43160: गोपयसोर्यत्¶
Padacheda: गोपयसोः | S | 5 | 2 |
यत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix यत् comes in the sense of ‘product or part’ after the words 1. गो and 2. पयस्।
Vasu English Translation¶
The affix यत् comes in the sense of ‘product or part’ after the words 1. गो and 2. पयस्। Thus गव्यम् (6.1.79), पयस्यम् ॥
Kashika¶
गोपयःशब्दाभ्यां यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। गव्यम्। पयस्यम्। सर्वत्र गोरजादिप्रसङ्गे यत् (वा० ४.१.८५) अस्त्येव, मयड्विषये तु विधीयते॥
Siddhanta Kaumudi¶
गव्यम् । पयस्यम् ॥
Laghu Siddhanta Kaumudi¶
गव्यम् । पयस्यम् ॥ इति विकारार्थाः ॥ ६ ॥
Balamanorama¶
गोपयसोर्यत् - गोपयसोर्यत् । गव्यमिति । गोर्विकारोऽवयवो वेत्यर्थः ।वान्तो यी॑त्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थः ।सर्वत्र गोरजादिप्रसङ्गे य॑दित्येव सिद्धे यद्विधानंमयड्वैतयो॑रिति पाक्षिकमयटो बाधनार्थम् ।
Tattvabodhini¶
गोपयसोर्यत् - गोपयसोः । यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदुक्तस्तथापिमयड्वैतयो॑रिति पक्षे प्राप्तं मयटं बाधितुं पुनरयं यद्विधिः ।
Padamanjari¶
मयड्विषये त्विति ।’मयड्वैतयोः’ इति विहितस्य मयटो विषये ॥
Prakriyasarvasvam¶
गोविकारो गव्यम् । पयस्यम् ।।