43142: शम्याष्ट्लञ्¶
Padacheda: शम्याः | S | 5 | 1 |
ट्लञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ट्लञ् comes in the sense of ‘modification or part’ after the word शमी।
Vasu English Translation¶
The affix ट्लञ् comes in the sense of ‘modification or part’ after the word शमी। This debars अञ् ॥ Thus शामीलं भस्म, शामीली स्रुक् (4.1.60).
Kashika¶
शमीशब्दाट् ट्लञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अञोऽपवादः। शामीलं भस्म। शामीली स्रुक्॥
Siddhanta Kaumudi¶
शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक् ॥
Tattvabodhini¶
शम्याष्ट्लञ् - षित्त्वन्ङीषिति । टित्त्वान्ङीषिति । टित्त्वान्ङीबिति तु माधवः ।
Padamanjari¶
अञोऽपवाद इति । शमीशब्दो गौरादिङीषन्तः । शामीली स्रुगिति । चातुर्मास्ये वरुणप्रघासेषु शमीमय्यः स्रुचो भवन्तीति श्रुतम् ॥
Prakriyasarvasvam¶
टित्त्वात् ङीप् । शामीली समित् ॥