63017: घकालतनेषु कालनाम्नः¶
Padacheda: घ-काल-तनेषु | S | 7 | 3 |
कालनाम्नः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The Locative -7th case-affix ending is optionally retained after a word denoting time ending in a consonant or अ when तरप् or तमप् or the word काल or the affix तन follow.
Vasu English Translation¶
The Locative -7th case-affix ending is optionally retained after a word denoting time ending in a consonant or अ when तरप् or तमप् or the word काल or the affix तन follow. The affixes त॒र॒ and त॒म॒ are called घ (1.1.22). Thus घ :- पूर्वाह्णतरे or पूर्वाह्णेतरे, पूर्वाह्णेतमे or पूर्वाह्णतमे ॥ काल :- पूर्वाह्णेकाले or पूर्वाह्णकाले ॥ तन :- पूर्वाह्णेतने or पूर्वाह्णतमे ॥ Why do we say ‘after a time-name’? Observe शुक्लतरे, शुक्लतमे ॥ The condition that the preceding word should end in a consonant or अ applies here also. Thus no option is allowed in रात्रितरायाम् ॥
As a general maxim, an affix denotes whenever it is employed in Grammar a word-form which begins with that to which that affix has been added, and ends with the affix itself (प्रत्ययग्रहणे यस्मात् स विहितस्तदादे स्तदन्तस्य ग्रहणम्) ॥ Thus the word थ, अथ &c in (6.2.144) means a word ending in थ affix &c. But in this chapter, so far as the jurisdiction of उत्तरपदे goes, an affix does not denote a word-form ending in that affix, on the following maxim : उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्त ग्रहणम्; on the contrary the affix denotes its own-form. Thus तर, तम and तन here do not denote a word ending in these affixes. This rule we infer from the fact that in sutra (6.3.50), the author declares “हृद् is the substitute of हृदय when the word लेख, and the affixes यत्, अण्, and लास follow”. Had the affix अण् here meant the word-form ending in अण्, then there would have been no necessity of using the word लेख in the sutra, as लेख is formed with the अण् affix. The word काल in the aphorism means the word-form काल ॥ See Sutra (4.3.23) for the affix तन ॥
Kashika¶
घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतः कालनाम्न उत्तरस्याः सप्तम्या विभाषालुग् भवति। घ — पूर्वाह्णेतरे, पूर्वाह्णतरे। पूर्वाह्णेतमे, पूर्वाह्णतमे। काल — पूर्वाह्णेकाले, पूर्वाह्णकाले। तन — पूर्वाह्णेतने, पूर्वाह्णतने। कालनाम्न इति किम् ? शुक्लतरे। शुक्लतमे। हलदन्तादित्येव — रात्रितरायाम्। उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नेष्यते (परि॰ २५) हृदयस्य हृल्लेख॰ (६.३.५०) इति लेखग्रहणाद् लिङ्गात्। तेन घतनग्रहणे तदन्तग्रहणं न भवति। काल इति न स्वरूपग्रहणम्॥
Siddhanta Kaumudi¶
सप्तम्या विभाषाऽलुक् स्यात् । घे । पूर्वाह्णेतरे । पूर्वाह्णतरे । पूर्वाह्णेतमे । पूर्वाह्णतमे । काले । पूर्वाह्णेकाले । पूर्वाह्णकाले । तने । पूर्वाह्णेतने । पूर्वाह्णतने ॥
Balamanorama¶
घकालतनेषु कालनाम्नः - घकालतनेषु । शेषपूरणेन सूत्रं व्याचष्टे — सप्तम्या इति । घेति घे परे उदाहरणसूचनमिदम् ।तरप्तमपौ घः॑ । पूर्वाह्णेतरे इति । अतिशायने सप्तम्यन्तात्तरप्तमपौ । अत एव तत्तद्विभक्त्यन्तात्तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्णेकाले इति । अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव । तनेति । उदाहरणसूचनमिदम् । पूर्वाह्णेतने इति ।विभाषा पूर्वाह्णापराह्णाभ्या॑मिति ठ्युठ्युलौ, तुट् च ।
