43155: ञितश्च तत्प्रत्ययात्¶
Padacheda: ञितः | S | 5 | 1 |
च | S | 0 | 0 |
तत्-प्रत्ययात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अञ् comes in the sense of ‘product or part’ after a word which ends in an affix having an indicatory ञ् , such affix denoting ‘its product or part’.
Vasu English Translation¶
The affix अञ् comes in the sense of ‘product or part’ after a word which ends in an affix having an indicatory ञ् , such affix denoting ‘its product or part’. The affixes having indicatory ञ denoting product or part, are अञ् (4.3.139), टलञ् (4.3.142), अञ् (4.3.154) वुञ् (4.3.157), ढञ् (4.3.159), अञ्, यञ् (4.5.168). When a tertiary derivative of a word ending with these affixes is to be made, the affix अञ् is used. Thus दैवदारवस्य विकारोऽवयवो वा = दैवदारवम्; so also दाधित्थम्, पालाशम्, शामीलम्, कापोतम् औष्ट्रकम्, ऐणेयम्, कांस्यम्, पारशवम् ॥
Why do we say ञितः ? Witness बैल्वमयं. Here मयट् is used after बैल्व and the derivative is formed by अण् of (4.3.136). So also बैदमयम् ॥
Bhashya¶
ञ्ञितश्च तत्प्रत्ययात् (1724) (अञ्ञोऽधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? (5539 समाधानवार्तिकम्॥ 1 ॥) - विकारावयवयोर्विकारावयवयुक्तत्वान्मयट्प्रतिषेधार्थं ञ्ञितश्च तत्प्रत्ययादञ्ञो विधानम् - (भाष्यम्) विकारो विकारेण युज्यते, अवयवेनावयवः। विकारावयवयोर्विकारावयवयुक्तत्वान्मयट् प्राप्नोति। इष्यते चाञ्ञेव स्यादिति। तच्चान्तरेण यत्नं न सिद्ध्यतीति मयट्प्रतिषेधार्थं ञ्ञितश्च तत्प्रत्ययादञ्ञो विधानम्। एवमर्थमिदमुच्यते॥ (5540 समाधानाक्षेपवार्तिकम्॥ 2 ॥) - न वा दृष्टो ह्यवयवे समुदायशब्दो विकारे च प्रकृतिशब्दस्तस्मान्मयडभावः - (भाष्यम्) न वैतत्प्रयोजनमस्ति। किं कारणम्? दृष्टो ह्यवयवे समुदायशब्दः, तद्यथा -पूर्वे पञ्ञ्चालाः। उत्तरे पञ्ञ्चालाः। तैलं भुक्तम्। घृतं भुक्तम्। शुक्लः, नीलः, कृष्ण इति। विकारे च प्रकृतिशब्दः। विकारे च प्रकृतिशब्दो दृश्यते। तद्यथा -शालीन् भुङ्क्ते मुद्गैः, शालिविकारं मुद्गविकारेणेति। (प्रत्याक्षेपभाष्यम्) नैतद्विवदामहे -अवयवे समुदायशब्दोऽस्ति नास्तीति, विकारे वा प्रकृतिशब्द इति। किं तर्हि? विकारावयवशब्दोऽपि त्वस्ति, तत उत्पत्तिः प्राप्नोति॥ (5541 प्रत्याक्षेपनिराकरणवार्तिकम्॥ 3 ॥) - विकारावयवशब्दात्प्रसङ्ग इति चेन्न तेनानभिधानात् - (भाष्यम्) विकारावयवशब्दात् प्रसङ्ग इति चेत्तन्न। किं कारणम्? तेनानभिधानात्। न हि विकारावयवशब्दादुत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं स्यात्। अनभिधानात्तत उत्पत्तिर्न भविष्यति॥ तच्चावश्यमनभिधानमाश्रयितव्यम्॥ (5542 आक्षेपवार्तिकम्॥ 4 ॥) - अभिधाने ह्यन्यतोऽपि मयट्प्रसङ्गः - (भाष्यम्) अभिधाने सत्यन्यतोऽपि मयट् प्रसज्येत। बैल्वस्य विकार इति॥ (5543 सिद्धान्त्येकदेशिवार्तिकम्॥ 5 ॥) - तस्मात्तत्प्रत्ययान्ताल्लुग्वचनम् - (भाष्यम्) तस्मात्तत्प्रत्ययान्ताल्लुग्वक्तव्यः॥ (सिद्धान्तभाष्यम्) यदि लुगुच्यते, कथं गौमयं भस्म, द्रौवयं मानम्, कापित्थो रसः? इति। अन्यत्र गोमयाद् द्रुवयात् फलाच्च लुग्वक्तव्यः॥ इह तर्हि -औष्ट्रकी, अञ्ञन्तादितीकारो न प्राप्नोति। इष्टमेवैतत्संगृहीतम्, औष्ट्रिकेत्येव भवितव्यम्। इह हि सौनागाः पठन्ति -वुञ्ञश्चाञ्ञ्कृतप्रसङ्ग इति॥ इह तर्हि -पालाशी समिदित्यनुपसर्जनलक्षण ईकारो न प्राप्नोति। मा भूदेवम् -अञ्ञ् योऽनुपसर्जनमिति, अञ्ञन्तादनुपसर्जनादित्येवं भविष्यति। नैवं शक्यम्। इह हि दोषः स्यात् -काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी तामधीते काशकृत्स्ना ब्राह्मणीति, अणन्तादितीकारः प्रसज्येत। तस्मादस्तु न तेनानभिधानादित्येव॥ इह तर्हि कापोतो रस इति -प्राणिशब्दो नोपपद्यते। नैष दोषः। इदं तावदयं प्रष्टव्यः -योऽसावाद्यः कपोतः सलोमकः सपक्षः, न संप्रति प्राणिति, कथं तत्र प्राणिशब्दो वर्तते? इति। अथ मतमेतत् -प्रकृत्यन्वया विकारा भवन्तीति। इहापि न दोषो भवति॥
