43149: असंज्ञायां तिलयवाभ्याम्

Padacheda: अ-संज्ञायाम् | S | 7 | 1 |

तिल-यवाभ्याम् | S | 5 | 2 |

Sutrartha


Vasu English Summary

The affix मयट् comes in the sense of ‘product’ after the words तिल and यवा - the whole not being a name.

Vasu English Translation

The affix मयट् comes in the sense of ‘product’ after the words तिल and यवा - the whole not being a name. Thus तिलमयम्, यवमयम्, ॥ Why do we say असंज्ञायाम् “it not being a Name?” Observe तैलम् ‘oil,’ यावकः formed with कन् (यावादिभ्यः कन् (5.4.29))

Kashika

तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। तिलमयम्। यवमयम्। असंज्ञायामिति किम्? तैलम्। यावकः। यावादिभ्यः कन् (५.४.२९)॥

Siddhanta Kaumudi

तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥

Balamanorama

असंज्ञायां तिलयवाभ्याम् - असंज्ञायां तिलयवाभ्याम् ।नित्यंमय॑डिति शेषः । यावक इति । यवशब्दाद्विकारे अण् । ततः ‘यावादिभ्यः’ इति स्वार्थे कन् ।

Tattvabodhini

असंज्ञायां तिलयवाभ्याम् - यावक इति । यवशब्दाद्विकारेऽण्, तदन्तात्यावादिभ्यः॑इति स्वार्थे कन् ।

Padamanjari

यावक इति । यवशब्दाद्विकारेऽण्, तदन्ताद्’यावादिभ्यः’ इति स्वार्थे कन् ॥

Nyaas

मौञ्जम् इति। मुञ्जाशब्दस्य पूर्वपदाद्युदात्तत्वेन तस्मादौत्सर्गिक एवाण्। गार्मुत्म् इति। मुग्रोरुतिःट (पं।उ।1।96), `{गर्मुत् - द।उ। ग्रो मुट् च (पं।उ।} गोर्मुट् च` (पं।उ।1।97) इति प्रत्ययस्वरेण गर्मुच्छब्दोऽन्तोदात्तः। तस्मात् अनुदात्तादेश्च (4.3.140) इत्यञ्। ब्राआर्ध्री`इति। `वृधिवपभ्यां रन् (द।उ।8।45) ब्राध्र्रशब्दो नित्स्वरेणाद्युदात्तः, तस्मात् प्राग्दीव्यतोऽण् (4.1.83) , टिड्ढाणञ् (4.1.15) इति ङीप्। बैल्वम् इति। बिल्वादिभ्योऽण् (4.3.136) ।अथ मतुषा निर्देशः किमर्थः? न नोद्वध्र्रबिल्वादित्येवोच्येतेत्यत आह - मतुब्निर्देशः`इति।**नोत्वद्वर्ध्रबिल्वात्** (4.3.151) इत्युच्यमान उदिति वर्णग्रहणं स्यात्। अत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतीति तस्मात्तन्निषेधाय मतुब्निर्देशः। कः पुनस्तदन्तविधौ सति दोषः स्यादित्यत आह - `इहै व इत्यादि। एवकारेण मुञ्जादिभ्यो न स्यादिति दर्शयति। वैष्णवी इति। बिल्वादित्वादण्॥

Prakriyasarvasvam

तिलमयम् । यवमयम् । नाम्नि तैलम् । यावकम् ।।