43156: क्रीतवत् परिमाणात्

Padacheda: क्रीतवत् | S | 0 | 0 |

परिमाणात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

After a word denoting ‘a measure’ the affix expressing ‘its product or part’ is the same as the affix having the sense of ‘purchased’.

Vasu English Translation

After a word denoting ‘a measure’ the affix expressing ‘its product or part’ is the same as the affix having the sense of ‘purchased’. The affixes taught in (5.1.18) &c are the affixes that have the force of क्रीत (5.1.37). These affixes come also after words denoting measure (5.1.19). The same affixes are employed to denote विकार, after words denoting परिमाण ॥ This debars अण् &c. Thus निष्केन क्रीतम् = नैष्किकम् (5.1.20); It will denote vikara also, निष्कस्य विकारः = नैष्किकः formed by ठक् (5.1.20). As शतेनक्रीतं = शत्यं or शतिकम् (5.1.21), so शतस्य विकारः = शत्यः or शतिकः by ठन् and यत् (5.1.21), सहस्रेणक्रीतं = साहस्रम् (5.1.27) so सहस्रस्य विकारः = साहस्रः (V. I.27 by अण्) ॥

The word वत् in क्रीतवत् indicates that the similarity is complete throughout. Thus Sutra (5.1.28) also applies, by which the affix is elided. As द्विसहस्रः or द्विसाहस्रः (5.1.29), द्विनिष्कः or द्विनैष्किकः ॥ The word परिमाण in this sutra includes संख्या ‘the, numerals’ also; while the technical word परिमाण does not include sankhya. See (4.1.22) and (5.1.19) &c. The similarity extends even to the elision of affix (5.1.28) as, द्विसहस्रः, द्विसाहस्रः &c.

Bhashya

क्रीतवत्परिमाणात् (1725) (प्रत्ययातिदेशाधिकरणम्) (जिज्ञासाभाष्यम्) कथमिदं विज्ञायते -क्रीते ये प्रत्यया विहितास्ते भवन्ति परिमाणाद्विकारावयवयोरिति, आहोस्वित्परिमाणात् क्रीते ये प्रत्यया विहितास्ते भवन्ति विकारावयवयोरिति? किं चातः? यदि विज्ञायते -क्रीते ये प्रत्यया विहितास्ते भवन्ति परिमाणाद्विकारावयवयोरिति, प्रत्ययमात्रं प्राप्नोति। अथ विज्ञायते -परिमाणात् क्रीते ये प्रत्यया विहितास्ते भवन्ति विकारावयवयोरिति, प्रकृतिमात्रात् प्राप्नुवन्ति। तस्मात् - (5544 सूत्रार्थसम्पादने एकदेशिवार्तिकम्॥ 1 ॥) - क्रीतवत्परिमाणादङ्गं च - (भाष्यम्) अङ्गं च क्रीतवदिति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्॥ (वार्तिकोक्तार्थसाधने भाष्यम्) क्रीतवदिति वतिनिर्देशोऽयम्। यदि च याभ्यः प्रकृतिभ्यो येन विशेषणेन क्रीते प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन परिमाणादि्द्वकारावयवयोर्भवन्ति, ततोऽमी क्रीतवत् कृताः स्युः। अथ हि प्रकृतिमात्राद्वा स्युः प्रत्ययमात्रं वा स्यात्, नामी क्रीतवत् कृताः स्युः॥ (5545 विप्रतिषेधवार्तिकम्॥ 2 ॥) - अणो वृद्धान्मयट् - (भाष्यम्) अणो वृद्धान्मयडित्येतद्भवति विप्रतिषेधेन। अणोऽवकाशः -तित्तिडीक -तैत्तिडीकम्। मयटोऽवकाशः -काष्ठमयम्। इहोभयं प्राप्नोति -शाकमयम्॥ (5546 विप्रतिषेधवार्तिकम्॥ 3 ॥) - ओरञ्ञोऽनुदात्तादेरञ्ञश्च - (भाष्यम्) ओरञ्ञोऽनुदात्तादेरञ्ञश्च मयड् भवति विप्रतिषेधेन। ओरञ्ञोऽवकाशः -अरडु -आरडवम्। मयटः स एव। इहोभयं प्राप्नोति -दारु -दारुमयम्। अनुदात्तादेरञ्ञ्भवतीत्यस्यावकाशः -कौवलम्। जरद्वृक्ष -जारद्वृक्षम्। मयटः स एव। इहोभयं प्राप्नोति -आम्रमयम्॥ (5547 विप्रतिषेधवार्तिकम्॥ 4 ॥) - मयटः प्राण्यञ्ञ्विप्रतिषेधेन - (भाष्यम्) मयटः प्राण्यञ्ञ्भवति विप्रतिषेधेन। प्राण्यञ्ञोऽवकाशः -गार्ध्रम्। मयटः स एव। इहोभयं प्राप्नोति -चाषम्। भासम्। प्राण्यञ्ञ्भवति विप्रतिषेधेन॥ (5547 विप्रतिषेधखण्डनवार्तिकम् ॥5॥) - न वाऽनवकाशत्वादपवादो मयट् - (भाष्यम्) न वैष युक्तो विप्रतिषेधः, योऽयमञ्ञो मयटश्च। किं कारणम्? अनवकाशत्वादपवादो मयट्। अनवकाशो मयट् सावकाशमञ्ञं बाधिष्यते। स कथमनवकाशः? यद्यनुवर्तन्ते शैषिकाः। अथ निवृत्ताः शैषिकाः, वृद्धमाद्युदात्तं मयटोऽवकाशः॥ (5549 विप्रतिषेधखण्डनवार्तिकम्॥ 6 ॥) - प्राण्यञ्ञश्च - (भाष्यम्) अयं चाप्ययुक्तो विप्रतिषेधः -योऽयं मयटः प्राण्यञ्ञश्च। किं कारणम्? अनवकाशत्वादपवादो मयडित्येव। अनवकाशो मयट्, स यथैव ओरञ्ञमनुदात्तादेरञ्ञं च बाधते, एवं प्राण्यञ्ञमपि बाधेत॥ (5550 एकदेशिवार्तिकम्॥ 7 ॥) - तस्मान्मयडि्वधाने प्राणिप्रतिषेधः - (भाष्यम्) तस्मान्मयडि्वधाने प्राणिभ्यः प्रतिषेधो वक्तव्यः। स तर्हि वक्तव्यः। न वक्तव्यः॥ (सिद्धान्तभाष्यम्) मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमयं मयट् ओरञ्ञमनुदात्तादेरञ्ञं च बाधिष्यते, प्राण्यञ्ञं न बाधिष्यते॥ यद्येतदस्ति -मध्येऽपवादाः पुरस्तादपवादाः इति, माऽनुवृतञ्ञ्शैषिकाः। पुरस्तादपवादा अनन्तरान् विधीन् बाधन्त इत्येवमयमण् अञ्ञं बाधिष्यते, मयटं न बाधिष्यते॥ (5551 विप्रतिषेधवार्तिकम्॥ 8 ॥) - अनुदात्तादेरञ्ञः प्राण्यञ्ञ्विप्रतिषेधेन - (भाष्यम्) अनुदात्तादेरञ्ञः प्राण्यञ्ञ्भवति विप्रतिषेधेन। अनुदात्तादेरञ्ञ्भवतीत्यस्यावकाशः -जरद्वृक्षः -जारद्वृक्षम्। प्राण्यञ्ञः स एव। इहोभयं प्राप्नोति -कपोत -कापोतम्। प्राण्यञ्ञ्भवति विप्रतिषेधेन॥ (विप्रतिषेधोपपादकं भाष्यम्) कः पुनरत्र विशेषः, तेन वा सति, अनेन वा? सापवादः स विधिः, अयं पुनर्निरपवादः। यदि तेन स्याद्, इह न स्यात् -श्वाविधो विकारः शौवाविधम्॥

