63002: पञ्चम्याः स्तोकादिभ्यः

Padacheda: पञ्चम्याः | S | 6 | 1 |

स्तोकादिभ्यः | S | 5 | 3 |

Sutrartha


Vasu English Summary

The Ablative -5th case-ending after स्तोक etc. is not elided before the second member of a compound.

Vasu English Translation

The Ablative -5th case-ending after स्तोक etc. is not elided before the second member of a compound. Thus स्तोकान्मुक्तः, अल्पान्मुक्तः, अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रान्मुक्तः ॥ By (1.2.46), a case-inflected word when forming part of a compound is called pratipadika, and by (2.4.71) the endings of a Pratipadika are elided. Therefore, in forming the compound of स्तोकात् मुक्तः, the ablative ending required to be dropped. The present sutra prevents that. The words स्तोक &c in the dual and plural are never compounded, and consequently this rule does not apply to them. Thus स्तोकाभ्यां मुक्तः, स्तोकेभ्यः मुक्तः are separate words and not compounds, for not being treated as compounds, these are not one Pada (एकपद) or one word, and do not have one accent, for in one word, there is only one acute. Thus while स्तोकान्मुक्तः꣡ being one compound word will have one acute (6.1.158), (6.2.144), the word स्तोकाभ्यां मुक्तः being treated as two words, will have separate acute accents. The above compounding takes place by (2.1.39).

Vart:- The word ब्राह्मणाच्छंसिन् should be enumerated in this connection. Here also the Ablative is not elided. Thus ब्राह्मणादादाय शंसति = ब्राह्मणाच्छंसिन् “a kind of Ritvik priest”.

Bhashya

पञ्चम्याः स्तोकादिभ्यः (2861) (6391 उपसंख्यानवार्तिकम् ॥ 1 ॥) - पञ्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानम् - पञ्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानं कर्तव्यम् । ब्राह्मणाच्छंसी ॥ (6392 पञ्चम्यर्थकथनवार्तिकम् ॥ 2 ॥) - अन्यार्थे च - अन्यार्थे चैषा पञ्चमी द्रष्टव्या । ब्राह्मणानि शंसतीति ब्राह्मणाच्छंसी ॥ अथवा युक्त एवात्र पञ्चम्यर्थः । ब्राह्मणेभ्यो गृहीत्वा - आहृत्याहृत्य शंसतीति ब्राह्मणाच्छंसी ॥

Kashika

स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्या उत्तरपदेऽलुग् भवति। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्त ः। समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते। द्विवचनबहुवचनान्तानां तु स्तोकादीनामनभिधानात् समास एव न भवति — स्तोकाभ्यां मुक्त ः, स्तोकेभ्यो मुक्त इति। तेनात्र न कदाचिदैकपद्यमैकस्वर्यं च भवति॥ ब्राह्मणाच्छंसिन उपसंख्यानं कर्तव्यम्॥ ब्राह्मणादादाय शंसतीति ब्राह्मणाच्छंसीति। ऋत्विग्विशेषस्य रूढिरियम्। तस्य व्युत्पत्तिरसता सता वावयवार्थेन क्रियते॥

Siddhanta Kaumudi

एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तररपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ।<!ब्राह्मणाच्छंसिन उपसंख्यानम् !> (वार्तिकम्) ॥ ब्राह्मणे विहितानि शस्त्राणि उपचारात् ब्राह्मणानि तानि शंसतीति ब्राह्मणच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥

Laghu Siddhanta Kaumudi

अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥

Balamanorama

पञ्चम्याः स्तोकादिभ्यः - पञ्चम्याः स्तोकादिभ्यः । एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्या ‘सुपो धातु’ इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति । उत्तरशब्दः समासचरमावयवे रूढः, ‘पदे’ इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः ।स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेने॑ति समासः । अत्र पञ्चम्या अलुक् । एवमिति । आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः । निःस्तोक इति ।निरादयः क्रान्ताद्यर्थे पञ्चम्ये॑ति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाऽभावात्पञ्चम्या अलुक् न । ‘स्तोकान्मुक्तः’ इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात्स्तोकान्मुक्त इति विशेषणयोगाऽभावश्च । किंच स्तोकान्मुक्तस्यापत्यं स्तौकामुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्तौ, स्तोकान्मुक्ता इति द्विबहवचनान्तैर्न समासः, अनभिधानादिति भाष्ये स्पष्टम् । ब्राआहृणाच्छंसिन उपसङ्ख्यानमिति ।पञ्चम्या अलु॑गिति शेषः । ननु ब्राआहृणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि हि ब्राआहृणशब्देनोच्यन्ते,कर्मचोदना ब्राआहृणानि॑ इति कल्पसूत्रात्,शेषे ब्राआहृणशब्दः॑ इति मन्त्रभिन्नवेदभागे ब्राआह्णशब्दस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राआहृणभागस्य न क्लापि शंसनं विहितम्ऋचः शंसति निविदः शंसती॑ति श्रुतिष्वित्यत आह — ब्राआहृणे इति । शस्त्राणीति । ऋचा निविदां च सङ्घः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थे इति । पञ्चम्या अलुगुपसङ्ख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः ।

Tattvabodhini

पञ्चम्याः स्तोकादिभ्यः - हलः । र॒संप्रसारणस्ये॑त्यनुवर्तते ।अङ्गस्ये॑त्यवयवषष्ठी ।हल॑ इति पञ्चमी । तदेतदाह — अङ्गावयवादिति । अङ्गावयवात्किम् । निरुतम् । दुरुतम् । तदन्ताङ्गस्य किम् । विध्यति । क्षीष् हिंसायाम् । षित्त्वादङ् ।क्षिया॑ ।हेति क्षियायाम् ।क्षियाशी॑रित्यादौक्षिया धर्मव्यतिक्रम आचारभेद॑ इति वक्ष्यति । दीर्घनिर्देशसामर्थ्यादिति । ननु दीर्घग्रहणेनाऽङ्गवृत्तपिरभाषा ज्ञाप्यत इत्याकरे स्थितम् । अन्यथा ज्ञाजनोर्जं विदध्यात्,अतो दीर्घो यञी॑ति दीर्घसिद्धेः । तथा च दीर्घनिर्देशसामर्थ्यस्योपक्षयात्कथमिह ह्रस्वाऽभावसिद्धिरिति चेत् । अत्राहुः — ह्रस्वाऽभावे सत्येव दीर्घनिर्देश उक्तपरभाषाया ज्ञापकः । सति तु ह्रस्वे पुनरङ्गकार्यं प्रवृत्तमेवेति न ज्ञापकः । तथा च ह्रस्वाऽभावसिद्धौ न किंचिद्बाधकमिति । किंचअङ्गवृत्ते पुनरङ्गवृत्तावविधि॑रित्येव परिभाषाशरीरम् । तञ्चोक्तज्ञापकात्सिद्धम् । यदि तुभ्यसो भ्य॑मिति सूत्रे भाष्ये परिनिष्ठितस्येत्येव पाठस्तर्हि स्वतन्त्रमेवेदं वचनं न तु ज्ञापकमिति पक्षोऽपि युष्मदस्मच्छब्दगतमनोरमाग्रन्तादवगम्यते । तस्मस्तु पक्षे दीर्घग्रहणसामर्थ्यं नोपक्षीणमिति सम्यगेवायं ग्रन्थ इति । केच#इत्तु संज्ञापूर्वकविधेरनित्यत्वान्न ह्रस्व इति व्याख्येयमित्याहुः । बध्नातीति ।अनिदिता॑मिति नलोपः । अभान्त्सीदिति ।वदव्रजे॑ति वृद्धिः । भष्भावः । अबान्द्धामिति ।झषस्तथो॑रिति तस्य धत्वम् ।झरो झरी॑ति वा लोपः । वृङ् संभक्तौ । भक्तिर्भजनम् । श्रन्थ । कित्त्वपक्षे इति ।श्रन्थिग्रन्थदम्भिस्वञ्जीनां लिटः कित्त्वं वे॑ति व्याकरणान्तरमित्युक्तत्वात् ।

