43140: अनुदात्तादेश्च

Padacheda: अनुदात्त-आदेः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अञ् comes in the sense of ‘modification or part’ after a word having अनुदात्त - grave accent on the first syllable.

Vasu English Translation

The affix अञ् comes in the sense of ‘modification or part’ after a word having अनुदात्त - grave accent on the first syllable. This debars अण् ॥ Thus दाधित्थम्, कापित्थम्, माहित्थम् ॥ The word दधित्थम् is an upapada-samasa of दधि + स्थ, the स being changed to त; and it is finally acute by कृदुत्तरपद प्रकृतिखर ॥

Bhashya

अनुदात्तादेश्च (1709) (अञ्ञोऽधिकरणम्) (5533 पूर्वपक्षवार्तिकम्॥ 1 ॥) - अनुदात्तादेरञ्ञो विधाने आद्युदात्तान्ङीष उपसंख्यानम् - (भाष्यम्) अनुदात्तादेरञ्ञो विधाने आद्युदात्तान्ङीष उपसंख्यानं कर्तव्यम्। कुवली-कौवलम्,बदरी -बादरम्। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। निघाते कृतेऽनुदात्तादेरित्येव सिद्धम्। न सिध्यति। किं कारणम्? (5534 एकदेशिसमाधानवार्तिकम्॥ 2 ॥) - पदस्य ह्यनुदात्तादित्वम् - (भाष्यम्) पदस्य हि निघातः, सुबन्तं च पदम्, ङ्याप्प्रातिपदिकाच्च प्रत्ययो विधीयते॥ (5535 समाधानवार्तिकम्॥ 3 ॥) - न वा समर्थस्यानुदात्तादित्वात् - (भाष्यम्) न वा वक्तव्यम्। किं कारणम्? समर्थस्यानुदात्तादित्वात्। समर्थमनुदात्तादित्वेन विशेषयिष्यामः॥ नैवं शक्यम्। इह च प्रसज्येत -वाचो विकारः, त्वचो विकार इति। एतद्धि समर्थमनुदात्तादि। इह च न स्यात् -सर्वेषां विकारः सर्व इति। तस्मान्नैवं शक्यम्॥ न चेदेवमुपसंख्यानं कर्तव्यम्। न कर्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति -यावत्येव द्वितीयस्य स्वरस्य प्रादुर्भावस्तावत्येव पूर्वस्य निघात इति, यदयं भिक्षादिषु गर्भिणीशब्दस्य पाठं करोति। कथं कृत्वा ज्ञापकम्? भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत्प्रयोजनम्अनुदात्तादिलक्षणोऽञ्ञ् मा भूदिति। यदि च पदस्य निघातः, गर्भशब्दोऽयमाद्युदात्तस्तस्मादिनिः। इन्नन्ताद्यः प्रत्ययः प्राप्नोति स तावत्स्यात्। तस्मिन्नवस्थिते निघातः। तत्र कोऽनुदात्तादिलक्षणस्याञ्ञः प्रसङ्गः? पश्यति त्वाचार्यः -यावत्येव द्वितीयस्य स्वरस्य प्रादुर्भावस्तावत्येव पूर्वस्य निघात इति। अतो भिक्षादिषु गर्भिणीशब्दं पठति॥ (पदकृत्यभाष्यम्) पदग्रहणं किमर्थम्? (5536 समाधानवार्तिकम्॥ 4 ॥) - पदग्रहणं परिमाणार्थम् - (भाष्यम्) पदग्रहणं क्रियते, परिमाणार्थम्। पदावधेर्यथा स्यात्, वाक्यस्य मा भूत् -अनुदात्तं पदमेकवर्जम् (6.1.154) इति॥

Kashika

अनुदात्तादेः प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। दाधित्थम्। कापित्थम्। माहित्थम्॥

Siddhanta Kaumudi

दाघित्थम् । कापित्थम् ॥

Balamanorama

अनुदात्तादेश्च - अनुदात्तादेश्च ।विकारे अ॑ञिति शेषः ।अवयवे चे॑ति सूत्रमप्यत्र सम्बध्यते । दाधित्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः । एवं कापित्थम् ।कपित्थे तु दधित्थग्राहिमन्मथाः॑ इत्यमरः । अव्युत्पन्नप्रातिपदिकत्वात्-फिट्-स्वरेणान्तोदात्तावेतौ ।

Tattvabodhini

अनुदात्तादेश्च - दाधित्थमिति । दधनि तिष्ठतीतिसुपि स्थः॑इति कः । उपपदसमासः । पृषोदरादित्वात्सकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । एवं कपित्थेऽपि बोध्यम् ।

Nyaas

अञोऽपवादः इति। शमीशब्दसय् गौरादित्वान्ङीषन्तस्य प्रत्ययस्वरेणान्तोदात्तस्यानुदात्तादित्वात्। टकारो ङीबर्थः॥

Prakriyasarvasvam

अञ् स्यात् । दाधित्थम् । कापित्थम् ॥