Sutras 1 - 20¶
- 63001: अलुगुत्तरपदे
- 63002: पञ्चम्याः स्तोकादिभ्यः
- 63003: ओजःसहोऽम्भस्तमसः तृतीयायाः
- 63004: मनसः संज्ञायाम्
- 63005: आज्ञायिनि च
- 63006: आत्मनश्च पूरणे
- 63007: वैयाकरणाख्यायां चतुर्थ्याः
- 63008: परस्य च
- 63009: हलदन्तात् सप्तम्याः संज्ञायाम्
- 63010: कारनाम्नि च प्राचां हलादौ
- 63011: मध्याद्गुरौ
- 63012: अमूर्धमस्तकात् स्वाङ्गादकामे
- 63013: बन्धे च विभाषा
- 63014: तत्पुरुषे कृति बहुलम्
- 63015: प्रावृट्शरत्कालदिवां जे
- 63016: विभाषा वर्षक्षरशरवरात्
- 63017: घकालतनेषु कालनाम्नः
- 63018: शयवासवासिष्वकालात्
- 63019: नेन्सिद्धबध्नातिषु
- 63020: स्थे च भाषायाम्