63010: कारनाम्नि च प्राचां हलादौ

Padacheda: कारनाम्नि | S | 7 | 1 |

च | S | 0 | 0 |

प्राचाम् | S | 6 | 3 |

हलादौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

The Locative -7th case affix is not elided after a stem ending in a consonant or a short अ in the name of atax of the Eastern People when the second member begins with a consonant.

Vasu English Translation

The Locative -7th case affix is not elided after a stem ending in a consonant or a short अ in the name of atax of the Eastern People when the second member begins with a consonant. Thus सूपेशाणः, दृषदिमाषकः, हलेद्विपदिका, हलेत्रिपदिका ॥ All these are names of taxes, and would have retained the Locative ending even by the last rule. The present rule makes a niyama or restriction, which is threefold, namely (1) when it is the name of a tax, and no other word, (2) when it belongs to the Eastern people and no other people, (3) and when the second member begins with a consonant.

Why do we say when it is the name of a tax.? Observe अभ्यर्हितेपशुः = अभ्यर्हितपशुः ॥ It is the name of ‘a duty or dues’, but not of a ‘tax’. Why do we say “of the Eastern people”? Observe यूथेपशुः = यूथपशुः ॥ Why do we say ‘before a second member beginning with a consonant’? Observe अविकटे उरणः = अविकटोरणः ॥ So also नद्यां दोहनी = नदीदोहनी ॥ For accent of these words see (6.2.65).

Bhashya

कारनाम्नि च प्राचां हलादौ (2869) (वार्तिकावतरणभाष्यम्) किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ? । कथं च प्राप्ते, कथं चाप्राप्ते ? यदि संज्ञायामिति वर्तते ततः - प्राप्ते । अथ निवृत्तं ततः - अप्राप्ते । कश्चात्र विशेषः ? (6403 प्राप्तविभाषायां दोषवार्तिकम् ॥ 1 ॥) - कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्गः - कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्गो भवति । इहापि प्राप्नोति - अविकटे उरणो दातव्यः - अविकटोरणः ॥ अस्तु तर्ह्यप्राप्ते । (6404 अप्राप्तविभाषायां दोषवार्तिकम् ॥ 2 ॥) - अप्राप्ते समासविधानम् - यद्यप्राप्ते समासो विधेयः । प्राप्ते पुनः सति संज्ञायाम् (2.1.44) इत्येव समासः सिद्धः ॥ (अप्राप्तविभाषादोषानिवारकभाष्यम्) नैष दोषः । एतदेव ज्ञापयति - भवत्यत्र समास इति, यदयं कारनाम्नि सप्तम्या अलुकं शास्ति ॥ यद्यपि तावत् - ज्ञापकात्समासः स्यात्, स्वरस्तु न सिध्यति । यद्धि तत्सप्तमीपूर्वपदं प्रकृतिस्वरं भवतीति, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येवं तत् । नैवात्रानेन स्वरेण भवितव्यम् । किन्तर्हि ? सप्तमीहारिणौ र्धम्येऽहरणे (6.2.65) इत्यनेनात्र स्वरेण भवितव्यम् ॥ किं च भोः संज्ञा अपि लोके क्रियन्ते, न लोकः संज्ञासु प्रमाणम् । लोके च कारनाम संज्ञा ॥ (वार्तिकावतरणभाष्यम्) ननु चोक्तं कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्ग इति । नैष दोषः ॥ (6405 प्राप्तविभाषादोषनिवारकवार्तिकम् ॥ 3 ॥) - योगविभागात्सिद्धम् - योगविभागः करिष्यते - कारनाम्नि च प्राचाम् । ततः -हलादौ । हलादौ च कारनाम्नि सप्तम्या अलुक् भवति । इदमिदानीं किमर्थम् ? नियमार्थम् - हलादावेव कारनाम्नि सप्तम्या अलुक् भवति नान्यत्र । क्व मा भूत् ? अविकटे उरणो दातव्यः - अविकटोरणः ॥

Kashika

प्राचां देशे यत् कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या अलुग् भवति। स्तूपेशाणः। दृषदिमाषकः। हलेद्विपदिका। हलेत्रिपदिका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च त्रयो नियमविकल्पा अत्रेष्यन्ते — कारनाम्न्येव, प्राचामेव, हलादावेवेति। कारनाम्नीति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः। कारादन्यस्यैतद् देयस्य नाम। प्राचामिति किम्? यूथे पशुः यूथपशुः। हलादाविति किम्? अविकट उरणः अविकटोरणः। हलदन्तादित्येव — नद्यां दोहनी नदीदोहनी॥

