43157: उष्ट्राद्वुञ्¶
Padacheda: उष्ट्रात् | S | 5 | 1 |
वुञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes in the sense of ‘product or part’ after the word उष्ट्र।
Vasu English Translation¶
The affix वुञ् comes in the sense of ‘product or part’ after the word उष्ट्र। This debars अञ् (4.3.154). उष्ट्रस्य विकारोऽवयवो वा = औष्ट्रकः ॥
Kashika¶
उष्ट्रशब्दाद् वुञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञोऽपवादः। उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः॥
Siddhanta Kaumudi¶
प्राण्यञोऽपवादः । औष्ट्रकः ॥
Balamanorama¶
उष्ट्राद्वुञ् - उष्ट्राद्वुञ् । प्राण्यञ इति ।प्राणिरजतादिभ्योऽञि॑त्यस्यापवाद इत्यर्थः ।
Nyaas¶
पुंसस्त्वञेद भवति इति। यदिह पुंसो ढञ् स्यात् पुंल्लिङ्गेनैव निर्देशं कुर्यादिति। पुंल्लिङ्ग न हि निर्देशे प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येणीशब्दादपि प्रत्ययो लभ्यत एव। तस्मात् स्त्रीलिङ्गनिर्देशादेव पुंसोऽञ् भवति, न ढञ्॥
Prakriyasarvasvam¶
औष्ट्रकं चर्म ।।