43147: संज्ञायां कन्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
कन् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix कन् comes in the sense of ‘product’ after the word पिष्ट , the whole word being a Name.
Vasu English Translation¶
The affix कन् comes in the sense of ‘product’ after the word पिष्ट , the whole word being a Name. This debars मयट् ॥ As पिष्टकः ॥
Kashika¶
पिष्टशब्दात् कन् प्रत्ययो भवति विकारे संज्ञायां विषये। मयटोऽपवादः। पिष्टकः॥
Siddhanta Kaumudi¶
पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः पिष्टकः स्यात् ॥
Nyaas¶
तिलयवशब्दावाद्युदात्तौ इति। तस्मादण्प्राप्नोति, अतस्तस्यायमपवादः। आद्युदात्तत्वं तु तयोः तृणधान्यानां {गर्मुत् - द।उ। ग्रो मुट् च पं।उ।}द्व्यषाम्` (फिट्।2।27) इत्यनेनैव भवितव्यम्। अस्यायमर्थः - तृणधान्यानां द्व्यचामादिरुदात्तो भवतीति।यावकःर इति। विकारेऽण्। तदन्तात्तु यावादिभ्यः कन् (5.4.29) इति कन्॥
Prakriyasarvasvam¶
पिष्टान्नाम्नि कन् । पिष्टकोऽपूपः ।।