमासमर्थात् ‘विशाखा’ शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च ‘आषाढा’ शब्दात् दण्डस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।
प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् ‘अस्य’ इत्यस्मिन् अर्थे प्रयोजनम् (5.1.109) इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण ‘विशाखा’ शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च ‘आषाढा’ शब्दात् दण्डस्य निर्देशं कर्तुमण्-प्रत्ययः भवति । क्रमेण पश्यामः - 1) ‘विशाखा’ शब्दात् ‘मन्थ’ (मन्थनार्थे प्रयुक्तः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । विशाखा प्रयोजनमस्य सः वैशाखः मन्थः । सः दण्डः यः मन्थनार्थम् विशाखानक्षत्रे प्रयुज्यते, सः वैशाखः मन्थः । 2) ‘आषाढा’ शब्दात् ‘दण्ड’ (मुनीनाम् हस्ते अस्ति सः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । आषाढा प्रयोजनमस्य सः आषाढः दण्डः । आषाढानक्षत्रे प्रयुज्यमानः दण्डः ‘आषाढः’ इति संज्ञां प्राप्नोति । स्मर्तव्यम् - ‘वैशाखः मन्थः तथा आषाढः दण्डः - एतौ द्वौ विशिष्टौ संज्ञावाचकशब्दौ स्तः । कस्यचन विशिष्टस्य मन्थस्य नाम ‘वैशाख’ इति अस्ति; तथा च कस्यचन विशिष्टस्य दण्डस्य नाम ‘आषाढः दण्डः’ इति वर्तते । एतयोः शब्दयोः व्युत्पत्यर्थमस्य सूत्रस्य निर्माणम् कृतमस्ति । अत्र वार्त्तिकमेकं ज्ञातव्यम् - <!चूडादिभ्यः उपसंख्यानम्!> - ‘चूडा’ तथा ‘श्रद्धा’ - एताभ्यां शब्दाभ्यां ‘प्रयोजनम्’ अस्मिन् अर्थे अण् प्रत्ययः भवति । चूडा प्रयोजनमस्य चौडम् । श्रद्धा प्रयोजनमस्य तत् श्राद्धम् ।
Vasu English Summary¶
The affix अण् comes in the sense of ‘that whose purpose is this’ after the words 1. विशाखा and 2. आषाढ when the derivative of the first is combined with मन्य and that of the second with दण्ड।
Vasu English Translation¶
The affix अण् comes in the sense of ‘that whose purpose is this’ after the words 1. विशाखा and 2. आषाढ when the derivative of the first is combined with मन्य and that of the second with दण्ड। As वैशाखो मन्थः, आषाढो दण्डः ॥
Vart:- So also after the words चडा &c. As चडा प्रयोजनमस्य = चौडम्, श्रद्धा प्रयोजनमस्य = श्राद्धम् ॥
Kashika¶
विशाखाषाढाशब्दाभ्यामण् प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये यथासंख्यं मन्थदण्डयोरभिधेययोः। विशाखा प्रयोजनमस्य वैशाखो मन्थः। आषाढो दण्डः॥ चूडादिभ्य उपसंख्यानम्॥ चूडा प्रयोजनमस्य चौडम्। श्रद्धा प्रयोजनमस्य श्राद्धम्॥
Siddhanta Kaumudi¶
आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ।<! चूडादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ चूडी, चौडम् । श्रद्धा, श्राद्धम् ॥
Balamanorama¶
विशाखाऽऽषाढादण् मन्थदण्डयोः - विशाखाषाढात् । विशाखाशब्दादाषाढशब्दाच्च प्रथमान्तादस्य प्रयोजनमित्यर्थे अण् स्यात्, समुदायेन मन्थे दण्डे च क्रमाद्गम्ये सतीत्यर्थः । तदाह — आब्यामिति । स्थूणामेका निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्य तयो रज्ज्वोर्मन्थनदण्ड ऊध्र्वमासज्यते । येन रज्ज्वा भ्रामितेन दधि विलोडते इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोर्वैशाखशब्द आषाढशब्दश्च रूढौ । तत्रावयवार्थाभिनिवेशो न कर्तव्यः । चूडादिभ्य इति । चूडादिभ्यः प्रतमान्तेभ्योऽस्य प्रयोजनमित्यर्थे अणित्यर्थः । चौडमिति । चूडाप्रयोजनमस्येति विग्रहः । डलयोरभेदाच्चौलमित्यपि । श्राद्धमिति । श्रतद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्धमित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची । श्रद्धाहेतुकमिति यावत् ।
Padamanjari¶
विशाखा प्रयोजनमस्येति। विशाखाषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते, तयोर्यथाकञ्चिद्व्युत्पत्तिः क्रियते। मन्थःउविलोडनदण्डः। आषाढःउव्रतीनां दण्डः। श्रद्धा प्रयोजनमस्येति। अत्र करणं प्रयोजनम् ॥
Nyaas¶
ठञपवादो योगः। मन्थोऽवक्षारो विलोडनदण्डो वा॥
Prakriyasarvasvam¶
विशिष्टा शाखा विशाखा । सा कारणमस्येति वैशाखो मन्थालयः । आषाढः पालाशदण्डः । ‘चूडादेरण् वाच्यः’ ॥ (वा० ५-१-११०) ॥ चूडा प्रयोजनमस्येति चौलं कर्म । केलिफलः कैलो देशः । श्रद्धाहेतुकं श्राद्धं कर्म ॥
Vartika¶
चूडादिभ्य उपसंख्यानम् ।
Sutra Prayogas¶
अथाजिनाषाढधरः (कुमारसम्भवम्): विशाखाषाढादण्मन्थदण्डयोः इत्यण्प्रत्ययः।
क्षिप्तवैशखशैले (शिशुपालवधम्): विशाखाषाढादण्मन्थदण्डयोः इत्यण्प्रत्ययः।