Siddhanta Kaumudi

प्रचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव, प्राचामेव, हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥

Balamanorama

कारनाम्नि च प्राचां हलादौ - कारनाम्नि । यत्रकारनामेति । राजग्राह्रो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः । नियमार्थमिति ।प्राचां देशे हलादौ यदि भवति कारनाम्न्येव,॑कारनाम्नि हलादौ चेत्प्राचामेव,॑प्राचां कारनाम्नि चेद्धलादावेवे॑ति नियमत्रयार्थमित्यर्थः । अविकटोरण इति । अविशब्दासङ्घाते कटच् । उपणो मेषः । नद्यामिति । नद्युत्तारणे तात्कालिको दोहः-करः ।

Tattvabodhini

कारनाम्नि च प्राचां हलादौ - अविकटोरण इति । सङ्घाते कट जिति कटच्प्रत्ययान्तः । उरणो-मेषः ।

Padamanjari

वणिम्भिः पशुपालैः कर्षकैश्च कल्पितो राजग्राह्यए भागः - करः, कर कएव कारः, प्रज्ञादित्वादण् । एनियमविकल्पा इति नियमविशेषा इत्यर्थः । तानेव दर्शयति - कारनाम्न्ये नेत्यादि । प्राचां देशे हलादौ यदि भवति कारनाम्न्येव इति प्रथमो नियमः, अप्राग्देशावर्तिनि तु त्वचिसारादावकारनाम्न्यपि भवत्येव । तथा कारनाम्नि हलादौ यदि भवति प्रचामेव इति द्वितीयः । प्राचां कारनाम्नि च यदि भवति हलादावेव इति तृतीयः । अवीनां समूहोऽविकटम्, सङ्घाते कटच् । कथं पुरेकस्मिन्वाक्ये नियमत्रयं लभ्यते कः पुनराह - एकमिदं वाक्यमिति आगृह्यमाणविशेषत्वेन प्रत्येकमेवकारध्याहारात् त्रीण्येव वाक्यानि । संज्ञाग्रहणेन प्रकृतेऽपि एनामग्रहणं क्रियते नियमार्थत्वं विस्पष्टयितुमन्यथाऽसंज्ञायां विध्यर्थताऽपि समाभाव्येत । कथं पुरसंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यात् - प्रचां कारे हलादिनोतरपदेनासंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यत् - प्रचां क्रे हलादिनोतरपदेनासंज्ञानामपि भवति समास इति । यस्मिन्विधिः इत्येव सिद्धे आदिग्रहणं विस्पष्टार्थम् ॥

Nyaas

वणिग्भिः कर्षकैः पशुपालैश्च राज्ञे देयो भागो रक्षानिबन्धनः=कारः, तस्य नाम कारनाम। कूपेशाणम् इत्यादौ र्संज्ञायाम् (2.1.43) इति समासः। हलेद्विपदिका इति। द्वौ द्वौ पादौ देयौ द्विपादिका, पादशतस्य (5.4.1) इत्यादिना वुन्, अलोन्त्यलोपश्च, पादः पत् (6.4.130) इति पदादेशः। कारविशेषस्य इत्यादिनास्य सूत्रस्य नियमार्थतां दर्शयति। नियमविकल्पाः -नियमविशेषा इत्यर्थः। कारनाम्नि च इत्यादिना तेषां नियमविकलपानां स्वरूपं दर्शयति। एते च नियमविकल्पाः कारनाम्नि, प्राचाम्, हलादावित्येषां पदानामिह नियमवाक्य उपादानाललभ्यन्ते। यद्याद्यो नियमो नाभिप्रेतः स्यात्? तदा कारनाम्नि इति न ब्राऊयात्। एवं यदि द्वितीयो नियममो नाभिप्रेतः स्यात्? तदा प्राचाम् इत्येवं नोक्तं स्यात्। तथा यदि तृतीयो नियमो नाभीष्टः स्यात्? हलादौ इत्येवं नोक्तं स्यात्। अथ किमर्थं नामग्रहणम्, न पूर्वयोगात्? संज्ञाग्रहणमनुवर्तते? पूर्वयोगे संज्ञाया उपाधेः प्रायिकत्वसूचनार्थं नामग्रहणम्। तेन ह्मदिस्पृक्, दिविस्पृगित्यत्रासंज्ञायामप्यलुक्सिद्धो भवति॥

Prakriyasarvasvam

हलादौ प्राग्देशभवे कारनाम्नि परे हलदन्तात् सप्तम्या अलुक् स्यात् । कारौ राजभागः । हलेद्विपदिकाः । दृषदिमाषकाः ॥