63001: अलुगुत्तरपदे

Padacheda: अलुक् | S | 1 | 1 |

उत्तरपदे | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the following sūtras up to विभाषा स्वसृपत्योः (6.3.24), inclusive, is always to be supplied the phrase ‘the elision does not take place before the second member of the compound’.

Vasu English Translation

In the following sūtras up to विभाषा स्वसृपत्योः (6.3.24), inclusive, is always to be supplied the phrase ‘the elision does not take place before the second member of the compound’. The words अलुक् ‘there is no elision’, and उत्तरपदे “before the second member” are to be supplied in the subsequent sutras. Both these words govern the sutras upto (6.3.24), jointly; while उत्तरपदे extends further upto that point whence commences the jurisdiction of अङ्ग (6.4.1). Thus sutra (6.3.2) says “the affixes of the Ablative after ‘stoka’ &c”. The present sutra should be read there to complete the sense, e. g. “the affixes of the Ablative after stoka &c are not elided before the second member of the compound”. Thus स्तोकात् मुक्तः = स्तोकान्मुक्तः, अल्पान्मुक्तः ॥ Why do we say “before the second member”? Observe निष्क्रान्तः स्तोकात् = निःस्तोकः ॥ The maxim of pratipadokta does not apply here.

Bhashya

अलुगुत्तरपदे (2860) (अलुगधिकरणम्) (अधिकारमर्यादानिर्णयभाष्यम्) आ कुतोऽयमधिकारः ? अलुगधिकारः प्रागानङः । उत्तरपदाधिकारः प्रागङ्गाधिकारात् ॥ (अधिकारप्रयोजनजिज्ञासाभाष्यम्) कानि पुनरुत्तरपदाधिकारस्य प्रयोजनानि ? (6383 अधिकारप्रयोजनवार्तिकम् ॥ 1 ॥) - उत्तरपदाधिकारस्य प्रयोजनं स्तोकादिभ्योऽलुगानङिकोह्रस्वनलोपाः - पञ्चम्याः स्तोकादिभ्यः (6.3.2) स्तोकान्मुक्तः, अल्पान्मुक्तः, कतिपयान्मुक्तः । उत्तरपद इति किमर्थम् ? निष्क्रान्तः स्तोकात् - निः स्तोकः ॥ आनङिकोह्रस्वनलोपाः प्रयोजनम् । आनङ् - होतापोतारौ । उत्तरपद इति किमर्थम् ? होतापोतृभ्याम् ॥ इको ह्रस्वोऽङ्यो गालवस्य (61) प्रयोजनम् । ग्रामणिकुलम्, सेनानिकुलम् । उत्तरपद इति किमर्थम् ? ग्रामणीः, सेनानीः । उत्तरपद इति किमर्थम् ? परमन । नैषोऽस्ति प्रयोगः । इदं तर्हि - नतरां गमनम् ॥ (6384 उपसंख्यानवार्तिकम् ॥ 2 ॥) - एकवच्च - एकवच्चालुग्भवतीति वक्तव्यम् । किं प्रयोजनम् ? स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इति विगृह्य स्तोकान्मुक्त इत्येव यथा स्यात् ॥ (6385 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 3 ॥) - एकवद्वचनमनर्थकम् - एकवद्भावश्चानर्थकः ॥ द्विबह्वोरलुक्कस्मान्न भवति ? (6386 अनिष्टनिरासवार्तिकम् ॥ 4 ॥) - द्विबहुष्वसमासः - द्विवचनबहुवचनान्तानामसमासः । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? (6387 अनिष्टनिराससाधकवार्तिकम् ॥ 5 ॥) - उक्तं वा - किमुक्तम् ? अनभिधानादिति ॥ तच्चावश्यमनभिधानमाश्रयितव्यम् ॥ (6388 अनभिधानप्रयोजनवार्तिकम् ॥ 6 ॥) - एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः - एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः स्यात् । गोषुचरः ॥ (6389 अनभिधानप्रयोजनवार्तिकम् ॥ 7 ॥) - वर्षाभ्यश्च जे - वर्षाभ्यश्च जेऽतिप्रसङ्गो भवति । वर्षासुजः ॥ (6390 अनभिधाने दोषवार्तिकम् ॥ 8 ॥) - अपो योनियन्मतिषु चोपसंख्यानम् - अपो योनियन्मतिषु चोपसंख्यानं कर्तव्यम्, जे चरे च तत्रातिप्रसङ्गो भवति । योनि - अप्सुयोनिः । योनि ॥ यत् - अप्सव्यम् । यत् ॥ मति - अप्सुमतिः । मति ॥ जे - अप्सुजः । जे ॥ चरे - अप्सु चरो गह्वरेष्ठाः ॥