Kashika¶
अञित्येव। तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः। ञिद् यो विकारावयवप्रत्ययः, तदन्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरेव। मयटोऽपवादः। ओरञ् (४.३.१३९), शम्याष्ट्लञ् (४.३.१४२), प्राणिरजतादिभ्योऽञ् (४.३.१५४) उष्ट्राद् वुञ् (४.३.१५७), एण्या ढञ् (४.३.१५९), कंसीयपरशव्ययोर्यञञौ० (४.३.१६८) इत्येते प्रत्यया गृह्यन्ते। दैवदारवस्य विकारोऽवयवो वा दैवदारवम्। दाधित्थस्य दाधित्थम्। पालाशस्य पालाशम्। शामीलस्य शामीलम्। कापोतस्य कापोतम्। औष्ट्रकस्य औष्ट्रकम्। ऐणेयस्य ऐणेयम्। कांस्यस्य कांस्यम्। पारशवस्य पारशवम्। ञित इति किम् ? बैल्वमयम्। तत्प्रत्ययादिति किम् ? बैदमयम् ॥
Siddhanta Kaumudi¶
ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥
Balamanorama¶
ञितश्च तत्प्रत्ययात् - ञितश्च तत्प्रत्ययात् । तयोः= विकारावयवयोः प्रत्ययः-तत्प्रत्ययः । तदाह — ञिद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या विकारोऽवयवो वा शामीलम् ।शम्याः ष्यञ् । शामीलस्य विकारोऽवयवो वेत्यर्थे अञि शामीलमिति भवतीत्यर्थः ।नित्यं वृद्धे॑ति मयटोऽपवादः । दाधित्थमिति । दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम् । मयडपवादोऽञ् । बैल्वमयमिति ।बिस्वादिभ्यो॑णिति बिल्वशब्दादणि बैल्वः । तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो ञित्त्वाऽभावादिति भावः । भाष्ये तुविकारावयवप्रत्ययान्तात्पुनस्तत्प्रत्यया अनभिधानान्ने॑त्याश्रित्या सूत्रमिदं प्रत्याख्यातम् ।
Tattvabodhini¶
ञितश्च तत्प्रत्ययात् - शामीलमिमि । शामीलशब्दःशम्याः ष्ल॑ञिति ष्लञन्तः । दधित्थात्अनुदात्तादेश्चे॑त्यञ् । दाधित्थस्य दाधित्थम् । बैल्वमयमिति । बिल्वशब्दोऽणन्तः ।
Padamanjari¶
तयोर्वाचकत्वेन यः सम्बन्धी प्रत्यः स तत्प्रत्ययः षष्ठीसमासः । विकारावयवयोरेवेति । यदि तु ञित्प्रत्ययान्तः प्राण्योषधिवृक्षवाची सम्भवति ततोऽवयवेऽपि भवति; द्वयोः प्रकृतत्वात् । लक्ष्यमनपेक्ष्यैवमुक्तम् । ननु च पूर्वे पञ्चालाः, पटो दग्ध इत्यवयवे समुदायशब्दो दृष्टः, विकारे च प्रकृतिशब्दः - शालीन्भुङ्क्ते मुद्गैरिति शालिविकारान्मुद्गविकारैरित्यर्थः; ततश्च देवदार्वाद्यवयवविकारवृतेर्देअवदार्वादिशब्दातद्विकारावयवयोस्तेन तेनाञादयो भविष्यन्ति, नार्थोऽनेनेत्याशङ्क्याह - मयटोऽपवाद इति । सत्यमस्ति यथाकथञ्चिदिष्टसिद्धः, तथापि वृद्धलक्षणो मयण्मा भूदित्येवमर्थमेवाञ्विधेयः । अन्यथा येनैव हेतुनैतद्वाक्यं भवति - दैवदारवस्य विकारः, शामलस्य विकारः, तेनैव मयडपि स्यात्, विकार्यातेनैव हेतुना मयडपि प्राप्नोति ? अनभिदानान्न भविष्यति, तदेव तर्ह्यनभिधानं विधानेन प्रतिपाद्यते । यद्येवम्,’तस्य विकारः’ , ठुष्ट्राद् वुञ्ऽ, औष्ट्रकं चर्म, तस्य विकार औष्ट्रिकोपानदिति,’टिड्ढाणञ्’ इति ङीप्प्राप्नोति, न चेष्यते, एवं हि सौनागाः पठन्ति -‘वुञश्चाञ ईतः प्रसङ्गः’ इति । तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्द इति तेन तेन लक्षणेनाञादयो भविष्यन्ति । अनभिधानातु विकारावयवप्रत्ययान्तान्न मयड् भविष्यतीत्येतदेव साम्प्रतम् । बैल्वमयमिति ।’ञितो यत्नेन मयट्ंअ सूत्रकारो निवर्तयन् अन्यतो वष्टि मयटम्’ इति वृत्तिकृतो मतम् । भाष्यवातिककारौ पुनराहतुः -‘तच्चानभिदानमाश्रयितव्यम्, अभिधाने ह्यन्यतो’ पि मयटः प्रसङ्गः - बैल्वस्य विकारःऽ इति ॥
Prakriyasarvasvam¶
विकारावयवार्थञित्प्रत्ययान्तात् पुनस्तयोरेवार्थयोरञ् स्यात् । दलञि— शामीलं दारु । तद्विकारोऽपि शामीलम् । एवम् ‘एण्या ढञ्’ (४-३-१५९) इत्यैणेयं चर्म । तद्विकारोऽप्यैणेयम् ।।