Padamanjari

स्तोकादीनां प्रतिपदिकगणेऽपाठात्सूत्रपठितानां ग्रहणमित्याह - स्तोकान्तिकदूरार्थकृच्छाणि स्तोकादीनीति । करणे च स्तोकाल्पकृच्छ्र इत्यादीनि तुस्तोकादीनि न गृह्यन्त अव्याप्तः । स्तोकान्तिक इत्यत्रत्यानि भूयिष्ठानि अर्थग्रहणात् । अलुग्भवतीति । लुग्न भवतीत्यर्थः । सुपो लुकि प्राप्त इति । सुपो धातुप्रातिपदिकयोः इत्यनेन । प्रतिषेधः क्रियत इति । अलुगिति प्रसज्यप्रतिषेध इति दर्शयति, उतरपदाधिकारोपजीवनाय तु नाव्ययीभावात् इत्यस्यानन्तरमिदं प्रकरणं नारब्धम्, एकवच्च, सर्वस्यालुक्प्रकरणस्य शेषभूतोऽयमर्थातिदेशः, यस्या विभक्तेरलुग्विधीयते, तदर्थो द्व्यात्मको बह्वात्मकर्श्चैकवद्भवतीति वक्तव्यम् । तेन स्तोकाभ्यां मुक्तः, स्तोकेभयो मुक्त इत्यपि विग्रहे स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इत्यत्राप्यैकपद्यमैकस्वर्यं स्यात् नैष दोषः, स्तोकादिभ्यः प्रतिपदं या पञ्चमी - करणे च स्तोकाल्प इति, तस्य अलुक्, सा चासत्ववचनेभ्यो द्विबह्वोर्न सम्भवतीति स्तोकाभ्याम्, स्तोकेभ्य इत्यपादान एषां पञ्चमीत्येव न भविष्यति । एवमपि दूराभ्यामागतः, दुरेभ्य आगत इत्यत्र प्रसङ्गः अत्र हि दूरान्तिकार्थेभ्यो द्वितीया चेति प्रतिपदमेव पञ्चमी । तथाऽन्तिकाभ्यां कृतम्, अन्तिकेभ्यः कृतमित्यादावप्यलुक्प्रसङ्गः तस्मादेकवच्चेति वक्तव्यम् । ननु वृतावुपसर्जनपदानि एकादिसङ्ख्यां विहायाभेदैकत्वासङ्ख्यां प्रतिपद्यन्ते, का पुनरियमभेदैकत्वसङ्ख्या विशेषाणामविभागेनावस्थानम्, यथा - मधुन्योषधिरसानाम्, न हि तत्रास्या ओषधेरयंरसोऽस्या अयमिति विभागो दृश्यते, अथ च त एव विशेषा अनुभूयन्ते न पुना रससामान्यम्, तद्वदत्रापि राजपुरुष तैति राजार्थो नैकत्वादिविशेषाः । उक्तं च - यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः ॥ इति । यद्वा - अनुपातसङ्ख्याविशेषमेकत्वादिष्वनुगतं सामान्यमभेदैकत्वसङ्ख्या, यथा सन्तमसे रुपमात्रं एगृह्यते न पुनः शुक्ल इति वा, कृष्ण इति वा, तद्वदत्रापीति सङ्ख्यावान् राजार्थः, न चाव्ययार्थवन्निःसङ्ख्य इत्येतावत्प्रतीयते । उक्तं च भेदानां वा परित्यागात्सङ्ख्यात्मा स तथाविधः । व्यापारज्जातिभागस्य भेदापोहेन वर्तते ॥ अन्तर्हितविशेषेण यथा रुपेण रुपनान् । प्रख्यायते न शुक्लादिभेदो रुपस्य गम्यते ॥ इति । एतदेवमभेदैकत्वसङ्ख्योपादानाद् द्विवचनबह्वचनान्तानां सर्वा वृत्तिर्न भवति, किं पुनः समास एव, ततश्च समासाभावादलुग्न भविष्यतीति किमेकवद्भवेन उच्यते किं पुनः कारणम् - वृतावभेदैकत्वसङ्ख्या प्रतीयते सङ्ख्याविशेषप्रतिपादकाभावात् । विभक्तिर्हि तस्य प्रतिपादिका, सा च वृतौ निवृता, निवृतायां च तस्याम् त्रिकऋ प्रातिपदिकार्यः इति पक्षे सङ्ख्यासामान्यस्यापि तावत्प्रदिपादकाभावः । यदि परं गुड इत्युक्ते माघुर्यादिवदव्यभिचारात्सङ्ख्या प्रतीयते, अव्यभिचारश्च चसामान्यस्यानियतस्य वा विशेषस्येति, सैवाभेदैकत्वसङ्ख्या । पञ्चकपत्रेऽपि