63003: ओजःसहोऽम्भस्तमसः तृतीयायाः¶
Padacheda: ओजस्-सहस्-अम्भस्-तमसः | S | 5 | 1 |
तृतीयायाः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The Instrumental -3rd case endings after 1. ओजस् 2. सहस् 3. अम्भस् and 4. तमस् are not elided before the second member of a compound.
Vasu English Translation¶
The Instrumental -3rd case endings after 1. ओजस् 2. सहस् 3. अम्भस् and 4. तमस् are not elided before the second member of a compound. Thus ओजसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम् ॥
Vart:- अञ्जस् also should be enumerated. Thus अञ्जसाकृतम् ॥
Vart:- The compounds पुंसानुजः and जनुषान्धः should also be mentioned. Thus पुंसा हेतुनानुजः = पुंसानुजः ॥ जनुषा हेतुनाऽन्धः = जनुषान्धः ॥ The word जनु is another name of जन्मन् ‘birth’.
Bhashya¶
ओजः सहोऽम्भस्तमसस्तृतीयायाः (2862) (6393 उपसंख्यानवार्तिकम् ॥ 1 ॥) - तृतीयाया अञ्जस उपसंख्यानम् - तृतीयाया अञ्जस उपसंख्यानं कर्तव्यम् । अञ्जसाकृतम् ॥ (6394 उपसंख्यानवार्तिकम् ॥ 2 ॥) - पुंसानुजो जनुषान्धो विकृताक्ष इति च - पुंसानुजो जनुषान्धो विकृताक्ष इति चोपसंख्यानं कर्तव्यम् । पुंसानुजः, जनुषान्धः, विकृताक्षः ॥
Kashika¶
ओजस् सहस् अम्भस् तमस् इत्येतेभ्य उत्तरस्यास्तृतीयाया अलुग् भवत्युत्तरपदे। ओजसाकृतम्। सहसाकृतम्। अम्भसाकृतम्। तमसाकृतम् ॥ अञ्जस उपसंख्यानम्॥ अञ्जसाकृतम्॥ पुंसानुजो जनुषान्ध इति वक्त व्यम्॥ पुंसानुजः। जनुषान्धः॥
Siddhanta Kaumudi¶
ओजसाकृतमित्यादि ।<!अञ्जस उपसंख्यानम् !> (वार्तिकम्) ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ।<!पुंसानुजो जनुषान्ध इति च !> (वार्तिकम्) ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥
Balamanorama¶
ओजःसहोऽम्भस्तमसः तृतीयायाः - ओजस् ।ओजस्,सहस्,अम्भस्,तमस्-एषां समाहारद्वन्द्वः । एभ्य परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृतमिति ।कर्तृकरणे कृता बहुल॑मिति समासः । ‘ओजो दीप्तौ बले’ इत्यमरः । इत्यादीति ।सहसाकृतम्, ‘अम्भसाकृतम्’तमसावृत्तम् । तमोवृत्तमिति तु असाध्वेव । शेषषष्ठआ वा समासः । अञ्जस उपसङ्ख्यानमिति । अञ्जश्शब्दात्तृतीयाया अलुक उपसङ्ख्यानमित्यर्थः । अञ्जसाकृतमिति । अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात् । तदाह -आर्जवेनेति । पुंसानुजः ।तृतीयाया अलुकि साधु॑रिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति ।जनुर्जननजन्मानी॑त्यमरः जनुषा=जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह — जात्यन्ध इति । ब्राआहृण्यादिजातितुल्याऽन्ध्वानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् ।
Tattvabodhini¶
ओजःसहोऽम्भस्तमसः तृतीयायाः - ओजः सहो । ओजसाकृतमिति । कर्तृकरणे कृतेति समासः । कथं तर्हि सततनैशतमोवृतमन्यतः इति भारविः । अत्राहुः — वृतु वर्तने इत्यस्मात् घञर्थे कविधानमिति भावे कप्रत्यये तदन्तेन षष्ठीसमासाश्रयणान्न दोष इति । यत्तु केवलपदाधिकार एव तदन्तविधिर्न तूत्तरपदाधिकारे । तथा च नैतशतमसा इति तृतीयाया अलुङ्न भवतीति दुर्घटवृत्याद्वुक्तम् । तन्न । पदाङ्गाधिकारे इत्यत्र इष्टकचितं, पक्वेष्टकचितमिति भाष्योदाहरमादुत्तरपदाधिकारेऽपि तदन्तविधिप्रवृत्तेः । पुंसानुजो जनुषान्ध इति च । जनुषेति । जनुर्जननजन्मानीत्यमरः ।
Padamanjari¶
ओजःसहोग्भस्तमसस्तृतीयायाः ॥
Nyaas¶
ओजसाकृतमित्यादौ कर्तृकरणे कृता बहुलम् (2.1.32) इत्यनेन समासः। अञ्जस उपसंख्यानम् इति। अञ्जस उत्तरस्यास्तृतीयाया अलुक्? उपसंख्यानम्=प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -आज्ञायिनि च (6.3.5) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाञ्जःशब्दादुत्तरस्यास्तृतीयाया अलुग्भवतीति। अन्यदपि चात्र प्रत्पादनमुत्तरत्र करिष्यामः।पुंसानुजः इत्यादि। पुंसानुजो जनुषान्ध इत्यत्रापि तृतीयाया अलुक्प्रतिपादनं कर्तव्यमित्यर्थः। प्रतिपादनं पूर्ववत्। पुंसा हेतुनानुजः पुंसानुजः। जनुषा हेतुना अन्धः जनुषान्धः। तृतीया (2.1.30) इति योगविभागात्? समासः। जनुरिति जन्मनो नामधेयमेतत्॥
Prakriyasarvasvam¶
अधिकारोऽयम् ॥ एभ्य उत्तरपदे परे तृतीयाया अलुक् स्यात् । ओजसाजितम् । सहसाकृतम् । अम्भसासिक्तम् । तमसाच्छन्नम् । विशेषानुक्तावलुक्येकवद्भावो वाच्यः । तेन तमोभिः छन्नमित्यादावपि तमसाच्छन्नमेव । अञ्जसश्च वाच्यम् । अञ्जसाकथितम् । पुंसानुजो जनुपान्धश्चेष्टः । पुंसा हेतुनानुजः । पुंसोऽनुज इत्यर्थः । हेत्वन्तरं विना जन्मनैवान्धो जनुपान्धः ॥
Vartika¶
अञ्जस उपसङ्ख्यानम् ।