43145: गोश्च पुरीषे¶
Padacheda: गोः | S | 5 | 1 |
च | S | 0 | 0 |
पुरीषे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix मयट् comes after the word गो in the sense of ‘its dung’.
Vasu English Translation¶
The affix मयट् comes after the word गो in the sense of ‘its dung’. Thus गोमयम् ‘cow dung’. ‘Dung’ is neither a modification nor a part of cow. Therefore this separate sutra for गो ॥ Why do we say meaning ‘its dung’? Observe गव्यं = milk. The affix यत् here comes in the sense of product or part. (4.3.160), though strictly speaking ‘milk’ also is not an ‘avayava’ or a ‘vikara’ of गो ॥
Kashika¶
गोशब्दात् पुरीषेऽभिधेये मयट् प्रत्ययो भवति। गोमयम्। पुरीष इति किम्? गव्यं पयः। पुरीषं न विकारो नाप्यवयवः, तस्येदंविषये विधानम्। विकारावयवयोस्तु गोपयसोर्यतं (४.३.१६०) वक्ष्यति॥
Siddhanta Kaumudi¶
गोः पुरीषं गोमयम् ॥
Laghu Siddhanta Kaumudi¶
गोः पुरीषं गोमयम्॥
Balamanorama¶
संज्ञायां कन् - संज्ञायां कन् । विकारविशेष इति । अपूप इत्यर्थः । तदाह — पूपोऽपूपः पिष्टकः स्यादिति । अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् ।तुङ्गमनपूपाकृतिमआशफमात्रं पुरोडाशं करोती॑ति श्रुतेः ।
Tattvabodhini¶
गोश्च पुरीषे - गोस्च पुरीषे । पुरीषं न विकारो, नाप्यवयवः, तथापितस्येद॑ मित्यर्थेऽयं प्रत्ययः । विकारावयवोस्तु गोपयसोर्यतं वक्ष्यति । पुरीषे किम् । गव्यं पयः ।
Padamanjari¶
गव्यं पय इति । कथं पुनरत्र प्रसङ्गः, यावता विकारावयवयोरिति वर्तते, पयश्च न विकारो नाषयवः ? तत्राह - पुरीषं नं विकार इत्यादि । अक्रियमाणे पुरीषग्रहणे इष्टसिध्यर्थमेव’तस्येदम्’ इत्यधैकारे’गोर्मयट्’ इति सूत्रं कर्तव्यम्, ततश्चात्रापि प्रसङ्ग इत्यर्थः ॥
Nyaas¶
`मयटोऽपवादःरट इति। पूर्वसूत्रेण प्राप्तस्य। ननु च संज्ञायां कनं वक्ष्यत्येव, तदपार्थकं तद्विधानम्? नैतदस्ति; स ह्रल्पादिष्वर्थेषु, अयं तु विकारे। तदिदं सार्थकम्; अर्थभेदात्॥
Prakriyasarvasvam¶
गोः पुरीषं गोमयम् ॥ अस्माद् विकारे नित्यं मयट् । पिष्टमयं हविः । पौष्टी सुरेति तु ‘तस्येदम’ (४-३-१२०) इत्यण् ।।