43159: एण्या ढञ्¶
Padacheda: एण्याः | S | 5 | 1 |
ढञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ढञ् comes optionally in the sense of ‘product or part’ after the feminine word एणी।
Vasu English Translation¶
The affix ढञ् comes optionally in the sense of ‘product or part’ after the feminine word एणी। Thus ऐणेयं मांसम् ‘the flesh of a female black deer.’ But एणस्य मांसम् = ऐणम् ‘the flesh of a male deer’, formed by अञ् ॥
Kashika¶
एणीशब्दाद् ढञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञोऽपवादः। ऐणेयं मांसम्। पुंसस्त्वञेव भवति। एणस्य मांसमैणम्॥
Siddhanta Kaumudi¶
ऐणेयम् । एणस्य तु ऐणम् ॥
Balamanorama¶
एण्या ढञ् - एण्या ढञ् । एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः ।यस्येति चे॑ति ईकारलोपः । स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह — एणस्य त्विति ।
Tattvabodhini¶
एण्या ढञ् - एण्या ढञ् । प्राण्यञोऽपवादः । स्त्रीलिङ्गनिर्देशादाह -एणस्यत्विति ।
Padamanjari¶
स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह -पुंसस्त्वञव भवतीति ॥
Prakriyasarvasvam¶
ऐणेयं चर्म । एणस्य तु ऐणम् ।।