Kashika

अलुगिति च, उत्तरपद इति चैतदधिकृतं वेदितव्यम्। यदित ऊर्ध्वमनुक्रमिष्यामोऽलुगुत्तरपद इत्येवं तद् वेदितव्यम्। वक्ष्यति — पञ्चम्याः स्तोकादिभ्यः (६.३.२)। स्तोकान्मुक्त ः। अल्पान्मुक्त ः। उत्तरपद इति किम्? निष्क्रान्तः स्तोकाद् निःस्तोकः। अन्यार्थमिद — मुत्तरपदग्रहणमिहाप्यलुको निवृत्तिं करोतीत्येवमर्थं लक्षणप्रतिपदोक्त परिभाषा नाश्रयितव्या। अलुगधिकारः प्रागानङः (६.३.२५)। उत्तरपदाधिकारः प्रागङ्गाधिकारात् (६.४.१)॥

Siddhanta Kaumudi

अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥

Balamanorama

अलुगुत्तरपदे - अथाऽलुक्समासो निरूप्यते — अलुगुत्तरपदे । नाऽयं विधिः, ‘राजपुरुष’ इत्यादावतिप्रसङ्गात्,पञ्चम्याः स्तोकादिभ्यः॑ इत्याद्यारम्भाच्च । किंतु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्याह-अलुगधिकारः प्रागानङ इति । ‘आनङृतः’ इत्यतः प्रागित्यर्थः । उत्तरपदेति । षष्ठस्य तृतीये पादे अद्यमिदं सूत्रम् । #इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोतत्रपदादिकारनियमे भाष्येमेव प्रमाणम् ।

Tattvabodhini

अलुगुत्तरपदे - अलुक्सयादिति । प्रसज्यप्रतिषेधोऽयम् । सुपो धात्वित्यादिना प्राप्तो लुङ्ग भवतीत्यर्थः ।

Padamanjari

अलुगिति चेत्यादि । प्रत्येकं स्वरितत्वप्रतिज्ञानं दशेयति, अस्य पोरयोजनम् - एकस्य निवृतावपरस्य निवृत्तिर्मा भूदिति । स्तोकान्मुक्त इति । करणे च स्तोकाल्पकृच्छ्र इत्यादिना पञ्चमी, स्तोकान्तिक इत्यादिना समासः । उतरपद इति किमिति । लुक् तावत्समास एव प्राप्तः प्रतिषिध्यते इति सामर्थ्यादुतरपद तैत्येतल्लभ्यते । नलोपो नञः इत्यादौ च न समासे इत्ययो हि समासग्रहणानुवृतेरुतरपदलाभात् नतरामित्यादौ नञो नलोपाद्यभावः सिद्ध इति पश्नः । निस्तोक इति । अत्रोतरपदभूतेभ्योऽपि स्तोकादिभ्यः परस्याः पञ्चम्या अलुक्प्रसङ्गः । ननु च लक्षणप्रतिपदोक्तपरिभाषया स्तोकादिभ्यः प्रतिपदं या पञ्चमी विहिता, यश्च तेषां प्रतिपदोक्तः समासस्तस्या एव तत्रैव वा लुग्भविष्यति, तत्किमेतन्निवृत्यर्थेनोतरपदग्रहणेन इत्यत आह - अन्यार्थमित्यादि । आनण्ःóतो द्वन्द्वे उतरपदे परतो यथा स्यात्, उतरपदस्य मा भूद् - होतापोतारौ, तान्यथा परमपि सर्वनामस्थानापेक्षत्वेन बहिरङ्गम ऋतो ङ् गुणिं बाधित्वा द्वन्द्वक्रियानन्तरप्राप्त आनङ् स्यात्, होतापोतृभ्यामित्यादौ च स्यादेव । तथा इको ह्रस्वोऽङ्यो गालवस्य इति उतरपदे यथा स्याद् , ग्रामणीरित्यादावुतरस्य पदस्य मा भूदित्येवमाद्यर्थमुतरपदाधिकारोऽवश्यं कर्तव्यः स इहैव क्रियेत, समासानुवृत्तिः - लक्षकणप्रतिपदोक्तपरिभाषा नाक्षयितव्या भवतीति । आ कुत तैमावधिकारौ इत्यपेक्षायामाह - अलुगधिकार इत्यादि । ऋकारान्तस्य ह्युतरपदेऽनन्तरे पितृपुत्र इत्यादौ आनङ भवितव्यम् । यदि चात्रालुक् स्याद्विभक्त्या व्यवधानं स्यात् । यद्वा - साक्षान्निर्दिष्टमानङदिकार्यं प्रकरणप्प्तस्यालुको निवर्तकमिति अलुगधिकारः प्रगानङ्ः तथाङ्गस्य विधीयमानं कार्यं यत्राङ्गमित्येतद्भवति तत्रैव भवति । कस्मिंश्चैतद्भवति प्रत्यये, न तूतरपद तथैति सामर्थ्याद् उतरपदाधिकारः प्रागङ्गाधिकारात् ॥

