43158: उमोर्णयोर्वा¶
Padacheda: उमा-ऊर्णयोः | S | 6 | 2 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes optionally in the sense of ‘product or part’ after the words 1. उमा and 2. ऊर्णा।
Vasu English Translation¶
The affix वुञ् comes optionally in the sense of ‘product or part’ after the words 1. उमा and 2. ऊर्णा। Thus औमम् or औमकम्, और्णम् or और्णकम् ॥
Kashika¶
उमाशब्दादूर्णाशब्दात् च वा वुञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। औमकम्, औमम्। और्णकम्, और्णम्॥
Siddhanta Kaumudi¶
औमम् । औमकम् । ओर्णम् । और्णकम् वुञभावे यथाक्रममणञौ ॥
Balamanorama¶
उमोर्णयोर्वा - उमोर्णयोर्वा ।नु॑ञिति शेषः । औमकमिति । उमा — सस्यविशेषः ।उमा स्यादतसी क्षुमा॑ इत्यमरः । उमाया विकारोऽवयवो वेत्यर्थः । औममिति ।तृणधान्यानां चे॑त्युमाशब्द आद्युदात्तः । ततो वुञभावेअनुदात्तादेश्चे॑त्यञभावादौत्सर्गिकोऽण् । ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः । ततो वुञभावे अनुदात्तादित्वादञित्यर्थः ।ऊर्णा मेषादिलोम्नि स्यादि॑त्यमरः ।स्थूणोर्णे नपुंसके चे॑ति लिङ्गानुशासनसूत्रम् ।
Tattvabodhini¶
उमोर्णयोर्वा - अणञाविति । उमाशब्दःतृणधान्यानां च॑ इत्याद्युदात्तः । ऊर्णाशब्दस्तु प्रातिपदिकस्वरेणान्तोदात्त इति भावः ।
Padamanjari¶
उमाशब्दस्तृणधान्यानां वेत्याद्यौदातः, ऊर्णाशब्दः प्रातिपदिकस्वरेणान्तोदातः, ताभ्यां वुञभावे यथाक्रममणञौ ॥
Nyaas¶
मयड्विषये तु विधीयते इति। अजादिप्रसङ्ग इति वचनात्। मयटोऽनजादित्वात् तद्विषये न प्राप्नोतीत्यतस्तत्र गोशब्दाद्विधीयते। पयःशब्दस्तु पिबतेरित्यसुन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः, तस्मात् प्राग्दीव्यतोऽण्` (4.1.83) इत्यण् प्राप्नोति। अतस्तदपवादोऽयं यद्विधीयते॥
Prakriyasarvasvam¶
औमकम् । औमम् । औणकम् । और्णम् ।।