Sutras 141 - 160¶
- 43141: पलाशादिभ्यो वा
- 43142: शम्याष्ट्लञ्
- 43143: मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः
- 43144: नित्यं वृद्धशरादिभ्यः
- 43145: गोश्च पुरीषे
- 43146: पिष्टाच्च
- 43147: संज्ञायां कन्
- 43148: व्रीहेः पुरोडाशे
- 43149: असंज्ञायां तिलयवाभ्याम्
- 43150: द्व्यचश्छन्दसि
- 43151: नोत्वद्वर्ध्रबिल्वात्
- 43152: तालादिभ्योऽण्
- 43153: जातरूपेभ्यः परिमाणे
- 43154: प्राणिरजतादिभ्योऽञ्
- 43155: ञितश्च तत्प्रत्ययात्
- 43156: क्रीतवत् परिमाणात्
- 43157: उष्ट्राद्वुञ्
- 43158: उमोर्णयोर्वा
- 43159: एण्या ढञ्
- 43160: गोपयसोर्यत्