43154: प्राणिरजतादिभ्योऽञ्

Padacheda: प्राणि-रजत-आदिभ्यः | S | 5 | 3 |

अञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अञ् comes in the sense of ‘product or part’ after the words expressing living beings and after रजत etc.

Vasu English Translation

The affix अञ् comes in the sense of ‘product or part’ after the words expressing living beings and after रजत etc. This debars अण् &c. The affix अञ् has been ordained to come after those words that have anudatta in the beginning. This sutra applies to words other than those having anudatta in the beginning.

Thus:– कापोतम् , मायूरम्, तैत्तिरम्; राजतम्, सैसम्; लौहम्, &c. In the class रजतादि those words like रजत, कण्टकार &c, which have anudatta on the beginning and would have taken अञ् by (4.3.140), have been enumerated to prevent the application of मयट् to them.

1 रजत, 2 सीस, 3 लोह, 4 उदुम्बर, 5 नीप (नीच, नील), 6 दारु, 7 रोहीतक (रोहितक), 8 विभीतक, 9 पीतदारु (कपीत, दारु), 10 तीव्रदारु, 11 त्रिकण्टक, 12 कण्टकार.

Kashika

प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणादीनामपवादः। अनुदात्तादेरञ् (४.३.१४०) विहित एव, परिशिष्टमिहोदाहरणम्। प्राणिभ्यस्तावत् — कापोतम्। मायूरम्। तैत्तिरम्। रजतादिभ्यः — राजतम्। सैसम्। लौहम्। रजतादिषु येऽनुदात्तादयः पठ्यन्ते रजतकण्टकारप्रभृतयः, तेभ्योऽञि सिद्धे पुनर्वचनं मयड्बाधनार्थम्॥ रजत। सीस। लोह। उदुम्बर। नीलदारु। रोहितक। बिभीतक। पीतदारु। तीव्रदारु। त्रिकण्टक। कण्टकार। रजतादिः॥

Siddhanta Kaumudi

शौकम् । बाकम् । राजतम् ॥

Balamanorama

प्राणिरजतादिभ्योऽञ् - प्राणिरजतादिभ्योऽञ् । शौकंबाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः ।प्राणिना कुर्पूर्व॑मित्याद्युदात्तत्वात्अनुदात्तादेश्चे॑त्यञो न प्राप्तिः । राजतमिति । अनुदात्तादित्वादञि सिद्धे मयड्बाधनार्थमञ्विधिः ।

Tattvabodhini

प्राणिरजतादिभ्योऽञ् - प्राणि । अनुदात्तादेरञः सिद्धत्वात्परिशिष्टमिहोदाहरणं । तदाह -शौकं बाकमिति । शुकबकशब्दौप्राणिनां कुपूर्वाणा॑मित्याद्युदात्तौ । राजतमिति । रजत सीस उदुम्बर कण्ट कारेत्यादयो रजतादयः । तेषु अनुदात्तादीनां पुनः पाठो मयड्बाधनार्थः । अन्यथा हि परत्वान्मयट् स्यादेव ।

Padamanjari

अणादीनामिति । आदिशब्देन मयड् गृह्यते, बहुवचनं तु पूर्ववत् । तत्राद्यौदातेभ्यः प्राणिशब्देभ्योऽणोऽपवादः, वृद्धेभ्यो मयटः, रजतादिष्वपि यदाद्यौदातं तस्मादणोऽपवादः अनुदातादेश्तु मयटः । कापोतम्, मायूरम्, तैतिरमिति । तितिरिशब्दस्तरतेः’ सन्वच्चाभ्यासस्य’ इति किप्रत्ययान्तोऽन्तोदातः, शेषौ’लघावन्ते’ इति मध्योदातौ । परिशिष्टमिहादाहरणमिति चोक्तम्, तस्माच्छुक-बक-गृधादय इहोदाहार्याः । शुकबकशब्दौ’प्राणिनां कुपूर्वाणाम्’ इत्याद्यौदातौ । गृध्रशब्दो रन्प्रत्ययान्त आद्यौदातः । कथं तर्हि कापोतमित्याद्यौदाहृतम्, सत्युदातार्थे प्राणिग्रहणेऽनुदातादेरपि प्राणिनः परत्वादनेनैवाञ्भवितुमर्हतीति मन्यते, आह च ठनुदातादेरञः प्राण्यञ्विप्रतिषेधेनऽ इति ? कः पुनरत्र विशेषस्तेन वा सत्यनेन वा ? सापवादकः स विधिर्मयटा परेण बाध्यते, अयं पुनर्निरपवादः, अनेनैव हि परत्वान्मयड् बाध्यते । किं सिद्धं भवति ? श्वाविधो विकारः शौवाविध इति सिद्धं भवति । कथं सिद्धं भवति ? श्वानं विध्यतीति क्विप्,’नहिवृत्ति’ इति दीर्घः, ग्रहिज्यादिसम्प्रसारणम्, कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वादनुदातादिः । तत्रानउदातलक्षणस्याञो बाधकं मयट्ंअ परत्वादयमञ् बाधते, द्वारादित्वाद्वृद्धिप्रतिषेधः, ऐजागमश्च ॥

