43153: जातरूपेभ्यः परिमाणे¶
Padacheda: जात-रूपेभ्यः | S | 5 | 3 |
परिमाणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes after a word denoting ‘gold’ when the sense is a weight or measure.
Vasu English Translation¶
The affix अण् comes after a word denoting ‘gold’ when the sense is a weight or measure. The word जातरूप means ‘gold’. It is used in the plural in the sutra, indicating that all words synonymous with gold are to be taken.
This debars मयट् &c. Thus हाटको निष्कः, हाटकं कार्षापणम्, जातरूपम्, तापमीयम् ॥
Why do we say ‘meaning a measure’. Observe यष्टिरियं हाटकमयी ॥
Kashika¶
जातरूपं सुवर्णम्। बहुवचननिर्देशात् तद्वाचिनः सर्वे गृह्यन्ते। जातरूपवाचिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति परिमाणे विकारे। मयडादीनामपवादः। हाटको निष्कः। हाटकं कार्षापणम्। जातरूपम्। तापनीयम्। परिमाण इति किम्? यष्टिरियं हाटकमयी॥
Siddhanta Kaumudi¶
अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥
Balamanorama¶
जातरूपेभ्यः परिमाणे - जातरूपेभ्यः । अणिति । शेषपूरणम् । जातरूपं-सुवर्णं, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह — बहुवचनादिति । हाटक इत्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति ।नित्यं वृद्धशरादिभ्यः॑ इति मयटोऽपवादः । इतरत्र तुअनुदात्तादेश्चे॑त्यञोऽपवादः ।गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाऽक्षः॑ इत्यमरः । सुवर्णविस्तौ हेम्नोऽक्षे॑ इति च ।
Padamanjari¶
मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु पूर्ववत् । तत्र वृद्धेभ्यो हाटकादिभ्यो मयटोऽपवादः, तपनीयादिभ्योनुदातादिभ्योऽञः ॥
Nyaas¶
मयटोऽपवादः इति। वृद्धलक्षमस्य सर्वस्य ञित्प्रत्ययान्तस्य वृद्धत्वात्।एते प्रत्यया गृह्यन्ते इति। ननु चैकानुबन्धपरिभाषया ष्ट्लञो ग्रहणं न प्राप्नोति? नैष दोषः; ञितश्च इति हि चकारस्तत्समुच्चयार्थः। तेन तस्यापि ग्रहणं भविष्यति। ओरञो (4.3.137) ग्रहणेन अनुदात्तादेश्च (4.3.140) पलाशादिभ्यो वा (4.3.141) इत्येतत्सूत्रग्रहणं वेदितव्यम्; अभिन्नत्वात्। य एवं ओरञ् (4.3.137) इत्यनेनाञ्विहितः स एवास्मिन् सूत्रद्वयेऽनुवर्तते। दैवदारवस्य विकारोऽवयवो वा इत्यादिना यथायोगमेषां प्रत्ययानामुदाहरणादीनि दर्शयति। कांस्यम् पारशवम् इति। कंसाय हितमिति प्राक् क्रीताच्छ- (5.1.1) कंसीयः। परशवे हितमित्युगवादित्वा (5.1.2) द्यत्। परशव्यस्य विकारोऽवयवो वेति कंसीयपरशव्ययोर्यञञौ लुक् च (4.3.168) इति यथासंख्यं यञञौ भवतः, छयतोश्च लुक् - कांस्यम्, पारशवः; तयोर्विकारोऽवयवो वेत्येनेनाञ्। बैल्वमयम् इति। बिल्वशब्दो बिल्वादिभ्योऽण् (4.3.136) इत्यणन्तः। ततो वृद्धलक्षमे मयडेव भवति। वैदमयम् इति। अनृष (4.1.104) इत्यादिनाञ् - वैदः। भवत्ययमञ्प्रत्ययो ञित्, न तु विकारावयवलक्षमः,तेन मयडेव भवति॥
Prakriyasarvasvam¶
स्वर्णार्थेभ्यः परिमाणे वाच्येऽण् । हाटकं कार्षापणम् । अन्यत्र हाटकमयी यष्टिः ।।