Kashika

प्राग्वतेष्ठञ् (५.१.१८) इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद् विहिताः, ते विकारेऽतिदिश्यन्ते। परिमाणात् क्रीत इव प्रत्यया भवन्ति तस्य विकार इत्येतस्मिन् विषये। अणादीनामपवादः। संख्यापि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणमेव। निष्केण क्रीतं नैष्किकम्। एवं निष्कस्य विकारो नैष्किकः। शतेन क्रीतं शत्यम्, शतिकम्। शतस्य विकारः शत्यः शतिकः। साहस्रः। वतिः सर्वसादृश्यार्थः। अध्यर्धपूर्वाद् द्विगोर्लुगसंज्ञायाम् (५.१.२८) इत्येवमादिकमप्यतिदिश्यते। द्विसहस्रः, द्विसाहस्रः। द्विनिष्कः, द्विनैष्किकः॥

Siddhanta Kaumudi

प्राग्वहतेष्ठक् (SK1548) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥

Balamanorama

क्रीतवत् परिमाणात् - क्रीततवत्परि । उपाधिनेति । प्रकृत्यादि विशेषणेनेत्यर्थः । नैष्किक इति ।असमासे निष्कादिभ्यः॑ इति क्रीते ठक् । शत्यः शतिक इति । ‘शताच्च ठन्यतौ’ इति क्रीते ठन्यतौ ।

Tattvabodhini

क्रीतवत् परिमाणात् - नेष्किकमिति ।तेन क्रीत॑मिति ठक् । शत्यः । शतिक इति ।शताच्च ठन्यतौ॑ ।

Padamanjari

‘चरणेभ्यो धर्मवत्’ इत्यनेन तुल्यमेतत् । सङ्ख्या च परिमाणग्रहणेन गृह्यत इति । चकारादुन्मानं च, परिमीयतेऽनेनेति परिमाणमितियौगिकः परिमाणशब्द इत्यर्थः । तदाह - न रूढिपरिमाणमेवेति । नैष्किक इति । ठसमासे निष्कादिभ्यःऽ इति ठक् । शत्यः, शतिक इति ।’शताच्च ठन्यतावशते’ । साहस्रमिति ।’शतमानविशतिकसहस्रवसनादण्’ । वतिः सर्वसादृश्यार्थ इति । किमेवं सति सिद्धं भवति ? तदाह - अध्यर्द्धपूर्वेत्यादि । आदिशब्देन प्रकृतिप्रत्यययोः प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकऽ इति तदन्तविधेश्च परिग्रहः । एतदुक्तं भवति - याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया विकारे भवन्ति । द्विसाहस्रमिति । पक्षे लुक्,’सङ्ख्यायाः संवत्सरसङ्ख्यस्य च’ इत्युतरपदवृद्धिः । द्विनैष्किकमिति । प्राग्वतीयस्य ठञः’द्वित्रिपूर्वान्निष्कात्’ इति पक्ष लुक्,’परिमाणान्तस्य’ इत्युतरपदवृद्धिः ॥

Nyaas

उमाशब्दस्तृणधान्यमित्याह (फि।सू।2।27) नाद्युदात्तः, ऊर्णाशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, ताभ्यां यथासंख्यमणञोः प्राप्तयोर्विभाषा वुञारभ्यते॥

Prakriyasarvasvam

परिमाणेभ्यः क्रीतार्थे वक्ष्यमाणष्ठगादिः स्यात् । निष्कस्य विकारो नैष्किकम् । शतपरिमितस्य विकारः शत्यम् । अत्र सङ्ख्यापि परिमाणम् ।।