Nyaas

अणादीनामपवादः इति। आदिशब्देनाञादीनां ग्रहणम्। संख्यापि परिमाणग्रहणेन गृह्रते इति। कथं पुनरेतल्लभ्यते, यावता परिमाणशब्दः प्रस्थादिषु रूढः, न संख्यायाम्? नैष दोषः; यथैव हि प्रस्थादिपरिच्छेदहेतुस्तथा संख्यापि। अत उपमानात् संख्यायामपि परिमाणशब्दो वर्तिष्यते परिमाणमिव परिमाणमिति। नन्वेवं मुख्ये सति गौणग्रहणमयुक्तम्? अयमत्र दोषः - इह हि तन्त्रेण द्वौ परिमाणशब्दावुच्चारितौ, तत्र द्वितीयं पदमुदात्तम्, तेन संख्यापि गृह्रते। नैष्किकम् इति। प्राग्वतेष्ठञ्` (5.1.18) । शत्यः, शतिकः इति। शताच्च ठन्यतावशते (5.1.21) । सहरुआम् इति। शतमानविंशतिकसहरुआवतनादण् (5.1.27) ।अध्यर्धपूर्व (5.1.28) इत्यादिना सादृशष्यार्थे वतौ सति यदिष्टं सम्पद्यते तद्दर्शयति। आदिशब्देन प्रकृत्यादिपरिग्रहः। द्विसहरुआम् इति। द्वयोः सहरुआयोर्विकार इति तद्धितार्थे द्विगुः। प्राग्वतेः संख्यापूर्वपदात् तदन्तविधिरलुकि (5.1.20 वा।) इति तदन्तविधिरभ्यनुज्ञानाद्यथा क्रीतार्थे शतमानविंशतिकसहस्रवसनादण् (5.1.27) इति पक्षे लुग्भवति, ततेहापि। द्विसाहरुआम् इति। संख्यायाः संवत्सरपूर्वस्य (7.3.15) इत्युत्तरपदवृद्धिः। दविनिष्कः इति। यथा क्रीतार्थे निष्कशब्दात् प्राग्वतेष्ठञ् (5.1.18) भवति तस्य द्वित्रिपूर्वान्निष्कात् (5.1.30) इति पक्षे लुक्, तथेहापि। द्विनैष्किकम् इति। परिमाणान्तस्यासंज्ञान्नाणयोः (7.3.17) इत्युत्तरपदवृद्धिर्भवति॥

Prakriyasarvasvam

प्राणिभ्यो रजतादिभ्योऽप्यञ् स्यादुक्तार्थयोर्द्वयोः । शौकं च शौवमस्यैच् स्यादनण्त्वाच्च टिलोपिता ।। २६३ ।। एवं राजतम् । हैमम् । काञ्चनी पुरी । सैसम् लौहम् । औदुम्बरमित्यादि ।।

Sutra Prayogas

  • राजतगण्डशैलः (शिशुपालवधम्): प्राणिरजतादिभ्योऽञ् इत्यञ्प्रत्ययः।

  • हैमी (भट्टिकाव्यम्): प्राणिरजतादिभ्योऽम् इति हेमविकारा हैमी।

  • काञ्चनीम् (भट्टिकाव्यम्): प्राणिरजतादिभ्यो ऽञ् इति अञ्।