सङ्ख्याविशेषप्रतिपतौ द्योतकत्वेनापि तावद् विभक्तयोऽपेक्ष्यन्त इति तदभावात्सामान्योऽनियते वा विशेषः प्रतीयत इति सैवाभेदैकत्वसङ्ख्या । यत्र ह्यर्थप्रकरणादिकं विशेषावगतौ प्रमाणं भवत्येव तत्र वृत्तिथः । तद्यथा, अर्याद् मुद्गौः क्रीतं मौद्गिकम्, न ह्यएकेन मुद्गेन क्रयः सम्भवति, कारकमध्य इति च, न ह्यएकस्य मध्यं सम्भवति प्रकरणात् - भवद्गिरामवसरप्रदानाय इति आदेशात् - तावकीनो मामकीन इति शैषिकः । मासजात इत्यादौ तु प्रातिपदिकार्थस्यैवाक्तपरिमाणत्वात् । द्विपुत्र इत्यादौ सङ्ख्याशब्दसन्निधानात् । तदेवं यत्र विषेषे प्रमाणाभावस्तत्राभेदैकत्वसङ्ख्या । यद्येवम्, अत्रालुकि सति विभक्तिरेव प्रमाणमिति द्विवचनबहुवचनान्तानां समास स्यादेव यदा त्वर्थप्रकरणादिना विशेषावगतौ द्विवचनबहुवचनान्तानां वृत्तिर्भवति तदा का शङ्घा विभक्तावेव सत्याम् । यदि चाभेदैकत्वसङ्ख्योपजनाद् द्विचनबहुवचनयोरलुगभावः, एकवचनस्यापि न स्यात्, तस्यापि हि सुद्धमेकत्वं वाच्यम्, माभेदैकत्वसङ्ख्या । अथ विभाक्त्यभावे सङ्ख्यासामान्यस्य प्रतीतस्य विषेषपयेवसानापेक्षायां यो हि बहून् कल्पयति कल्पयत्यसावेकमिति न्यायेन वृतावपि शुद्धमेकत्वं प्रतीयत इत्युच्येत, अभैदैकत्वसङ्ख्येत्यनुपपन्नं स्यात्। तस्मादेकवचनान्तम्य, द्विवचनान्तस्य, बहुवचनान्तस्य वा यथेष्ट्ंअ वृत्तिः, वृतौ एचाभेदैकत्वसङ्ख्या, अर्थप्रकरणादिना विशेषावगतिरिति वाच्यम्। एवं च पूर्वोक्तेन न्यानेन द्विवचनबहुचनयोरलुक्प्रसङ्गादतिदेश आश्रयितव्यः । यद्येवम्, गोपुचरः अप्सुयोनिः, अप्सव्य इति ये नित्यबहुवचनान्ताः तेषा मप्यलुकि एकत्वातिदेशादेकवचनप्रसङ्गः एवं तर्ह्यनभिधानमत्र हेतुः । तदाह द्विवचनबहुवचनान्तानां त्वनभिधानादिति । वाक्यमपि तर्हि न प्राप्नोति । न च वाच्यम् - समासे नास्त्यभिधानम्, वाक्ये पुनरस्तीति । नु हि समाससंज्ञाऽर्थाभिधाने उपयुज्यते, यत्पुनरुपयुज्यते - प्रातिपदिकम्, विभक्तिश्च, तत्सर्वमविकलमिति किमत्रानभिधानं करिष्यति । तत्राह - तेनात्रेत्यादि । स्वरस्याप्यर्थाभिधान उपयोगात्, पृथक्स्वरयुक्तस्य वाक्यस्य प्रतिपादकत्वमैकस्वर्ययुक्तस्य समासस्याप्रतिपादकत्वं च युक्तमित्यर्थः । ब्राह्मणाच्छ्ंअसिन इत्यादि । किं पुनरत्रोपसङ्ख्यायते द्वितीयार्थे पञ्चमी, ब्राह्मणानि शंसति ब्राह्मणच्छ्ंअसी, अलुक् तु तत्पुरुषे कृति बहुलम् इत्येव सिद्धः । ननु शास्राण्यसौ शंसति, न ब्राह्मणानि नैष दोषः ब्राह्मणविहितेषु शास्रेषु ब्राह्मतणशब्दो द्रष्टव्यः । अपर आर - युक्त एवात्र पञ्चम्यर्थः, आहरणपूर्वके शंसने शंसतिर्वर्तते, ब्राह्मणादाहृत्य सूक्तानि शंसतीति ब्राह्मणाच्छ्ंअसी । एवमापि होतृप्रभृतिष्वपि ब्राह्मणाच्छ्ंअसीति प्राप्नोति तत्राह - ऋत्विग्विशेषस्य रुढिरियमिति । तस्या इति । ब्राह्मणाच्छ्ंअसीत्यस्या रुढेअरित्यर्थः । सतेति । ब्राह्मणाच्छ्ंअसीत्यत्र पक्षे पञ्चम्यर्थो न सम्भवति, पक्षान्तरे तु सम्भवति ॥