Nyaas

स्तोकान्मुक्तः, अल्पान्मुक्तः इति। करणे स्तोकाल्पकृचछ्रकतिपयस्यासत्ववचनस्य (2.3.33) [करणे च -पा।सू।] इति पञ्चमी, स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (2.1.39) इति समासः। ननु च वनं समासे (6.2.178) इत्यतः समासगरहणमनुवर्तिष्यते, समासे च नियतं सन्निहितमुत्तरपदम्, अतोऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदं लभ्यत इत्यभिप्रायेणाह -उत्तरपदमिति किम् इति। निःस्तोकः इति। निरादयः क्रान्ताद्यर्थे पञ्चम्या (वा।94) इति प्रादिसमासः। एवं मन्यते -असत्युत्तरपदग्रहणे समासे ये स्तोकादय उत्तरपदभूताः पूर्वपदभूता वा, तेभ्य उत्तरस्याः पञ्चभ्या अलुग्भवतीत्येतावन्मात्रं लभ्यते, न तूत्तरपदे परतो ये स्तीकादय इत्येष विशेषः। ततश्च निःस्तोक इत्यत्राप्यलुक्? स्यात्। भवति ह्यत्रापि समासवर्तिनः स्तोकादेः शब्दादुत्तरा पञ्चमीति। नन्वेवमपि न कर्तव्येमेवोत्तरपदग्रहणम्, लक्षणप्रतिपदोक्तपरिभाषया(व्या।प।3) प्रतिपदं स्तोकादिभ्यः करणे च (2.3.33) इत्यादिसूत्रेण या पञ्चमी विहिता, तस्या एव ग्रहणम्। नतु अपादाने पञ्चमी (2.3.28) इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता, तस्या एव ग्रहणम्। न तु अपादाने पञ्चमी (2.3.28) इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता त्सयाः। अवश्यञ्च सलक्षमप्रतिपदोक्तपरिभाषाऽश्रयितव्याः; अन्यथा हि स्तोकादपेतः स्तोकापेत इत्यत्राप्यलुक्, स्यात्, एवं सति निःस्तोक इत्यत्रालुक्प्राप्तिरेव नास्ति, न ह्यत्र स्तोकशब्दात्? प्रतिपदिविहिता पञ्चमी, किं तर्हि? सामान्यलक्षणविहिता। तत किं तन्निवृत्त्यर्थेनोत्तरपदगरहणेन? इत्याह -अन्यार्थम् इत्यादि। आनङाद्यर्थमिदमुत्तरपदगरहणम्। असति चैतस्मिन्? आनङ् ऋतो द्वन्द्वे (6.3.25) इत्यानङ्, होतापातृभ्याम् इत्यत्र यथा पूर्वपदस्य भवति, तथोत्तरपदस्यापि स्यात्। तथा इको ह्रस्वोऽङ्यो गालवस्य (6.3.61) इति ह्रस्वो यथेह भवति -ग्रामणिपुत्रः इति, तथेहापि स्यात् -ग्रामणीः इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा ह्रस्वो यथेह भवति -`ग्रामणिपुत्रः इति, तथेहापि स्यात् -ग्रामणीः इति। ननु यद्यनुत्तरपदेऽपि ह्रस्वः स्यात्, तदा ह्रस्वो