43148: व्रीहेः पुरोडाशे¶
Padacheda: व्रीहेः | S | 5 | 1 |
पुरोडाशे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix मयट् comes after the word व्रीहि in the sense of a पुरोडाश।
Vasu English Translation¶
The affix मयट् comes after the word व्रीहि in the sense of a पुरोडाश। This debars अण् (4.3.136). Thus व्रीहिमयः पुरोडाशः ‘a sacred cake made of barley.’ Otherwise व्रैहम् ॥
Kashika¶
व्रीहिशब्दाद् मयट् प्रत्ययो भवति पुरोडाशे विकारे। बिल्वाद्यणोऽपवादः। व्रीहिमयः पुरोडाशः। व्रैहमन्यत्॥
Siddhanta Kaumudi¶
मयट् स्यात् । बिल्वाद्यणोऽपवादः । ब्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥
Balamanorama¶
व्रीहेः पुरोडाशे - व्रीहेः पुरोडाशे । पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह — व्रैहमन्यदिति ।
Prakriyasarvasvam¶
मयट् स्यात् । व्रीहिमयः पुरोडाशः । ब्रौहमन्यत् ।।