63008: परस्य च

Padacheda: परस्य | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The Dative -4th Case endings is not elided after पर when the compound is the name of a technical term in grammar.

Vasu English Translation

The Dative -4th Case endings is not elided after पर when the compound is the name of a technical term in grammar. Thus परस्मैपदम्, परस्मभाषा ॥

Bhashya

परस्य च (2867) (6397 उपसंख्यानवार्तिकम् ॥ 1 ॥) - आत्मनेभाषपरस्मैभाषयोरुपसंख्यानम् - आत्मनेभाषपरस्मैभाषयोरुपसंख्यानं कर्तव्यम् । आत्मनेभाषः, परस्मैभाषः ॥ (उपसंख्यानप्रयोजनभाष्यम्) तत्कथं कर्तव्यम् ? यदि व्याकरणे भवा - वैयाकरणी, वैयाकरणी आख्या - वैयाकरणाख्या, वैयाकरणाख्यायामिति ॥ अथ हि वैयाकरणानामाख्या - वैयाकरणाख्या, वैयाकरणाख्यायामिति, नार्थ उपसंख्यानेन ॥ (उपसंख्यानस्य निष्प्रयोजनत्वबोधकभाष्यम्) यद्यपि व्याकरणे भवा - वैयाकरणी, वैयाकरणी आख्या - वैयाकरणाख्या, वैयाकरणाख्यायामिति, एवमपि नार्थ उपसंख्यानेन । वचनाद्भविष्यति । अस्ति वचने प्रयोजनम्- आत्मनेपदम्, परस्मैपदमिति । निपातनादेतत् सिद्धम् । किं निपातनम् ? अनुदात्तङित आत्मनेपदम् शेषात्कर्तरि परस्मैपदम् (1-3-12;78) इति ॥

Kashika

परस्य च या चतुर्थी तस्या वैयाकरणाख्यायामलुग् भवति। परस्मैपदम्। परस्मैभाषा॥

Siddhanta Kaumudi

परस्मैपदम् । परस्मैभाषाः ॥

Tattvabodhini

परस्य च। परशब्दस्य च या चतुर्थी तस्या अलुक् स्याद्वैयाकरणाख्यायाम्।

Padamanjari

किमथेमिदमुच्यते अलुग् यथा स्यात् - परस्मैपदम्, परस्मैभाषः । सिद्धोऽत्रालुक् पूर्वेणेव न सिध्यति आत्मनः इति तत्र वर्तते । निवर्तिष्यते यदि निवर्तेत, तेभ्यो हितास्तद्धिता इत्यत्रापि प्राप्नोति । तस्मात् अत्मनः थैति तत्रानुवर्तते, तस्मश्चानुवर्तमाने परस्य चेति वक्तव्यम् ॥

Prakriyasarvasvam

परस्मैपदम् । परस्मैभाषः । ब्रह्मणाच्छंसीत्यत्र पञ्चम्या अलुग्वाच्यः । ब्राह्मणादाहत्य सूक्तानि शंसतीति ब्राह्मणाच्छंस्यृत्विग्भेदः । ‘हलदन्तात्सप्तम्या ०’ इत्यत्र हृद्युभ्यां ङेरलुग्वाच्यः । हृदिस्पृक् । दिविस्पृक् ॥