43141: पलाशादिभ्यो वा

Padacheda: पलाश-आदिभ्यः | S | 5 | 3 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अञ् comes optionally in the sense of ‘modification or part’ after the words पलाश etc.

Vasu English Translation

The affix अञ् comes optionally in the sense of ‘modification or part’ after the words पलाश etc. Thus पालाशम् or पालाशम् so also खादिरम् or खादिरम्, यावासम् or यावासम् ॥

This sutra is an example of prapta and aprapta vibhasha. The words पलाश, खदिर, शिंशपा and स्यन्दन being gravely accented on the first syllable, the affix अञ् was obligatory by the last aphorism. This makes it optional, and is prapta-vibhasha. In the case of others it is aprapta-vibhasha.

1 पलाश, 2 खदिर, 3 शिंशपा, 4 स्यन्दन (स्पन्दन), 5 पूलाक, 6 करीर, 7 शिरीष, 8 यवास, 9 विकङ्कत.

Kashika

पलाशादिभ्यः प्रातिपदिकेभ्यो वाञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। पालाशम्। खादिरम्। यावासम्। उभयत्र विभाषेयम्। पलाशखदिरशिंशपास्पन्दनानामनुदात्तादित्वात् प्राप्ते, अन्येषामप्राप्ते॥ पलाश। खदिर। शिंशपा। स्पन्दन। करीर। शिरीष। यवास। विकङ्कत। पलाशादिः॥

Siddhanta Kaumudi

पालाशम् । कारीरम् ॥

Balamanorama

पलाशादिभ्यो वा - पलाशादिभ्यो वा । ‘अ’ ञिति शेषः । अवयवे चेत्येव पलाशखदिररशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, इतरेषामप्राप्ते विकल्पोऽयम् ।

Tattvabodhini

पलाशादिभ्यो वा - पलाशादिभ्यो वा । उभयत्रविभाषेयम् । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, करीरशिरीषविकङ्कतपूलासयवासशब्दानामप्राप्तेविधानात् । पालाशमिति । पलाशब्दो घृतादित्वादन्तोदात्तः । खदिरशब्दः॒अजिरशिशिरे॑त्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दःअथ द्वितीयं प्रागीषा॑दिति वर्तमानेपान्तानां गुर्वादीना॑मिति मध्योदात्तः ।स्पदि किंचिच्चलने॒॑अनुदात्तेतश्च हलादे॑रिति युच् । कारीरमिति ।किरतेरीरन् । नित्रुओण करीरशब्दोऽयमाद्युदात्तः ।कृतृभ्यामीषन्शृपृभ्यां किच्च॑ । पूर्ववच्छिरीषशब्दोऽप्याद्युदात्तः । विकङ्कतपूलासयवासशब्दाःग्रामादीनां चे॑त्याद्युदात्ताः ।

Padamanjari

उभयत्रविभाषेयमिति । कथमित्याह - पलाशखदिरेत्यादि । पलाशशब्दो घृतादित्वादन्तोदातः । खदिरशब्दः ठजिरशिशरऽ इत्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दो’द्वितीयं प्रागीषात्’ इति वर्तमाने’पान्तादीनां गुर्वादीनाम्’ इति मध्योदातः ।’स्पदि किञ्चिच्चलने’ , ठनुदातेतश्च हलादेःऽ इति युच्, किरतेरीरन्, करीरम्,’कृहृभ्यामीषन्’ , शृपृभ्यां किच्चऽ, शिरीषम्, शेषे नित्स्वरेणाद्यौदातावेतौ । विकङ्कतमूलासयवासशब्दाः’ग्रामादीनां च’ इत्याद्यौदाताः ॥

Nyaas

एतयोः इति। किमनेन`इत्यादि चोद्यम्। `ये विशेषप्रत्ययाः इत्यादि परिहारः। आदिशब्देन उष्ट्राद्वुञ् (4.3.157) इत्येवमादयो गृह्यन्ते। यदि ह्रेतयोरिति नोच्येत, ततो य इति उत्तरे विशेषाः प्रत्ययाः अञादयः तैः सह सम्प्रसारणायां परत्वात् त एव स्युः। एतयोः इत्युच्यमाने तु विशेषप्रत्ययेष्वपि पक्षे भवन्ति, तेन कपोतमयमित्यादि सिद्धं भवति। अथ क्रियमाणे `एतयोः`इत्येतस्मिन्, कथमवादविषये मयड्? भवति? एतयोरित्यस्य द्वितीयविधानार्थत्वान्मयट्प्रत्ययो विकारावयवयोर्भवति। एकम् - विधानमेतयोरिति, मयड्भवतीति - द्वितीयम्। तत्र यद्येतदद्वितीयं विधानं तदा प्रापणार्थम्। तेन यत्रापि विशेषप्रत्ययैर्बाधितो विज्ञायते। तस्माद्वाग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

अञण् च । स्वरे भेदः । पालाशं, खादिरं, वैकङ्कतं- शांशपमित्यादि । ‘देविकाशिंशपा—’ (७-३-१) इत्यात्त्वम् ॥