Nyaas

स्तोकादय इति प्रातपदिकगणेषु न पठन्ते। तस्मात्? सूत्रपरिपठिता एवेह ग्रहीतव्या इति दर्शयन्नाह -स्तोकान्तिकदुरार्थकृच्छ्राणि इत्यादि। अथ करणे च` (2.3.33) इत्यादौ सूत्रे ये परिपठिताः स्ताकादयस्ते कस्मान्न गृह्यन्ते? एवं मन्यते -ङसेः स्तोकादिभ्यः इति वक्तव्ये पञ्चम्याः इति बहुतराक्षरनिर्देशेनैतत्? सूचितम् -येषु स्ताकादिषु गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति ते ग्रहीतव्याः` इति। स्तोकान्तिकदूरार्थकृच्छ्राणीत्येतेष्वेव [दूरार्थ इति नास्ति मुद्रिते न्यासपाठे] गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति, तत्रार्थग्रहणात्; न त्वितरेषु। तस्मादेषामेव ग्रहणं न्याव्यमिति। कथं पुनरत्र लुक्? प्राप्नोति, यस्मिन्? प्राप्ते प्रतिषेधोऽयं क्रियते? इत्याह -समासे कृते इत्यादि। समासे कृते सति तस्य कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकत्वम्, अतः सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुपो लुकि प्राप्ते प्रतिषेधोऽयमुच्यते। किं पुनः कारणमेकवचनान्तानां स्तोकादीनामलुगुदाह्यियते, न द्विवचनबहुवचनान्तानाम्? इत्याह -द्विवचनबहुवचनान्तानाम् इत्यादि। वृत्तौ हि विशेषणपदान्येकत्वादिकां संख्यां विहायाभेदैकत्वसंख्यां प्रतिपद्यन्ते। सा पुनः सख्यानमात्रमनुपात्तसंख्याविशेषं सामान्यभूतम्; यत एवमतो विवक्षितार्थानभिधानादद्विवचनबहुवचनान्तनां समासो न भवत्येव। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। तेन इत्यादि। यत एवं द्विवचनबहुवचनान्तानां स्तोकादीनां समासो न भवति, तेन स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्त इत्यत्र न कदाचिदैकपद्यमैकस्वर्य च भवति। स्तोकाभ्यामित्यस्माद्धि पदान्मुक्त इत्येतत्? पदमन्यदेवात्यन्तभिन्नम्, तथा स्तेकेभ्य इत्यस्मान्? मुक्त इत्येतत्। स्वरोऽप्यत्रानेक एव। तथा हि -स्तोकाभ्याम् इत्येतत्? प्रातिपदिकस्वरेम मध्योदात्तम्, मुक्तः इत्येतत्? प्रत्ययस्वरेणान्तोदात्तम्। एवम्? स्तोकेभ्यो मुक्तः इत्यत्रापि नानास्वरता वेदितव्या। मूलोदाहरणे तु समासे सत्येकपद्यं भवति, स्वरोऽप्येक एव। तथा हि -थाथादि (6.2.143) सूत्रेणात्रान्तोदात्तत्वम्। यदि द्विवचनबहुवचनान्तानां समासो न भवतीह तर्हि कथं भवति -गोषुचरः वर्षासुज इति? विवक्षितार्थाभिधानात्। अनभिधानं ह्रसमासे हेतुरुक्तः, इह तु विवक्षितार्थस्यार्थस्य बहुवचनस्याभिधानमस्त्येव। यत्र ह्रभेदैकत्वसंख्योपजायते, तत्र संख्याविशेषस्याभिधानं न भवति, न