63013: बन्धे च विभाषा¶
Padacheda: बन्धे | S | 7 | 1 |
च | S | 0 | 0 |
विभाषा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The Locative -7th case-affix is optionally not elided after a word ending in a consonant or अ before बन्ध।
Vasu English Translation¶
The Locative -7th case-affix is optionally not elided after a word ending in a consonant or अ before बन्ध। Thus हस्तबन्धः or हस्तबन्धः, चक्रेबन्धः or चक्रबन्धः ॥ This declares an option, with regard to the last rule, in a Bahuvrihi when the first member is a स्वाङ्ग word, and also it is an option to (6.3.19), when the compound is a Tatpurusha, whether the first be स्वांग or not. The word बन्धः is घञ् formed word. When the first member ends in a vowel (other than अ), the rule does not apply. As गुप्तिबन्धः ॥
Bhashya¶
बन्धे च विभाषा (2872) (विषयनिर्धारणे पूर्वपक्षिभाष्यम्) स्वाङ्गग्रहणमनुवर्तते, उताहो न । किं चातः ? यद्यनुवर्तते, सिद्धम् - हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः, चक्रबन्ध इति न सिध्यति । अथ निवृत्तम्, सिद्धम् - चक्रेबन्धः, चक्रबन्धः । हस्ते बन्धः, हस्तबन्ध इति न सिध्यति । किं कारणम् ? नेन्सिद्धबध्नातिषु च (6.3.39) इति प्रतिषेधः प्राप्नोति ॥ (विषयनिर्धारणे सिद्धान्तभाष्यम्) नैष दोषः । सर्वत्रैवोत्तरपदाधिकारे तत्पुरुषे कृति बहुलम् (14) इति प्राप्ते नेन्सिद्धबध्नातिषु इति प्रतिषेध उच्यते, तस्मिन्नित्ये प्राप्ते इयं विभाषा आरभ्यते ॥ एवमपि न ज्ञायते - कस्मिन् विषये विभाषा कस्मिन् विषये प्रतिषेध इति । घञ्ञन्तस्येदं बन्धशब्दस्य ग्रहणम्, प्रतिषेधेषु च धातुग्रहणम् । तेन घञ्ञन्ते विभाषा, अन्यत्र प्रतिषेधः ॥
Kashika¶
बन्ध इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या विभाषालुग् भवति। हस्तेबन्धः, हस्तबन्धः। चक्रेबन्धः, चक्रबन्धः। उभयत्रविभाषेयम्। स्वाङ्गाद्धि बहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वाङ्गात् च नेन्सिद्धबध्नातिषु च (६.३.१९) इति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव — गुप्तिबन्धः॥
Siddhanta Kaumudi¶
हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः ॥
Balamanorama¶
बन्धे च विभाषा - बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे — हलदन्तादिति । बस्तेबन्ध इति । संज्ञायामिति सप्तमीत्तपुरुषोऽयम् । इह तत्पुरुष इति संबध्यते, ‘बन्ध’ इति घञन्तम्, अन्यत्र तुनेन्सिद्धे॑ति निषेध इति स्पष्ट भाष्ये ।
Tattvabodhini¶
