51107: कालाद्यत्¶
Padacheda: कालात् | S | 5 | 1 |
यत् | S | 1 | 1 |
Sutrartha¶
‘अस्य प्राप्तम्’ अस्मिन् अर्थे प्रथमासमर्थात् ‘काल’शब्दात् यत् प्रत्ययः भवति ।
प्रथमासमर्थात् ‘काल’शब्दात् ‘प्राप्तः’ (निकटः आगतः) अस्मिन् अर्थे ‘यस्य कालः प्राप्तः’ तस्य निर्देशं कर्तुम् यत् प्रत्ययः भवति । यथा - कालः प्राप्तः अस्य तत् काल्यम् शीतम्, काल्यः तापः, काल्या वर्षा ।
Vasu English Summary¶
The affix यत् (यं) comes in the same sense of ‘time has come for it’ after the word काल।
Vasu English Translation¶
The affix यत् (यं) comes in the same sense of ‘time has come for it’ after the word काल। As काल्यस्तापः, काल्यं शीतं ॥ See (6.1.213).
Kashika¶
कालशब्दाद् यत् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विषये। कालः प्राप्तोऽस्य काल्यस्तापः। काल्यं शीतम्॥
Siddhanta Kaumudi¶
कालः प्राप्तोऽस्य काल्यं शीतम् ॥
Balamanorama¶
कालाद्यत् - कालाद्यत् । तदस्य प्राप्तमित्येव । प्रतमान्तात्कालशब्दादस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम् । कल्यमेव काल्यं वा ।
Tattvabodhini¶
कालाद्यत् - काल्यं शीतमिति ।प्रत्यूषोऽहर्मुखं कल्य॑मित्यमरः । तत्र प्रातःकाले काल्यशब्दस्य व्युत्पत्त्यन्तरं मृग्यम् ।
Padamanjari¶
काल्यस्ताप इति। प्रातःकाले काल्यशब्दस्य व्युत्पत्यन्तरं मृग्यम् ॥
Prakriyasarvasvam¶
कालः प्राप्तोऽस्येति काल्यं कर्म ॥