43151: नोत्वद्वर्ध्रबिल्वात्

Padacheda: न | S | 0 | 0 |

उत्वत्-वर्ध्र-बिल्वात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix मयट् does not come in the छन्दस् (Vedas) after the disyllabic words having a short vowel उ in them, nor after the words 1. वर्ध्र and 2. बिल्वा।

Vasu English Translation

The affix मयट् does not come in the छन्दस् (Vedas) after the disyllabic words having a short vowel उ in them, nor after the words 1. वर्ध्र and 2. बिल्वा। Thus मौञ्जं शिक्यम् from मुञ्ज by अण् ॥ गार्मुतं चक्रम्, वार्ध्री बालप्रग्रथिता भवति; बैल्वो ब्रह्मवर्चसकामेन कार्यः ॥

The word उत्वत् means ‘having उत् or short u (1.1.70)’ The rule does not apply to words containing long ऊ, as भूममयान्यभ्राणि ॥ The वत् in उत्वत् shows that the rule applies not only to words ending in उ, but also to words having उ. Had वत् not been used, the tadanta-vidhi would require the application of the rule to words ending in उ, but not to those which had उ in any other part of their form. So that the prohibition applies to वेणु also, as वैणवी यष्टिः (4.3.136).

The word मुञ्ज is ady-udatta by तृणधान्यानां (Phit II.4): and therefore it takes the universal अण् (4.3.134). The word गर्मुत् is formed by the affix उत् plus the augment मुट् (मृग्रोरुतिः, ग्रोमुट्च Un I.94 and 95), and is finally acute, and therefore it takes अञ् by (4.3.140), and forms गार्मुत ॥ This word has acute on the final also, as तस्या एतं गार्मुतं चरुं निर्वयेत् ॥ The word वर्ध्र is ady-udatta by Phit II.19. And therefore takes अण्, the feminine being formed by ङीप् (4.1.15).

Kashika

उत्वतः प्रातिपदिकाद् वर्ध्रबिल्वशब्दाभ्यां च मयट् प्रत्ययो न भवति। द्व्यचश्छन्दसि (४.३.१५०) इति प्राप्तः प्रतिषिध्यते। मा॒ैञ्जं शि॒क्य॑म् (तै०सं० ५.१.१०.५)। गा॑र्मु॒तं च॒रुम् (तै०सं० २.४.४.१)। वार्ध्री बालप्रग्रथिता (आप०श्रौ० १८.१०.२३) भवति। ब॒ैल्वो॑ ब्॒रह्मवर्च॒स॑का॒मेन का॒र्यः (मै०सं० ३.९.३)। तपरकरणं तत्कालार्थम्। धूममयान्यभ्राणि। मतुब्निर्देशस्तदन्तविधिनिरासार्थः। इहैव स्यात् — वैणवी यष्टिरिति॥

Siddhanta Kaumudi

उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः - (SK1657) ॥

Padamanjari

मौञ्जमिति । मुञ्जशब्दात्’तृणधान्यानां च द्व्यषाम्’ इत्याद्यौदातत्वादौत्सर्गिकोऽण् । गार्मुतमिति । गर्मुच्छब्दः’मृग्रेरुतिः’ ,’ग्रोर्मुट् च’ इत्युतिप्रत्ययान्तत्वादन्तोदात इति ठनुदातादेश्चऽ इत्यञ् । कथं तर्हि’तस्मा एतं गार्मुतं चरुं निर्वपेत्’ इत्यन्तोदातत्वम् ? सर्वविधीनां च्छन्दसि विकल्पितत्वादण् भविष्यति । वाध्रीति । वर्ध्रशब्दः’लघावन्ते’ इत्याद्यौदातः, तमादण्,’टिड्ढाणञ्’ इति ङीप् । मतुब्निर्देशे इत्यादि । असति तस्मिन्वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयतीति तदन्तविधिः स्यात् । वैणवीति । बिल्वाद्यण् ॥

Nyaas

बहुवचननिर्देशात् इत्यादि। यदि स्वरूपग्रहणमभीष्टं स्यात् तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यादिति भावः। मयडादीनाम् इति। आदि शब्दोनाञो ग्रहणम्। बहुवचनं तु पूर्ववत्। तत्र ये वृद्धा हाटकजातरूपप्रभृतयः, तेभ्यो मयटोऽपवादः। ये तु तपनीयप्रभृतयोऽनुदात्तादयस्तेभ्योऽञः। तापनीयम् इति। तपनीयशब्दः लघावन्ते (फि।सू।2।42) इत्यादिना मध्योदात्तः॥

Prakriyasarvasvam

उकारवतो वध्रबिल्वाभ्यां च द्व्यच्त्वेऽपि मयण् न । मौञ्जं शिक्यम् । गौर्मुंतं चरु*म् । वाध्री१ । वैल्वो, ब्रह्मवर्चसकामेन कार्यः ।