बन्धे च विभाषा - बन्धे च विभाषा । बन्ध इति घञन्तः । हस्तेबन्ध इति । बहुव्रीहिरयम् । तत्पुरुषे तु नेन्सिद्धबन्धातिषु चेति वक्ष्यमाणेन निषेध एवेत्याहुः । अप्सव्य इति । दिगादित्वाद्यति ओर्गुणे वान्तादेशः । प्राचा तु यतः स्थाने जं पठित्वा अप्सुजः इत्युदाहृतं, तदाकरविरुद्धम् । अपो योनियन्मतुषु । अप्सुमन्ताविति । कारीर्यामप्स्वग्ने सधिष्ठव अप्सु मे सोमो अब्रावीदित्याज्यभागमन्त्रौ स्तः । तत्र ह्रप्सुशब्दोऽस्तीति तद्द्वारा आज्यभागयोरप्यप्सुमत्त्वम् । प्राचा तु मतिषु इति पठित्वा अप्सुमतिः इत्युदाहृतम् । अत्र केचित् - अप्स्वित्येतदनुकरणशब्दः सप्तम्यन्तो न वा । आद्ये सप्तम्यान्तात्प्रथमाया अभावेन मतुबेव दुर्लभः । अन्त्ये तु लुकः प्राप्तिरेव नास्ति, सप्तम्यभावात् । तथा च मतिषु इति प्राचोक्तः पाठ एव युक्तः । न च स पाठो भाष्यादौ न दृष्ट इति वाच्यं, मतिषु इति पाठस्य अप्सुमतिः इत्युदाहरणस्य च भाष्यवृत्त्यादिपुस्तकेषु दृश्यमानत्वेन मतुष्विति पाठस्यैव क्काप्यदर्शनात्, व्यर्थत्वाच्च । अस्यवामीयं कथाशुभीयम् इत्यादाविव लुकि कर्तव्ये प्रकृतिप्रकृतिवदनुकरणमित्यतिदेशाऽप्रवृत्त्यैवेष्टसिद्धेरित्याहुः ।
Padamanjari¶
स्वाङ्गात् इतदि निवृत्त्म्, सामान्यनायं विधिः । बन्धे इति धातुरेवात्र सहकारेणाऽनुकृतः । नेन्त्सिद्धबध्नादिषु चेति धातावेव प्रतिषेध उक्तः, ततश्च बहुव्रीहिरेवास्य विकल्पस्य विषयः । तत्रापि हस्तबन्धादौ स्वाङ्ए प्रप्तविभाषा, चक्रबन्धादावस्वाङ्गे त्वप्रप्तविभाषेत्युभयत्रविभाषा समापद्यते तपुरुषे तु नैवास्य प्रवृत्तिः इतीमां शङ्कामपनयति बन्ध इति घञन्तो गृह्यत इति । ततश्च तत्पुरुषेऽपि घञन्तस्य वृत्तिर्विरुद्धा, प्रतिषेधस्य बन्धनादौ चरितार्थत्वादिति भावः । उभयत्र विभाषेयमिति । कथमित्याह - स्वाङ्गाद् बहुव्रीहाविति । तत्पुरुषे त्विति । यद्यपि बहुव्रीहावेवास्वाङ्गादप्राप्त इति शक्यं वक्तुम्, तथाप्यस्य तत्पुर्षे प्रवृत्ति दर्शीयितुं तत्पुरुषे चास्य प्रवृत्तिः पूर्वविप्रतिषेधेन अन्यथा बहुव्रीहिरस्यावकाशः, बध्नातिप्रतिषेधस्य च बन्धनादिरषकाशः घञन्ते तु तत्पुरुषे उभयप्रसणेóगे परत्वात्प्रतिषेध एव स्यात् ॥
Nyaas¶
स्वाङ्गात् (6.3.11) इति निवृत्तम्, सामान्येन विधिः। बन्धे इति। बध्नातेरेतद्रूपम्। नेन्सिद्धबध्नातिषु (6.3.19) इत्यनेन तत्पुरुषे बध्नातौ प्रतिषेधं वक्ष्यन्ति। तत्र विषयविभागो न ज्ञायते -तत्पुरुषे क्व च प्रतिषेधः? इत्यतस्तत्परिज्ञानार्थमाह -बन्ध इति धञन्तो गृह्रते इति। बन्धनं बनधः, भावे घञ्। अनेन धञन्ते बध्नातौ विभाषा। प्रत्ययान्तरे तु प्रतिषेध इति दर्शितं भवति। कथं पुनज्र्ञायते -घञन्तोऽयमिति? आद्युदात्तत्वात्। हस्तेबन्धः इति। तत्पुरुषः, बहुव्रीहिर्वा। उभयत्र इति। प्राप्ते चाप्राप्ते च कथं पुनरुभयत्र विभाषेयम्? इत्याह -स्वाङ्गाद्धि इत्यादि॥
Prakriyasarvasvam¶
घञन्ते बन्धे परे हलदन्तात् सप्तम्या अलुग्वा स्यात् । हस्तेबन्धः हस्तबन्धः । बहुव्रीहिस्तत्पुरुषो वायम् । तत्पुरुषे कृतीति बहुलोक्तेः वारान्निध्य- पार्षतिवाचस्पतिदिवस्पत्यादि । अन्त्ययोः सुडुक्तः । वासोष्पतिस्तु वास्तोष्पतिर्गृह- मेधादित्युक्त्यैव सिद्धः । गोषुचरो वर्षासुचर इति च हरोक्तौ ॥