चात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिदानादभेदैकत्वसंख्या नोपपद्यते। तथा हि -गोषुचर इत्यत्र गोशब्दोऽप्सु वर्तते, स चापोऽभिदधानो बहुत्वसंख्याविशिष्ट एवाभिदधाति, अप्शब्दवत्। वर्षासुज इति -वर्षाशब्दोऽपि कालविशेषे बहुत्वसंख्याविशिष्ट एव वर्तते। अतः प्रापिपदिकेनैव बहुत्वसंख्याया आश्रितत्वान्नात्राभेदैकत्वसंख्योपजायते। यदि तु जायेत, तदा बहुत्वसंख्या निवर्तेत, ततश्च गोशब्दस्य वर्षाशब्दस्य च यः प्रातिपदिकार्तोऽभिप्रेतः स इह न गम्येत। तस्मान्माभूद्गोशब्दवर्षाशब्दयोरभिप्रेतस्यार्थस्यानवगतिरिति नात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिधानाद् गोषुचरः, वर्षासुज इत्यत्र भवत्येव समासः। ब्राआह्रणाच्छंसिन उपसंख्यानं कर्तव्यम् इति। ब्राआहृणाच्छंसीति योऽयं शब्दस्तस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। किं पुनरत्र न सिध्यति? पञ्चमीति। ब्राआहृणशब्देनात्राध्ययनविशेष उच्यते, तं शंसति=कथयति यः सः ब्राआहृणाच्छंसीति ताच्छिलिको णिनिः। अत्र ब्राआहृणशब्दात्? कर्मणि द्वितीया (2.3.2) इति द्वितीयायां प्राप्तायां पञ्चम्युपसंख्येया। अलुक्पुनः तत्पुरुषे कृति बहुलम् (6.3.14) इत्येव सिद्धः। यदा तु ब्राआहृणादाकृष्यावयवमर्थं वा शंसतीति विवक्ष्यते, तदा पञ्चम्यपि नोपसंख्येया। अपादाने पञ्चमी (2.3.28) इत्येवमेव तस्याः सिद्धत्वात्। कथं पुनरत्रासता पञ्चम्यर्थेन व्युत्पत्तिः क्रियते? इत्याह -क्रत्विग्विशेष इत्यादि। रूढिः=प्रसिद्धिः, संज्ञेति यावत्। तस्या इत्यनेन रूढिमात्रं प्रत्यवमृश्यते, न तु ब्राआहृणाच्छंसीत्ययं रूढिशब्दः। रूढिशब्दः कस्याचिदेव ऋत्विग्विशेषस्य वाचकः, तत्रैव तस्य संज्ञात्वेन प्रणीतत्वात्। तस्मात्? तस्याप्यसता सता वावयवार्थेन व्युत्पत्तिः क्रियते। तत्र यदि ब्राआहृणं शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्यापादानस्याभावादसतावयवार्थेन व्युत्पत्तिः क्रियते। यद#आ तु ब्राआहृणादवयबार्थं वा गृहीत्वा शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्य भावात्? सता॥

Prakriyasarvasvam

स्तोकादिभ्यः परस्याः पञ्चम्या उत्तरपदे परेऽलुक् । स्तोकात् कुपितः । अल्पान्मुदितः । अन्तिकाद्दृष्टः । सविधाद्गतः । दूरादागतः । विप्रकृष्टाच्छुतः । कृच्छ्राल्लब्धः ॥

Vartika

ब्राह्मणाच्छंसिन उपसंख्यानम् ।

Sutra Prayogas

  • दूरान्मुक्तम् (रघुवंशम्): पञ्चम्याः स्तोकादिभ्यः इत्यलुक्।

  • रात्रिं-चराऽऽलयम् (भट्टिकाव्यम्): रात्रेः कृति विभाषा इति मुम्।