Padamanjari¶
घ इति तरप्तमपोर्ग्रहणम्। काल इति स्वरुपग्रहण्, तन इति ट।लुट।लुलोरादेशस्य सतुट्कस्य ग्रहणम् । एपूर्वाह्णेतनमिति । सप्तम्यर्थप्रकर्षे प्रत्यः, तस्याद्रव्यप्रकर्षत्वादलुक्पक्षे, किमेतिङ्व्ययघात् इत्यामुप्रत्ययः । लुक्पक्षे तु निमिताभावादद्रव्यप्रकर्षेऽप्यामभावः । तरबन्तात् सप्तमी । क्वचितु - अलुक्पक्षेऽपि सप्तमी समुदायात्पठ।ल्ते, तत्र प्रकृत्यर्थविवक्षया अद्रव्यप्रकर्षे इति प्रतिषेधो व्याख्येयः । पूर्वह्णे इति । विभाषा पूर्वह्णापराह्णाभ्याम् इति ट।लुट।लुलौ, अनादेशास्तुट् च । कथं पुनर्घतनप्रत्ययमात्रेऽलुक् उदाहृतः, यावता प्रत्ययग्रहकणवरिभाषया तदन्त उतरपदेऽलुगुदारर्तव्यः अत आह - उतरपदाधिकार इति । कुत इत्याह । लेखग्रहणादिति । यदयम् हृदयस्य हृल्लेखयदणलासेषु इत्यण्ग्रहणे क्रियमाणे लेखग्रहणं करोति, तज्झापयति - नोतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्भवतीति । यदि स्यात्, लेखगर्हणं न कुर्यात् अणन्त इत्येव सिद्धत्वात् । ननु च घञर्थं लेखगर्हणं स्यात्, न वै घञन्त इष्यते । कालेति न स्वरुपग्रहणमिति । नामग्रहणात् । क्वचिन्नञ् न पठ।ल्ते, तत्र घकाले स्वरुपग्रहणमित्यर्थः ॥
Nyaas¶
घ इति तरपतमपोर्गहणम्, काल इति कालवाचिनः शब्दस्य, तन इति टउटउलोरनादेशस्य सतुट्कस्य। पूर्वाह्णेतराम् इति। अह्नः पूर्वमिति विगृहय पूर्वापर (2.2.1) इत्यादिनैकदेशिसमासः। राजाहः - सखिभ्यष्टच् (5.4.91) इति टच्? समासान्तः, अह्नोऽहन एतेभ्यः (5.4.88) इत्यह्नादेशः। अह्नोऽदन्तात् (8.4.7) इति णत्वम्। अस्मश्च पूर्वाह्णे अस्मश्च पूर्वाह्णे, अस्मिस्त्वनयोरतिशयेन पूर्वाह्णे पूर्वाह्णेतर इति। द्विवचन (5.3.57) इत्यादिना तरप्। पूर्वाङ्णेतमाम् इति। अतिशायने (5.3.55) इत्यादिना तमप्, कृत्तद्धितसमासाश्च (1.2.46) इति प्रादिपदिकत्वे सति सुब्लुक्? प्राप्तः पक्षे प्रतिषिध्यते। पूर्वाह्णेतने इति। पूर्वाह्णेतरे इत्यत्रार्थे विभाषा पूर्वाह्णापराह्णाभ्याम् (4.3.24) इति टउटउलौ तुडागमश्च, युवोरनाकौ (7.1.1) इत्यटनादेशः। `रात्रितरायाम् इति। अस्याञ्च रात्रावस्याञ्च रात्रावनयोरतिशयेन रात्राविति विग्रहः। ननु च प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेस्तदन्तस्य (पु।प।वृ।44) इति तदन्तग्रहणं भवतीति घसंज्ञकप्रत्ययान्ते तनप्रत्ययान्ते चोत्तरपदे परतोऽलुगुदाहर्तवयः, तत्? कस्मात्? प्रत्ययमात्रे स उदाहृतः? इत्याह - उत्तरपदाधिकारे इत्यादि। कुतः पुनरेतदित्याह - लेखग्रहणात् इत्यादि। हृदयस्य हृल्लेखयदण्लासेषु (6.3.50) इत्यत्राणो लेखशब्दस्य चाणन्तस्य भेदनोपादनम्। तत्र यद्युत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तरविधिरिष्यते तदा लेखग्रहणं न कुर्यात्; अण्ग्रहणेनैव तद्ग्रहणस्य सिद्धत्वात्, क्रियते च। तस्माल्लेखग्रहणाद्विज्ञायते - उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नेष्यते (पु।प।26) इति। तेने इति। तदन्तविधेरिहानिष्टत्वेन। काल इति न स्वरूपग्रहम् इति। नामग्रहणात्। तस्य ह्रेतदेव प्रयोजनम्॥
Prakriyasarvasvam¶
घसंज्ञकयोस्तरप्तमपोः कालशब्दे तने च परे सप्तम्या अलुग् वा स्यात् । तेन पूर्वाह्णेतनमपराह्रेतनमित्यपि । वेत्युक्तेः कालाट्ठञ् । पौर्वाह्णिकम् । आपराह्णिकम् । एते शैषिका जातादिषु यथार्हं योज्याः ॥