63019: नेन्सिद्धबध्नातिषु

Padacheda: न | S | 0 | 0 |

इन्-सिद्धबध्नातिषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The Locative -7th case ending is not preserved before a stem ending in इन् before he word सिद्ध and before a word derived from बन्ध् ।

Vasu English Translation

The Locative -7th case ending is not preserved before a stem ending in इन् before he word सिद्ध and before a word derived from बन्ध् । Thus स्थण्डिलशायिन्, सांकाश्यसिद्धः, काम्पिल्यसिद्धः, चक्रबन्धकः, चरकबन्धकः ॥ The compounding takes place by yoga-vibhaga of sutra (2.1.40). Some use the word चक्रबन्धः as an illustration under this rule: बन्ध then is derived by अच् of (3.1.134). The बन्ध ending in घञ् is governed by (6.3.13). This sutra is an exception to (6.3.14).

Kashika

इन्नन्त उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्या अलुग् न भवति। स्थण्डिलवर्ती। सिद्ध — सांकाश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति — चक्रबद्धः। चारबद्धः। सप्तमीति योगविभागात् समासः। चक्रबन्ध इति केचिदुदाहरन्ति तत् पचाद्यजन्तं द्रष्टव्यम्। घञन्ते हि **बन्धे च विभाषा**(६.३.१३) इत्युक्त म्॥

Siddhanta Kaumudi

इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः ॥

Balamanorama

नेन्सिद्धबध्नातिषु - नेन्सिद्धबन्धानादिषु च । चक्रबद्ध इति ।साधनं कृते॑ति क्तान्तेन सप्तम्यन्तस्य समासः ।

Tattvabodhini

नेन्सिद्धबध्नातिषु - नेन्सिद्धब । चक्रबन्ध इति । तत्पुरुषे इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः । बहुव्रीहौ तु बन्धे च विभाषा इति विकल्प एव । वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु । पश्यतोहर इति । पश्यन्तमनादृत्य हरतीत्यर्थः । षष्ठी चाऽनादरे इति षष्ठी । देवानांप्रिय इति च मूर्खे । देवानामिति । मूर्खा हि देवानां प्रीतिं जनयन्ति देवपशुत्वादिति मनोरमा । अयं भावः — ब्राहृआज्ञानरहितत्वात्संसारिणो मूर्खाः । ते तु यागादिकर्माण्युनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानाम्तयन्तं प्रीतिं जनयन्ति । बहृज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाऽबावात् । अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति । शेपपुच्छलाङ्गूलेषु शुनः । सेपपुच्छेति । शुन इव शेपमस्य शुनःशेपः । यद्यपि शेपस्शब्दः सकारान्तः, गौर्लिङ्गं चिह्नशेपसोः इत्यमरप्रोगात्, तथापि शीङ्गो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव । तथा च मन्त्र यस्याकमुशन्तः प्रहराम शेपमिति । चिह्नशेफसोः इति पाटे तु शेफशब्दस्य सकारान्तत्वशङ्कैव नास्तीति बोध्यम् । शुनः पुच्छ इत्यादावपि बहुव्रीहिः । त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः । मातुः पितुभ्र्यामिति सूत्रे समासेऽङ्गुलेः सङ्गः इत्यतः समास इत्यनुवर्तितम्, तत्फलं दर्शयति — असमासे त्विति । वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः । इत्यलुक्समासः तत्त्वबोधिन्याम् ।

Nyaas

तत्पुरुषे कृति बहुलम् (6.3.14) इति प्राप्तस्यालुकोऽयं प्रतिषेधः। इन्नन्त उत्तरपदे इति। ननु च उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नष्यते (पु।प।26) इति ज्ञापितमेतत्, तत्कथमिह तदन्तमुत्तरपदं गृह्रते? सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः - कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परस्येन्प्रत्ययस्यासम्भवात्। द्विविध एव हीन्प्रत्ययः - कृत्? तद्धितश्च। तत्र कृद्धातोरेवोत्पद्यते इति न सप्तम्याः परः सम्भवति। तद्धितोऽपि नैव कश्चित्? सप्तमीसमर्थादुत्पद्यत इत्यसावपि नैव सप्तम्याः परः सम्भवति। तस्मादिन्नन्तमेव गृह्रत युक्तमुक्तमेतत्। स्थण्डिलवर्ती इति। व्रते (3.2.80) इति णिनिः; उपपदमतिङ् (2.2.19) इति समासः। साङ्काश्यसिद्धः इति। सिद्धशुष्कपक्वबन्धैश्च (2.1.41) इत्यादिना समासः। चक्रबद्धः इति। बद्धशब्दो निष्ठान्तः, सप्तमी (2.1.40) इति योगविभागात्? समासः। बन्धशब्देन चक्रबन्धः इति। सिद्ध (2.1.40) इत्यादिना समासः। तत्? पचाद्यचप्रत्ययान्तं द्रष्टव्यम् इति। अथ बन्ध इत्येतच्छब्दरूपं घञन्तं कस्मान्न गृह्रते? इत्याह घञन्ते हि इत्यादि॥

Prakriyasarvasvam

इन्नन्ते सिद्धशब्दे बध्नातौ च परे तत्पुरुषे कृति० (६-३-१४) इत्यलुङ् न स्यात् । वनवर्ती । शास्त्रसिद्धः । यूपबन्धः ॥