43152: तालादिभ्योऽण्

Padacheda: ताल-आदिभ्यः | S | 5 | 3 |

अण् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अण् comes in the sense of ‘its product or part’ after the words ताला etc.

Vasu English Translation

The affix अण् comes in the sense of ‘its product or part’ after the words ताला etc. This debars मयट् &c. Thus तालं धनुः, बार्हिणम्, ऐन्द्रालिशम् ॥

1 तालाद्धनुषि, 2 बार्हिण, 3 इन्द्रालिश, 4 इन्द्रादृश, 5 इन्द्रायुध, 6 चय (चाप, चर्ग), 7 श्यामाक, 8 पीयूक्षा.

Kashika

तालादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः। मयडादीनामपवादः। तालं धनुः। बार्हिणम्। ऐन्द्रालिशम्॥ तालाद् धनुषि (ग०सू० १०४)। बार्हिण। इन्द्रालिश। इन्द्रादृश। इन्द्रायुध। चाप। श्यामाक। पीयूक्षा। तालादिः॥

Siddhanta Kaumudi

अञ्मयटोरपवादः । (गणसूत्रम् -) तालाद्धनुषि ॥ तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् ॥

Balamanorama

तालादिभ्योऽण् - तालादिभ्योऽण् । तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति ।नित्यं वृद्धे॑ति मयटोऽपवादः । ऐन्द्रायुधमिति ।अनुदात्तादेश्चेत्यञोऽपवादः, समासस्वरेणान्तोदात्तत्वात् ।

Tattvabodhini

तालादिभ्योऽण् - तालादिभ्योऽण् । अञ्मयटोरिति । तालशब्दश्यामाकशब्दाभ्यां वृद्धत्वान्मयट् प्राप्तः । बर्हिणां विकारो बार्हिणम् ।प्राणिरजतादिभ्योऽञ् । ततोञितश्च तत्प्रत्यया॑दित्यञ्प्राप्तः, शेषेभ्यस्त्वनुदात्तादित्वादञ्प्राप्तः । तथाहि विशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः ।अन्येषामपी॑ति दीर्घः । इन्द्राविशः । इन्द्रादृशः ।चप सान्त्वने॑पचाद्यच् ।चापपीयूक्षा॑शब्दोलघावन्ते — इति मध्योदात्तःफिषः॑इत्यदिकाराट्टापः प्रागेव स्वरप्रवृत्तेः । इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः । अण्ग्रहणं बाधकबाधानार्थम् । यथाविहितप्रत्ययविधौ बार्हिशब्दाद्वृद्धलक्षणो मयट् स्यात्,ञितश्च तत्प्रत्यया॑दित्यञो बाधनेन वचनस्य चरितार्थत्वादित्याहुः । तालाद्धनुषीति । गणसूत्रमिदम् । हाटक इति । इह वृद्धलक्षणो मयट् प्राप्तः । तपनीयदेः — ॒अनुदात्तादेश्चे॑त्यञ्प्राप्तः ।

Padamanjari

मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु तयोरेव प्रकृतिभेदेन बहुत्वात् । तत्र तालश्यामाकाभ्यां वृद्धत्वान्मयट् प्राप्तः बर्हिणस्य विकारो बार्हिणम् -‘प्राणिरजतादिभ्यो’ ञ्ऽ, तस्माद्’ञितश्च तत्प्रत्ययात्’ इत्यञ् प्राप्तः, शेषेभ्योऽनुदातादिलक्षणस्य । लिशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् ।’चप् सान्त्वने’ , पचाद्यच् । पीयूक्षाशब्दः’लघावन्ते’ इति मध्योदातः, तत्र हि’फिष’ इत्यधैकारात्प्रागेव टापः स्वरप्रवृत्तिः, इन्द्रायुधशब्द समासस्वरेणान्तोदातः । तालाद्धनुषीति । अन्यत्र तालमयमित्येव भवति । अण्ग्रहणं बाधकबाधनार्थम्, अन्यथा यथाविहितमित्युच्यमाने बार्हणशब्दाद्वृद्धलक्षणो मयट् स्यात्, वचनं तु’ञितश्च तत्प्रत्ययात्’ इत्यञो बाधनार्थं स्यात् ॥

Nyaas

अणादीनामपवादः इति। आदिशब्देन मयट् परिगृह्रते। बहुवचनं तु पूर्ववत्। तत्र ये प्राणिशब्दा आद्युदात्तास्तेभ्योऽणपवाद इति। ये तु वृद्धास्तेभ्यो मयट् परिगृह्रते। रजतादिष्वपि यदाद्युदात्तं तस्मादणोऽपवादः। यत्पुनरनुवात्तादि तस्मान्मयटः। ततो हि अनुदात्तादेश्च (4.3.140) इत्यनेनैवाञि सिद्धे पुनर्वचनमञेव यथा स्यात्, मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः (4.3.143) इत्यादिना मयड् मा भूदित्येवमर्थम्। तत्र रजतं घृतादिपाठादन्तोदात्तम्। सीस, लोह इति। नब्विषयस्यानिसन्तस्य (फि।सू।2।26) इत्याद्युदात्तम्। अस्यायमर्थः - नपुंसकविषयस्य शब्दस्यानिसन्तस्यादिरुदात्तो भवतीति। नबिति नपुंसकस्य संज्ञा। अन्त्यात् पूर्वमित्यनुवर्तमाने शिशृमानोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च (फि।सू।3।64) इत्युदुम्बरेऽन्त्यात् पूर्वमक्षरमुदात्तम्। नीलदारुरोहितबिभीतक - इत्येतेषां लघावन्ते (फि।सू।242) इत्यादिना मध्यादात्तत्वम्। पीतदारुशब्दमपि केचित् पठन्ति। स नब्विषयस्यानिसन्तस्य (फि।सू।2।26) इत्याद्युदात्तः। तरतेर्ड्रिः (पं।उ।5।66) इति ड्रिप्रत्ययान्तत्वात् त्रिशब्दस्य प्रत्ययस्वरेणाद्युदात्तत्वम्। त्रयः कण्टका अस्येति बहुव्रीहिः। बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इति त्रिकण्टकशब्द आद्युदात्तः। `{कण्वं प्रांउ।पाठः} कण्टं करोतीति कर्मण्यण्। `{कण्वकार प्रांउ।पाठः} कण्टकारशब्दः कृत्स्वरेणान्तोदात्तः॥

Prakriyasarvasvam

एभ्यो मयडपवादोऽण् । ‘तालवार्हिणचपचमरपीयूक्षागेवथुकाश्यामकेभ्यः’ (भो० ४-४-१०) । ‘तालाद् धनुष्येव’ (ग०) । तालं धनुः । अन्यत्र तालमयो मुसलः । वार्हिणं पिच्छादि । तस्य विकारो बार्हिणं छत्रादि । चपो वंशभेदः । तद्विकारत्वात्, चापम् । चामरम् । पैयूक्षम् ।।