63015: प्रावृट्शरत्कालदिवां जे¶
Padacheda: प्रावृट्-शरत्-काल-दिवाम् | S | 6 | 3 |
जे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The Locative -7th case-affix ending is retained after 1. प्रावट् 2. काल and 3. दिव् when ज follows.
Vasu English Translation¶
The Locative -7th case-affix ending is retained after 1. प्रावट् 2. काल and 3. दिव् when ज follows. Thus प्रावृषिजः, शरदिजः, कालेजः, दिविजः ॥ This sutra is but an extension or amplification of the previous sutra.
Kashika¶
प्रावृट् शरत् काल् दिव् इत्येतेषां ज उत्तरपदे सप्तम्या अलुग् भवति। प्रावृषिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्यैवायं प्रपञ्चः॥
Siddhanta Kaumudi¶
प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥
Balamanorama¶
प्रावृट्शरत्कालदिवां जे - प्रावृट्शरत् । प्रावृट्, शरत्, काल, दिव्-एषां सम्या अलुक् स्याज्ज शब्दे परे संज्ञायामित्यर्थः । ननुहलदन्ता॑दित्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैवायं प्रपञ्चेति । विस्तर इत्यर्थः ।
Padamanjari¶
प्रावृट्शरदोः पृथग्ग्रहणात्कालेति स्वरुपग्रहणम् ॥
Nyaas¶
प्रावृषिजः इति। सप्तम्यां जनेर्डः (3.2.97) , टेः (6.4.143) इति टिलोपः, अपपदमतिङ (2.2.19) इति समासः॥
Prakriyasarvasvam¶
एभ्यः सप्तम्या जे परेऽलुक् स्यात् । प्रावृषिजः । शरदिजः । कालेज़ः । दिविजः ॥
Sutra Prayogas¶
प्रावृषि-जाऽम्भो-द- (भट्टिकाव्यम्): प्रावृट् इत्यादिना सप्तम्या अलुक्।
सध्रीचीं (भट्टिकाव्यम्): सहस्य सधिः इत्यञ्चतौ वप्रत्यये सहस्य सध्यादेशः।