63018: शयवासवासिष्वकालात्¶
Padacheda: शय-वास-वासिषु | S | 7 | 3 |
अकालात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The Locative -7th case-affix ending is optionally retained after the words 1. शय 2. वास and 3. वासिन् when the preceding word does not denote time and ends in a consonant or a short अ।
Vasu English Translation¶
The Locative -7th case-affix ending is optionally retained after the words 1. शय 2. वास and 3. वासिन् when the preceding word does not denote time and ends in a consonant or a short अ। Thus खेशयः, or खशयः, ग्रामेवासः or ग्रामवासः, ग्रामेवासिन् or ग्रामवासिन् ॥ After a time-name we have पुर्वाह्णशयः ॥ After a vowel ending word (other than अ) we have भूमिशयः ॥
Vart:- The Locative case-affix is retained after अप् when योनि, or the affix यत् or मतुप् follows. Thus अप्सुयोनिः, अप्सव्यः, अप्सुमन्तौ ॥ The affix यत् is added by treating अप् as belonging to the दिवादि class (अप्सु भवः, (4.3.54)).
Kashika¶
शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या विभाषालुग् भवति। खेशयः, खशयः। ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी। अकालादिति किम्? पूर्वाह्णशयः। हलदन्तादित्येव — भूमिशयः॥ अपो योनियन्मतुषु सप्तम्या अलुग् वक्तव्यः॥ अप्सुयोनिः। अप्सव्यः। अप्सुमन्तौ (आ० श्रौ० २.१३.३)। अप्सु भव इति दिगादित्वाद् (४.३.५४) यत् प्रत्ययः। सर्वत्र सप्तमीति योगविभागात् समासः॥
Siddhanta Kaumudi¶
खेशयः । खशयः । ग्रामेवासः । ग्रामवासः । ग्रामेवासी । ग्रामवासी । हलदन्तात् इत्येव । भूमिशयः ।<!अपो योनियन्मतुषु !> (वार्तिकम्) ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥
Balamanorama¶
शयवासवासिष्वकालात् - शयवास । शय, वास, वासिन्-एतेषु परेषु कालभिन्नात्सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात्सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति । दिगादित्वाद्यत् । ‘ओर्गुणः’वान्तो यी॑त्यवादेशः । अप्सुमन्ताविति । ‘अप्सु’ इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तौ, आज्यभागाविति कर्मविशेषौ ।
Padamanjari¶
अत्राकाल इत्यर्थगर्हण्, व्याख्यानात् । तदाहाकालवाचिन इति । खशय इति । अधिकरणे शेतेः इत्यच् । वास इति । घञ् । ग्रामेवासीति । सुप्यजातौ णिनिः । अपो योनीत्यादि । शब्दप्रधानत्वादप इत्येकवचनम्, योनिः - उत्पत्तिः अप्सुयोनिर्यस्य सोऽम्सुयोनिः । अप्सव्य इति । ओर्गुणः, वान्तो यि प्रत्यये । अप्सुमन्ताविति । सप्तम्यन्तान्तुपोऽसम्भवादप्स्विति शब्दो ययोरस्ति तावप्सुमन्तौ कारीर्यामाज्यभागौ, तयोर्हि अप्स्वग्ने सधिष्टवः, अप्सु मे सोमो अब्रवीत्, इत्यनुवाक्ययोरप्सुशब्दोऽस्ति । यद्येवम्, अनुकरणत्वादस्यवामीयादिवल्लुगन भविष्यतीति किं मतुब्ग्रहणेन अन्य तु मतिशब्दं पठन्ति, उदारहन्ति - अत्र सोमो वाप्सुमतिरिति ततु भाष्ये न दृष्टम् ॥ नेन्त्सिद्धबध्नातिषु च ॥ तत्पुरुषे कृति बहुलम् इति प्राप्तं प्रतिषिध्यते, सप्तम्यांः परस्याः परस्य केवलस्येनोऽसम्भवादुतरपदाधिकारेऽपि प्रत्ययग्रहणे तदन्तविधिरित्याह - इन्नन्त उतरपद इति । स्थण्डिलवर्तीति । व्रते इति णिनिः । उपपदसमासः । साङ्काशयसिद्ध इति । सिद्धशुष्कपक्वबन्धैश्चेति समासः । चारबद्ध थैति । बद्धशब्दो निष्ठान्तः । योगविभागात् समास इति । बद्धशब्देन । तदिति । बन्ध इत्येव शब्दरुपम् । अथ धञन्तः कस्मान्न भवति तत्राह धञन्ते हीति । अथ वा - पचाद्यजन्ते च बन्धे च विभाषा इत्ययं विकल्पः कस्मान्न भवति इत्यत आह - धञन्ते हीति ॥
Nyaas¶
खेशयः इति। अधिकरणे शेतेः (3.2.15) इत्यच्। ग्रामेवासः इति। वसनं वासः, भावे घञ्। ग्रामेवासी इति। ताच्छीलिको णिनिः, व्रते वा। पूर्वाह्णशयः इति। ननु च स्वरूपग्रहणे सति कालशय इति प्रत्युदाहार्यम्, नैवेदं स्वरूपग्रहणम्। किं तर्हि? अर्थग्रहणम्। अत एव वृत्तावुक्तम् -अकालवाचिनः इति। कथं पुनरर्थग्रहणं लभ्यते? पूर्वसूत्रादिह नामग्रहणानुवृत्तेः। यद्येवम्, तदा नार्थः कालग्रहणेन घकालतनेषु कालनाम्नः (6.3.17) इत्येतदनुवर्तिष्यते, तस्य च नञा सह सम्बन्धं करिष्यामः -कालनाम्नो नेति, तत्रायमर्थः -नेन्सिद्धबध्नातिषु च (6.3.19) [नेन्सिद्ध इति प्राचीनमुद्रितपाठः] इत्यत्र नेति वक्तव्यं न भवति, नेत्येतदेव ह्रनुवर्त्तिष्यते? नैवं शक्यम्; न शयवासवासिषि इत्युच्यमाने ह्रलुक एवायं प्रतिषेधो विज्ञायेत, तस्यात्र विधेयतया प्रस्तुतत्वात्। तस्मात्? कालस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं कालग्रहणं कर्तव्यम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्॥
Prakriyasarvasvam¶
एषु परेषु सप्तम्या अलुग्वा स्यात् । कालात् तु न । तल्पेशयः । तल्पशयः । वनेवासः । वनवासः । घञ् । वने वासी, वनवासी । कालात् तु निशीथशयः । ‘अपो योनियन्मतिषु’ । अप्सुयोनिरग्निः । अप्सव्यः । दिगादियत् । अप्सुमतिः पान्थः ॥
Vartika¶
अपो योनियन्मतुषु ।
Sutra Prayogas¶
सप्तार्णवजलेशयम् (रघुवंशम्): शयवासवासिष्वकालात् इत्यलुक्।
वृक्षेशया (रघुवंशम्): शयवासवासिष्वकालात् इत्यलुक्सप्तम्याः।
सागरशयस्य (शिशुपालवधम्): शयवासवासिष्वकालात् इति विकल्पादलुगभावः।
स्वर्गेवासं (शिशुपालवधम्): शयवासवासिष्वकालात् इति विकल्पादलुक्।
वने-वास (भट्टिकाव्यम्): शय-वास - वासिषु इति विभाषा- सप्तम्या अलुक् ।
वन-वासि-मुख्याः (भट्टिकाव्यम्): शयवासवासिष्वकालात् इत्यादिना विकल्पेन सप्तम्या अलुक्।
वन-शयान् (भट्टिकाव्यम्): शय- वास- वासिषु इत्यादिना सप्तम्या विभाषा अलुक्।