यथेह भवति -`ग्रामणिपुत्रः इति, तथेहापि स्यात् -ग्रामणीः इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा ह्रस्वो नपुंसके प्रातिपदिकस्य इति, तथेहापि स्यात्, ग्रामणीः इति। ननु यद्यनुत्तरपदेऽपि ह्रस्वः स्यात्, तदा ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्? नानर्थकम्; अनिगन्तार्थत्वान्नित्यार्थत्वाच्च। किञ्च, असत्युत्तरपदग्रहणे कृतम्। यद्येवम्, यदर्थमिदं तद्विधावेव कर्तव्यम्, इह किमर्थ क्रियते? इत्याह -इहाप्यलुको निवृत्तिम् इत्यादि। इतिकरणो हेतौ। अन्यार्थं तावदवश्यमिदमुत्तरग्रहणम्। इह तु क्रियमाणे सत्ययं विशेषः -निःस्तोक इत्यतराप्यलुग्? निवृत्तः क्रियते। तेन लक्षणप्रतिपदोक्तपरिभाषा(व्य।प।3) नाश्रयितव्या भवति। अथ कुतः प्रातिमावधिकारौ? इत्याह -अलुगधिकारः इत्यादि। विधेयान्तरं विधेयान्तरस्य निवर्तकं भवतीत्यानङ्? विधीयमान उततरपदेऽलुकं निवर्तयति, तस्मात् -अलगधिकारः प्रागानङः। उत्तरपदाधिकारः प्रागङ्गाधिकारात् इति। उत्तरपदे परतो यत्? कार्यं वीधीयते तस्य सम्बन्धिशब्दत्वात्? पूर्वपदं विधिभाक्। अतोऽङ्गं विधिभाक्त्वेन विज्ञायमानमुत्तरपदाधिकारं निवर्तयति। अङ्गस्य हि यत्? कार्यं तत्? प्रत्यये परतो विधीयते, नोत्तरपदे। न ह्रुत्तरपदेऽङ्गसंज्ञा भवति। अथ वा -उत्तरपद इति सप्तमीनिर्देशादनन्तर एवोत्तरपदे भवितव्यमानङा। यदि चात्र विभक्तेरलुक्? स्यात्? तदा व्यवधानादानन्तर्य न स्यात्। न च व्यवधानेऽपि वचनसामर्थ्यादानङ्स्यादिति शक्यते परिकल्पयितुम्। एवं हि तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति निर्दिष्टग्रहणमानन्तर्यार्थ बाध्येत, अनिष्टं च रूपमापद्येत। न चानिष्टार्था शास्त्रे प्रकॢपतिर्युक्ता। तस्मादलुगधिकारः प्रागानङः। अङ्गस्य प्रत्यये परतोऽभावादुत्तरपदे परतस्तन्न भवत्येव, अत उत्तरपदाधिकारः प्रागङ्गाधिकारात्॥

Prakriyasarvasvam

हलन्ताददन्ताच्च परस्याः सप्तम्याः संज्ञायामल्ुक् स्यात् । इति । अथ तृच् । चलोपः । वलादित्वादिद् । एधितृ । विभक्तिकार्यम् । एधिता । मुद् । लघूपधगुणः । मोदिता ।<!अजेर्वीभावो वलादौ वेति वाच्यम्!> (वा० २-४-५६) । अजिता वेता । अजन्तत्वा¹न्नेट्² । मूर्छा मोहाद्यर्थः ।