43144: नित्यं वृद्धशरादिभ्यः¶
Padacheda: नित्यम् | S | 1 | 1 |
वृद्ध-शर-आदिभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix मयट् comes in the sense of ‘product’ and ‘part’ when neither food nor clothing is spoken of, invariably after वृद्ध words and शर etc.
Vasu English Translation¶
The affix मयट् comes in the sense of ‘product’ and ‘part’ when neither food nor clothing is spoken of, invariably after वृद्ध words and शर etc. Thus after Vriddha– आम्रमयम्, शालमयम्, शाकमयम् ॥ After शरादि words:– शरमयम्,हर्ममयम्, मृन्मयम् ॥
Why do we use the word नित्य ‘invariably’ in the sutra, when by the mere fact of making a separate sutra, the affix would be obligatory.? The affix मयट्, according to Patanjali comes invariably after words of one syllable. That is done by using the word नित्य in the sutra. Thus, त्वङ् मयम्, स्रङ् मयम्, वाङ् मयम् ॥
1 शर, 2 दर्भ, 3 मृद्, 4 कुटी, 5 तृण, 6 सोम, 7 बल्वज (वल्वज).
Kashika¶
भाषायामभक्ष्याच्छादनयोरित्येव। वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्चाभक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति। वृद्धेभ्यस्तावत् — आम्रमयम्। शालमयम्। शाकमयम्। शरादिभ्यः — शरमयम्। दर्भमयम्। मृन्मयम्। नित्यग्रहणं किम्, यावतारम्भसामर्थ्यादेव नित्यं भविष्यति? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते — त्वङ्मयम्, स्रङ्मयम्, वाङ्मयमिति ॥ शर। दर्भ। मृत्। कुटी। तृण। सोम। बल्वज। शरादिः॥
Siddhanta Kaumudi¶
आम्रमयम् । शरमयम् ।<!एकाचो नित्यम् !> (वार्तिकम्) ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदम् (SK1500) इत्यण्णन्तात्स्वार्थे ष्यञ् ॥
Laghu Siddhanta Kaumudi¶
आम्रमयम्। शरमयम्॥
Balamanorama¶
नित्यं वृद्धशरादिभ्यः - नित्यं वृद्ध ।मय॑डिति शेषः । उक्तविकल्पस्यापवादः ।एकाचो नित्यमिति ।नित्य॑मिति योगविभागलब्धमिदम् । अण्णन्तादिति । अपामिदमापम् ।तस्येद॑मित्यण् । ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञि आप्यमिति रूपमित्यर्थः ।
Tattvabodhini¶
नित्यं वृद्धशरादिभ्यः - नित्यं वृद्ध । इहभाषायामभक्ष्याच्छादनयो॑रित्यनुवर्तत इति वृत्तिः । नन्वेवमानन्दमयाधिकरणे शङ्कराचार्यैःअन्योन्तर आत्मानन्दमयः॑इति श्रुतौआनन्दमय इति विकारे मय॑डित्युक्तं तत्कथं सङ्गच्छतां ।प्राचुर्ये मय॑डिति तु वक्तुमुचितमिति चेत् । अत्राहुः -प्राचुर्ये मयटपि प्रकृत्यर्थविरोधिनो दुःखस्य लेशतोऽनुवृत्तिलाभात्प्रकृते विकारार्थः पर्यवस्यतीति तेषामाशयः । यद्वानित्यं वृद्धे॑त्यत्र भाषाग्रहणं नानुवर्तते । अनुवृत्तावपिभाषायां नित्यम्, अन्यत्र क्वाचित्कः॑इत्याश्रित्य मयट् सुसाधः । अथ वाहेतुमनुष्येभ्य॑इत्यनुवर्तमानेमयट् चे॑ति सूत्रेण आगतार्थे मयट् । विकार इति त्वार्थिकार्थकथनमेव । अतः शङ्करभगवत्पादोक्तिरनवद्यैवेति । शरमयमिति । शर दर्भ मृत्कटी तृण सोम बल्वज इति शरादिः ।एकाचो नित्यम् । एकाचो नित्यमिति.॒नित्यं वृद्धे॑ति नित्यग्रहणं योगविभागेनान्यत्रापि क्वचिद्विधानार्थं, तेनैतल्लभ्यत इति भावः । एकाच्त्वादेव सिद्धे शदादिषु मृच्छब्दपठनं विस्पष्टार्थमित्याहुः ।
Padamanjari¶
नित्यं मयट्प्रत्ययो भवतीति । प्राग्दीव्यतीयानामपवादः । अणं तु कोपधलक्षणमञेव परत्वाद्वाधते । शाकमयम्, आम्रमयमिति । आम्रशब्दः ठमितम्योर्दीर्घश्चऽ इति रन्प्रत्ययान्तः । तदनेन क्रियत इति । नित्यंशब्दोऽतिरिच्यमानः पूर्वाचार्यपठितस्य वाक्यस्य स्मारक इति । एवं च मृच्छब्दस्य शरादिषु पाठोऽस्यैव प्रापञ्चार्थो द्रष्टव्यः ॥
Nyaas¶
अणोऽपवादः इति। पिष्टशब्दोऽयं निष्ठा च द्व्यजनात् (6.1.205) इत्याद्युदात्तः, तेन तस्मादौत्सर्गिकः प्राप्नोति, ततस्तस्यायमपवादः॥
Prakriyasarvasvam¶
वृद्धेभ्यः शरादिभ्यश्च लोके नित्यं मयट् । आम्रमयम् । दारुमयम् ! ‘दारवशब्दो दुष्प्रयुक्तः’ इति वामनः । शरादिभ्यस्तु ‘शरदर्भतृणकुटीसोमबल्बजेभ्यः’ (भो० ४-४-१७) बल्बजाः काशाः । शरमयं दर्भमयमित्यादि । अत्रापि भक्ष्याच्छादनयोर्न । शाक उपदंशः । दार्भं वासः ।<!एकाचो नित्यं मयड् वाच्यः!> (वा०) । मृन्मयम् । वाङ्मयम् । ‘मयट् तद्रूप इति केचित्’ इति कौमुदी । विष्णुमयं जगत् । तद्धिताः (४-१-७६) इति बहुवचनसामर्थ्यादनुक्ता अपि प्रत्यया इष्टा इत्यपशब्दान्मयडर्थे करणे च यञपि स्यादित्याहुः । आप्यम् । अम्मयम् । आप्याः परमाणवः ॥
Vartika¶
एकाचो नित्यम् ।