43146: पिष्टाच्च¶
Padacheda: पिष्टात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix मयट् invariably comes in the sense of ‘its product or part’ after the word पिष्ट।
Vasu English Translation¶
The affix मयट् invariably comes in the sense of ‘its product or part’ after the word पिष्ट। This debars अण् ॥ Thus पिष्टमयं भस्म ॥ Otherwise अण्, as पैष्टी सुरा in the sense of तस्येदम् ॥
Kashika¶
पिष्टशब्दाद् नित्यं मयट् प्रत्ययो भवति तस्य विकार इत्येतस्मिन् विषये। अणोऽपवादः। पिष्टमयं भस्म॥
Siddhanta Kaumudi¶
मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदं (SK1500)इत्यण् ॥
Balamanorama¶
पिष्टाच्च - पिष्टाच्च । शेषपूरणेन सूत्रं व्याचष्टे — मयट् स्याद्विकारे इति ।
Padamanjari¶
पिष्टमंय भस्मेति ॥ पैष्टी सुरेति तु सामान्यविवक्षायाम्’तस्येदम्’ इत्यण्,’प्रदीयतां दाशरथाय मैथिली’ इतिवत् ॥